Sūkta 62
- Devatā देवता
- 1, 2: Sūrya; 3: Agni, Mitra, Varuṇa; 4: Aditi, Divaḥ, Pṛthivī, Mitra, Varuṇa, Vāyu; 5: Mitra, Varuṇa; 6: Aryaman, Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 2, 6); nicṛttriṣṭup (3-5)
2nd set of styles triṣṭubh
-
Ṛk 1
उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणां ।
स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥उत् सूर्यो बृहद् अर्चींष्य् अश्रेत् पुरु विश्वा जनिम मानुषाणाम् |
समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर् भूत् ||útsū́ryo bṛhádarcī́ṃṣyaśretpurú víśvā jánima mā́nuṣāṇām ǀ
samó divā́ dadṛśe rócamānaḥ krátvā kṛtáḥ súkṛtaḥ kartṛ́bhirbhūt ǁut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām |
samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt ||उत् । सूर्यः॑ । बृ॒हत् । अ॒र्चींषि॑ । अ॒श्रे॒त् । पु॒रु । विश्वा॑ । जनि॑म । मानु॑षाणाम् ।
स॒मः । दि॒वा । द॒दृ॒शे॒ । रोच॑मानः । क्रत्वा॑ । कृ॒तः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥उत् । सूर्यः । बृहत् । अर्चींषि । अश्रेत् । पुरु । विश्वा । जनिम । मानुषाणाम् ।
समः । दिवा । ददृशे । रोचमानः । क्रत्वा । कृतः । सुऽकृतः । कर्तृऽभिः । भूत् ॥út ǀ sū́ryaḥ ǀ bṛhát ǀ arcī́ṃṣi ǀ aśret ǀ purú ǀ víśvā ǀ jánima ǀ mā́nuṣāṇām ǀ
samáḥ ǀ divā́ ǀ dadṛśe ǀ rócamānaḥ ǀ krátvā ǀ kṛtáḥ ǀ sú-kṛtaḥ ǀ kartṛ́-bhiḥ ǀ bhūt ǁut ǀ sūryaḥ ǀ bṛhat ǀ arcīṃṣi ǀ aśret ǀ puru ǀ viśvā ǀ janima ǀ mānuṣāṇām ǀ
samaḥ ǀ divā ǀ dadṛśe ǀ rocamānaḥ ǀ kratvā ǀ kṛtaḥ ǀ su-kṛtaḥ ǀ kartṛ-bhiḥ ǀ bhūt ǁ7.62.1 Aṣṭaka 5.5.4.1Anuvāka 7.4.70
-
Ṛk 2
स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवैः॑ ।
प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥स सूर्य प्रति पुरो न उद् गा एभि स्तोमेभिर् एतशेभिर् एवैः |
प्र नो मित्राय वरुणाय वोचो ऽनागसो अर्यम्णे अग्नये च ||sá sūrya práti puró na údgā ebhíḥ stómebhiretaśébhirévaiḥ ǀ
prá no mitrā́ya váruṇāya vocó’nāgaso aryamṇé agnáye ca ǁsa sūrya prati puro na ud gā ebhi stomebhir etaśebhir evaiḥ |
pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca ||सः । सू॒र्य॒ । प्रति॑ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे॑भिः । ए॒त॒शेभिः॑ । एवैः॑ ।
प्र । नः॒ । मि॒त्राय॑ । वरु॑णाय । वो॒चः॒ । अना॑गसः । अ॒र्य॒म्णे । अ॒ग्नये॑ । च॒ ॥सः । सूर्य । प्रति । पुरः । नः । उत् । गाः । एभिः । स्तोमेभिः । एतशेभिः । एवैः ।
प्र । नः । मित्राय । वरुणाय । वोचः । अनागसः । अर्यम्णे । अग्नये । च ॥sáḥ ǀ sūrya ǀ práti ǀ puráḥ ǀ naḥ ǀ út ǀ gāḥ ǀ ebhíḥ ǀ stómebhiḥ ǀ etaśébhiḥ ǀ évaiḥ ǀ
prá ǀ naḥ ǀ mitrā́ya ǀ váruṇāya ǀ vocaḥ ǀ ánāgasaḥ ǀ aryamṇé ǀ agnáye ǀ ca ǁsaḥ ǀ sūrya ǀ prati ǀ puraḥ ǀ naḥ ǀ ut ǀ gāḥ ǀ ebhiḥ ǀ stomebhiḥ ǀ etaśebhiḥ ǀ evaiḥ ǀ
pra ǀ naḥ ǀ mitrāya ǀ varuṇāya ǀ vocaḥ ǀ anāgasaḥ ǀ aryamṇe ǀ agnaye ǀ ca ǁ7.62.2 Aṣṭaka 5.5.4.2Anuvāka 7.4.71
-
Ṛk 3
वि नः॑ स॒हस्रं॑ शु॒रुधो॑ रदंत्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
यच्छं॑तु चं॒द्रा उ॑प॒मं नो॑ अ॒र्कमा नः॒ कामं॑ पूपुरंतु॒ स्तवा॑नाः ॥वि नः सहस्रं शुरुधो रदन्त्व् ऋतावानो वरुणो मित्रो अग्निः |
यच्छन्तु चन्द्रा उपमं नो अर्कम् आ नः कामम् पूपुरन्तु स्तवानाः ||ví naḥ sahásram śurúdho radantvṛtā́vāno váruṇo mitró agníḥ ǀ
yácchantu candrā́ upamám no arkámā́ naḥ kā́mam pūpurantu stávānāḥ ǁvi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ |
yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ ||वि । नः॒ । स॒हस्र॑म् । शु॒रुधः॑ । र॒द॒न्तु॒ । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।
यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । आ । नः॒ । काम॑म् । पू॒पु॒र॒न्तु॒ । स्तवा॑नाः ॥वि । नः । सहस्रम् । शुरुधः । रदन्तु । ऋतऽवानः । वरुणः । मित्रः । अग्निः ।
यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । आ । नः । कामम् । पूपुरन्तु । स्तवानाः ॥ví ǀ naḥ ǀ sahásram ǀ śurúdhaḥ ǀ radantu ǀ ṛtá-vānaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ
yácchantu ǀ candrā́ḥ ǀ upa-mám ǀ naḥ ǀ arkám ǀ ā́ ǀ naḥ ǀ kā́mam ǀ pūpurantu ǀ stávānāḥ ǁvi ǀ naḥ ǀ sahasram ǀ śurudhaḥ ǀ radantu ǀ ṛta-vānaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ
yacchantu ǀ candrāḥ ǀ upa-mam ǀ naḥ ǀ arkam ǀ ā ǀ naḥ ǀ kāmam ǀ pūpurantu ǀ stavānāḥ ǁ7.62.3 Aṣṭaka 5.5.4.3Anuvāka 7.4.72
-
Ṛk 4
द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे ।
मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णां ॥द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे |
मा हेळे भूम वरुणस्य वायोर् मा मित्रस्य प्रियतमस्य नृणाम् ||dyā́vābhūmī adite trā́sīthām no yé vām jajñúḥ sujánimāna ṛṣve ǀ
mā́ héḷe bhūma váruṇasya vāyórmā́ mitrásya priyátamasya nṛṇā́m ǁdyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve |
mā heḷe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām ||द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ । ये । वा॒म् । ज॒ज्ञुः । सु॒ऽजनि॑मानः । ऋ॒ष्वे॒ इति॑ ।
मा । हेळे॑ । भू॒म॒ । वरु॑णस्य । वा॒योः । मा । मि॒त्रस्य॑ । प्रि॒यऽत॑मस्य । नृ॒णाम् ॥द्यावाभूमी इति । अदिते । त्रासीथाम् । नः । ये । वाम् । जज्ञुः । सुऽजनिमानः । ऋष्वे इति ।
मा । हेळे । भूम । वरुणस्य । वायोः । मा । मित्रस्य । प्रियऽतमस्य । नृणाम् ॥dyā́vābhūmī íti ǀ adite ǀ trā́sīthām ǀ naḥ ǀ yé ǀ vām ǀ jajñúḥ ǀ su-jánimānaḥ ǀ ṛṣve íti ǀ
mā́ ǀ héḷe ǀ bhūma ǀ váruṇasya ǀ vāyóḥ ǀ mā́ ǀ mitrásya ǀ priyá-tamasya ǀ nṛṇā́m ǁdyāvābhūmī iti ǀ adite ǀ trāsīthām ǀ naḥ ǀ ye ǀ vām ǀ jajñuḥ ǀ su-janimānaḥ ǀ ṛṣve iti ǀ
mā ǀ heḷe ǀ bhūma ǀ varuṇasya ǀ vāyoḥ ǀ mā ǀ mitrasya ǀ priya-tamasya ǀ nṛṇām ǁ7.62.4 Aṣṭaka 5.5.4.4Anuvāka 7.4.73
-
Ṛk 5
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।
आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन |
आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ||prá bāhávā sisṛtam jīváse na ā́ no gávyūtimukṣatam ghṛténa ǀ
ā́ no jáne śravayatam yuvānā śrutám me mitrāvaruṇā hávemā́ ǁpra bāhavā sisṛtaṃ jīvase na ā no gavyūtim ukṣataṃ ghṛtena |
ā no jane śravayataṃ yuvānā śrutam me mitrāvaruṇā havemā ||प्र । बा॒हवा॑ । सि॒सृ॒त॒म् । जी॒वसे॑ । नः॒ । आ । नः॒ । गव्यू॑तिम् । उ॒क्ष॒त॒म् । घृ॒तेन॑ ।
आ । नः॒ । जने॑ । श्र॒व॒य॒त॒म् । यु॒वा॒ना॒ । श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा ॥प्र । बाहवा । सिसृतम् । जीवसे । नः । आ । नः । गव्यूतिम् । उक्षतम् । घृतेन ।
आ । नः । जने । श्रवयतम् । युवाना । श्रुतम् । मे । मित्रावरुणा । हवा । इमा ॥prá ǀ bāhávā ǀ sisṛtam ǀ jīváse ǀ naḥ ǀ ā́ ǀ naḥ ǀ gávyūtim ǀ ukṣatam ǀ ghṛténa ǀ
ā́ ǀ naḥ ǀ jáne ǀ śravayatam ǀ yuvānā ǀ śrutám ǀ me ǀ mitrāvaruṇā ǀ hávā ǀ imā́ ǁpra ǀ bāhavā ǀ sisṛtam ǀ jīvase ǀ naḥ ǀ ā ǀ naḥ ǀ gavyūtim ǀ ukṣatam ǀ ghṛtena ǀ
ā ǀ naḥ ǀ jane ǀ śravayatam ǀ yuvānā ǀ śrutam ǀ me ǀ mitrāvaruṇā ǀ havā ǀ imā ǁ7.62.5 Aṣṭaka 5.5.4.5Anuvāka 7.4.74
-
Ṛk 6
नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधंतु ।
सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥नू मित्रो वरुणो अर्यमा नस् त्मने तोकाय वरिवो दधन्तु |
सुगा नो विश्वा सुपथानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ||nū́ mitró váruṇo aryamā́ nastmáne tokā́ya várivo dadhantu ǀ
sugā́ no víśvā supáthāni santu yūyám pāta svastíbhiḥ sádā naḥ ǁnū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu |
sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ ||नु । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । नः॒ । त्मने॑ । तो॒काय॑ । वरि॑वः । द॒ध॒न्तु॒ ।
सु॒ऽगा । नः॒ । विश्वा॑ । सु॒ऽपथा॑नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । मित्रः । वरुणः । अर्यमा । नः । त्मने । तोकाय । वरिवः । दधन्तु ।
सुऽगा । नः । विश्वा । सुऽपथानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥nú ǀ mitráḥ ǀ váruṇaḥ ǀ aryamā́ ǀ naḥ ǀ tmáne ǀ tokā́ya ǀ várivaḥ ǀ dadhantu ǀ
su-gā́ ǀ naḥ ǀ víśvā ǀ su-páthāni ǀ santu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁnu ǀ mitraḥ ǀ varuṇaḥ ǀ aryamā ǀ naḥ ǀ tmane ǀ tokāya ǀ varivaḥ ǀ dadhantu ǀ
su-gā ǀ naḥ ǀ viśvā ǀ su-pathāni ǀ santu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.62.6 Aṣṭaka 5.5.4.6Anuvāka 7.4.75
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.