Sūkta 58
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (2, 6); nicṛttriṣṭup (3, 4); virāṭtrisṭup (1); triṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् ।
उ॒त क्षो॑दंति॒ रोद॑सी महि॒त्वा नक्षं॑ते॒ नाकं॒ निर्ऋ॑तेरवं॒शात् ॥प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस् तुविष्मान् |
उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेर् अवंशात् ||prá sākamúkṣe arcatā gaṇā́ya yó dáivyasya dhā́mnastúviṣmān ǀ
utá kṣodanti ródasī mahitvā́ nákṣante nā́kam nírṛteravaṃśā́t ǁpra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnas tuviṣmān |
uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirṛter avaṃśāt ||प्र । सा॒क॒म्ऽउक्षे॑ । अ॒र्च॒त॒ । ग॒णाय॑ । यः । दैव्य॑स्य । धाम्नः॑ । तुवि॑ष्मान् ।
उ॒त । क्षो॒द॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । नक्ष॑न्ते । नाक॑म् । निःऽऋ॑तेः । अ॒वं॒शात् ॥प्र । साकम्ऽउक्षे । अर्चत । गणाय । यः । दैव्यस्य । धाम्नः । तुविष्मान् ।
उत । क्षोदन्ति । रोदसी इति । महिऽत्वा । नक्षन्ते । नाकम् । निःऽऋतेः । अवंशात् ॥prá ǀ sākam-úkṣe ǀ arcata ǀ gaṇā́ya ǀ yáḥ ǀ dáivyasya ǀ dhā́mnaḥ ǀ túviṣmān ǀ
utá ǀ kṣodanti ǀ ródasī íti ǀ mahi-tvā́ ǀ nákṣante ǀ nā́kam ǀ níḥ-ṛteḥ ǀ avaṃśā́t ǁpra ǀ sākam-ukṣe ǀ arcata ǀ gaṇāya ǀ yaḥ ǀ daivyasya ǀ dhāmnaḥ ǀ tuviṣmān ǀ
uta ǀ kṣodanti ǀ rodasī iti ǀ mahi-tvā ǀ nakṣante ǀ nākam ǀ niḥ-ṛteḥ ǀ avaṃśāt ǁ7.58.1 Aṣṭaka 5.4.28.1Anuvāka 7.4.33
-
Ṛk 2
ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः ।
प्र ये महो॑भि॒रोज॑सो॒त संति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥जनूश् चिद् वो मरुतस् त्वेष्येण भीमासस् तुविमन्यवो ऽयासः |
प्र ये महोभिर् ओजसोत सन्ति विश्वो वो यामन् भयते स्वर्दृक् ||janū́ścidvo marutastveṣyéṇa bhī́māsastúvimanyavó’yāsaḥ ǀ
prá yé máhobhirójasotá sánti víśvo vo yā́manbhayate svardṛ́k ǁjanūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ |
pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk ||ज॒नूः । चि॒त् । वः॒ । म॒रु॒तः॒ । त्वे॒ष्ये॑ण । भीमा॑सः । तुवि॑ऽमन्यवः । अया॑सः ।
प्र । ये । महः॑ऽभिः । ओज॑सा । उ॒त । सन्ति॑ । विश्वः॑ । वः॒ । याम॑न् । भ॒य॒ते॒ । स्वः॒ऽदृक् ॥जनूः । चित् । वः । मरुतः । त्वेष्येण । भीमासः । तुविऽमन्यवः । अयासः ।
प्र । ये । महःऽभिः । ओजसा । उत । सन्ति । विश्वः । वः । यामन् । भयते । स्वःऽदृक् ॥janū́ḥ ǀ cit ǀ vaḥ ǀ marutaḥ ǀ tveṣyéṇa ǀ bhī́māsaḥ ǀ túvi-manyavaḥ ǀ áyāsaḥ ǀ
prá ǀ yé ǀ máhaḥ-bhiḥ ǀ ójasā ǀ utá ǀ sánti ǀ víśvaḥ ǀ vaḥ ǀ yā́man ǀ bhayate ǀ svaḥ-dṛ́k ǁjanūḥ ǀ cit ǀ vaḥ ǀ marutaḥ ǀ tveṣyeṇa ǀ bhīmāsaḥ ǀ tuvi-manyavaḥ ǀ ayāsaḥ ǀ
pra ǀ ye ǀ mahaḥ-bhiḥ ǀ ojasā ǀ uta ǀ santi ǀ viśvaḥ ǀ vaḥ ǀ yāman ǀ bhayate ǀ svaḥ-dṛk ǁ7.58.2 Aṣṭaka 5.4.28.2Anuvāka 7.4.34
-
Ṛk 3
बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ ।
ग॒तो नाध्वा॒ वि ति॑राति जं॒तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥बृहद् वयो मघवद्भ्यो दधात जुजोषन्न् इन् मरुतः सुष्टुतिं नः |
गतो नाध्वा वि तिराति जन्तुम् प्र ण स्पार्हाभिर् ऊतिभिस् तिरेत ||bṛhádváyo maghávadbhyo dadhāta jújoṣannínmarútaḥ suṣṭutím naḥ ǀ
gató nā́dhvā ví tirāti jantúm prá ṇaḥ spārhā́bhirūtíbhistireta ǁbṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ |
gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta ||बृ॒हत् । वयः॑ । म॒घव॑त्ऽभ्यः । द॒धा॒त॒ । जुजो॑षन् । इत् । म॒रुतः॑ । सु॒ऽस्तु॒तिम् । नः॒ ।
ग॒तः । न । अध्वा॑ । वि । ति॒रा॒ति॒ । ज॒न्तुम् । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒ ॥बृहत् । वयः । मघवत्ऽभ्यः । दधात । जुजोषन् । इत् । मरुतः । सुऽस्तुतिम् । नः ।
गतः । न । अध्वा । वि । तिराति । जन्तुम् । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेत ॥bṛhát ǀ váyaḥ ǀ maghávat-bhyaḥ ǀ dadhāta ǀ jújoṣan ǀ ít ǀ marútaḥ ǀ su-stutím ǀ naḥ ǀ
gatáḥ ǀ ná ǀ ádhvā ǀ ví ǀ tirāti ǀ jantúm ǀ prá ǀ naḥ ǀ spārhā́bhiḥ ǀ ūtí-bhiḥ ǀ tireta ǁbṛhat ǀ vayaḥ ǀ maghavat-bhyaḥ ǀ dadhāta ǀ jujoṣan ǀ it ǀ marutaḥ ǀ su-stutim ǀ naḥ ǀ
gataḥ ǀ na ǀ adhvā ǀ vi ǀ tirāti ǀ jantum ǀ pra ǀ naḥ ǀ spārhābhiḥ ǀ ūti-bhiḥ ǀ tireta ǁ7.58.3 Aṣṭaka 5.4.28.3Anuvāka 7.4.35
-
Ṛk 4
यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री ।
यु॒ष्मोतः॑ स॒म्राळु॒त हं॑ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णं ॥युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री |
युष्मोतः सम्राऌ उत हन्ति वृत्रम् प्र तद् वो अस्तु धूतयो देष्णम् ||yuṣmóto vípro marutaḥ śatasvī́ yuṣmóto árvā sáhuriḥ sahasrī́ ǀ
yuṣmótaḥ samrā́ḷutá hanti vṛtrám prá tádvo astu dhūtayo deṣṇám ǁyuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī |
yuṣmotaḥ samrāḷ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam ||यु॒ष्माऽऊ॑तः । विप्रः॑ । म॒रु॒तः॒ । श॒त॒स्वी । यु॒ष्माऽऊ॑तः । अर्वा॑ । सहु॑रिः । स॒ह॒स्री ।
यु॒ष्माऽऊ॑तः । स॒म्ऽराट् । उ॒त । ह॒न्ति॒ । वृ॒त्रम् । प्र । तत् । वः॒ । अ॒स्तु॒ । धू॒त॒यः॒ । दे॒ष्णम् ॥युष्माऽऊतः । विप्रः । मरुतः । शतस्वी । युष्माऽऊतः । अर्वा । सहुरिः । सहस्री ।
युष्माऽऊतः । सम्ऽराट् । उत । हन्ति । वृत्रम् । प्र । तत् । वः । अस्तु । धूतयः । देष्णम् ॥yuṣmā́-ūtaḥ ǀ vípraḥ ǀ marutaḥ ǀ śatasvī́ ǀ yuṣmā́-ūtaḥ ǀ árvā ǀ sáhuriḥ ǀ sahasrī́ ǀ
yuṣmā́-ūtaḥ ǀ sam-rā́ṭ ǀ utá ǀ hanti ǀ vṛtrám ǀ prá ǀ tát ǀ vaḥ ǀ astu ǀ dhūtayaḥ ǀ deṣṇám ǁyuṣmā-ūtaḥ ǀ vipraḥ ǀ marutaḥ ǀ śatasvī ǀ yuṣmā-ūtaḥ ǀ arvā ǀ sahuriḥ ǀ sahasrī ǀ
yuṣmā-ūtaḥ ǀ sam-rāṭ ǀ uta ǀ hanti ǀ vṛtram ǀ pra ǀ tat ǀ vaḥ ǀ astu ǀ dhūtayaḥ ǀ deṣṇam ǁ7.58.4 Aṣṭaka 5.4.28.4Anuvāka 7.4.36
-
Ṛk 5
ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंसं॑ते म॒रुतः॒ पुन॑र्नः ।
यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणां॑ ॥तां आ रुद्रस्य मीऌहुषो विवासे कुविन् नंसन्ते मरुतः पुनर् नः |
यत् सस्वर्ता जिहीऌइरे यद् आविर् अव तद् एन ईमहे तुराणाम् ||tā́m̐ ā́ rudrásya mīḷhúṣo vivāse kuvínnáṃsante marútaḥ púnarnaḥ ǀ
yátsasvártā jihīḷiré yádāvíráva tádéna īmahe turā́ṇām ǁtāṃ ā rudrasya mīḷhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ |
yat sasvartā jihīḷire yad āvir ava tad ena īmahe turāṇām ||तान् । आ । रु॒द्रस्य॑ । मी॒ळ्हुषः॑ । वि॒वा॒से॒ । कु॒वित् । नंस॑न्ते । म॒रुतः॑ । पुनः॑ । नः॒ ।
यत् । स॒स्वर्ता॑ । जि॒ही॒ळि॒रे । यत् । आ॒विः । अव॑ । तत् । एनः॑ । ई॒म॒हे॒ । तु॒राणा॑म् ॥तान् । आ । रुद्रस्य । मीळ्हुषः । विवासे । कुवित् । नंसन्ते । मरुतः । पुनः । नः ।
यत् । सस्वर्ता । जिहीळिरे । यत् । आविः । अव । तत् । एनः । ईमहे । तुराणाम् ॥tā́n ǀ ā́ ǀ rudrásya ǀ mīḷhúṣaḥ ǀ vivāse ǀ kuvít ǀ náṃsante ǀ marútaḥ ǀ púnaḥ ǀ naḥ ǀ
yát ǀ sasvártā ǀ jihīḷiré ǀ yát ǀ āvíḥ ǀ áva ǀ tát ǀ énaḥ ǀ īmahe ǀ turā́ṇām ǁtān ǀ ā ǀ rudrasya ǀ mīḷhuṣaḥ ǀ vivāse ǀ kuvit ǀ naṃsante ǀ marutaḥ ǀ punaḥ ǀ naḥ ǀ
yat ǀ sasvartā ǀ jihīḷire ǀ yat ǀ āviḥ ǀ ava ǀ tat ǀ enaḥ ǀ īmahe ǀ turāṇām ǁ7.58.5 Aṣṭaka 5.4.28.5Anuvāka 7.4.37
-
Ṛk 6
प्र सा वा॑चि सुष्टु॒तिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जुषंत ।
आ॒राच्चि॒द्द्वेषो॑ वृषणो युयोत यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥प्र सा वाचि सुष्टुतिर् मघोनाम् इदं सूक्तम् मरुतो जुषन्त |
आराच् चिद् द्वेषो वृषणो युयोत यूयम् पात स्वस्तिभिः सदा नः ||prá sā́ vāci suṣṭutírmaghónāmidám sūktám marúto juṣanta ǀ
ārā́cciddvéṣo vṛṣaṇo yuyota yūyám pāta svastíbhiḥ sádā naḥ ǁpra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta |
ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ ||प्र । सा । वा॒चि॒ । सु॒ऽस्तु॒तिः । म॒घोना॑म् । इ॒दम् । सु॒ऽउ॒क्तम् । म॒रुतः॑ । जु॒ष॒न्त॒ ।
आ॒रात् । चि॒त् । द्वेषः॑ । वृ॒ष॒णः॒ । यु॒यो॒त॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥प्र । सा । वाचि । सुऽस्तुतिः । मघोनाम् । इदम् । सुऽउक्तम् । मरुतः । जुषन्त ।
आरात् । चित् । द्वेषः । वृषणः । युयोत । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥prá ǀ sā́ ǀ vāci ǀ su-stutíḥ ǀ maghónām ǀ idám ǀ su-uktám ǀ marútaḥ ǀ juṣanta ǀ
ārā́t ǀ cit ǀ dvéṣaḥ ǀ vṛṣaṇaḥ ǀ yuyota ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁpra ǀ sā ǀ vāci ǀ su-stutiḥ ǀ maghonām ǀ idam ǀ su-uktam ǀ marutaḥ ǀ juṣanta ǀ
ārāt ǀ cit ǀ dveṣaḥ ǀ vṛṣaṇaḥ ǀ yuyota ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.58.6 Aṣṭaka 5.4.28.6Anuvāka 7.4.38
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.