Sūkta 67
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2, 6-8, 10); virāṭtrisṭup (3, 5, 9); ārṣītriṣṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न ।
यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन |
यो वां दूतो न धिष्ण्याव् अजीगर् अच्छा सूनुर् न पितरा विवक्मि ||práti vām rátham nṛpatī jarádhyai havíṣmatā mánasā yajñíyena ǀ
yó vām dūtó ná dhiṣṇyāvájīgarácchā sūnúrná pitárā vivakmi ǁprati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena |
yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi ||प्रति॑ । वा॒म् । रथ॑म् । नृ॒प॒ती॒ इति॑ नृऽपती । ज॒रध्यै॑ । ह॒विष्म॑ता । मन॑सा । य॒ज्ञिये॑न ।
यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी॑गः । अच्छ॑ । सू॒नुः । न । पि॒तरा॑ । वि॒व॒क्मि॒ ॥प्रति । वाम् । रथम् । नृपती इति नृऽपती । जरध्यै । हविष्मता । मनसा । यज्ञियेन ।
यः । वाम् । दूतः । न । धिष्ण्यौ । अजीगः । अच्छ । सूनुः । न । पितरा । विवक्मि ॥práti ǀ vām ǀ rátham ǀ nṛpatī íti nṛ-patī ǀ jarádhyai ǀ havíṣmatā ǀ mánasā ǀ yajñíyena ǀ
yáḥ ǀ vām ǀ dūtáḥ ǀ ná ǀ dhiṣṇyau ǀ ájīgaḥ ǀ áccha ǀ sūnúḥ ǀ ná ǀ pitárā ǀ vivakmi ǁprati ǀ vām ǀ ratham ǀ nṛpatī iti nṛ-patī ǀ jaradhyai ǀ haviṣmatā ǀ manasā ǀ yajñiyena ǀ
yaḥ ǀ vām ǀ dūtaḥ ǀ na ǀ dhiṣṇyau ǀ ajīgaḥ ǀ accha ǀ sūnuḥ ǀ na ǀ pitarā ǀ vivakmi ǁ7.67.1 Aṣṭaka 5.5.12.1Anuvāka 7.4.111
-
Ṛk 2
अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्रं॒तम॑सश्चि॒दंताः॑ ।
अचे॑ति के॒तुरु॒षसः॑ पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥अशोच्य् अग्निः समिधानो अस्मे उपो अदृश्रन् तमसश् चिद् अन्ताः |
अचेति केतुर् उषसः पुरस्ताच् छ्रिये दिवो दुहितुर् जायमानः ||áśocyagníḥ samidhānó asmé úpo adṛśrantámasaścidántāḥ ǀ
áceti ketúruṣásaḥ purástācchriyé divó duhitúrjā́yamānaḥ ǁaśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ |
aceti ketur uṣasaḥ purastāc chriye divo duhitur jāyamānaḥ ||अशो॑चि । अ॒ग्निः । स॒म्ऽइ॒धा॒नः । अ॒स्मे इति॑ । उपो॒ इति॑ । अ॒दृ॒श्र॒न् । तम॑सः । चि॒त् । अन्ताः॑ ।
अचे॑ति । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । श्रि॒ये । दि॒वः । दु॒हि॒तुः । जाय॑मानः ॥अशोचि । अग्निः । सम्ऽइधानः । अस्मे इति । उपो इति । अदृश्रन् । तमसः । चित् । अन्ताः ।
अचेति । केतुः । उषसः । पुरस्तात् । श्रिये । दिवः । दुहितुः । जायमानः ॥áśoci ǀ agníḥ ǀ sam-idhānáḥ ǀ asmé íti ǀ úpo íti ǀ adṛśran ǀ támasaḥ ǀ cit ǀ ántāḥ ǀ
áceti ǀ ketúḥ ǀ uṣásaḥ ǀ purástāt ǀ śriyé ǀ diváḥ ǀ duhitúḥ ǀ jā́yamānaḥ ǁaśoci ǀ agniḥ ǀ sam-idhānaḥ ǀ asme iti ǀ upo iti ǀ adṛśran ǀ tamasaḥ ǀ cit ǀ antāḥ ǀ
aceti ǀ ketuḥ ǀ uṣasaḥ ǀ purastāt ǀ śriye ǀ divaḥ ǀ duhituḥ ǀ jāyamānaḥ ǁ7.67.2 Aṣṭaka 5.5.12.2Anuvāka 7.4.112
-
Ṛk 3
अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमैः॑ सिषक्ति नासत्या विव॒क्वान् ।
पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥अभि वां नूनम् अश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् |
पूर्वीभिर् यातम् पथ्याभिर् अर्वाक् स्वर्विदा वसुमता रथेन ||abhí vām nūnámaśvinā súhotā stómaiḥ siṣakti nāsatyā vivakvā́n ǀ
pūrvī́bhiryātam pathyā́bhirarvā́ksvarvídā vásumatā ráthena ǁabhi vāṃ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān |
pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena ||अ॒भि । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । सुऽहो॑ता । स्तोमैः॑ । सि॒स॒क्ति॒ । ना॒स॒त्या॒ । वि॒व॒क्वान् ।
पू॒र्वीभिः॑ । या॒त॒म् । प॒थ्या॑भिः । अ॒र्वाक् । स्वः॒ऽविदा॑ । वसु॑ऽमता । रथे॑न ॥अभि । वाम् । नूनम् । अश्विना । सुऽहोता । स्तोमैः । सिसक्ति । नासत्या । विवक्वान् ।
पूर्वीभिः । यातम् । पथ्याभिः । अर्वाक् । स्वःऽविदा । वसुऽमता । रथेन ॥abhí ǀ vām ǀ nūnám ǀ aśvinā ǀ sú-hotā ǀ stómaiḥ ǀ sisakti ǀ nāsatyā ǀ vivakvā́n ǀ
pūrvī́bhiḥ ǀ yātam ǀ pathyā́bhiḥ ǀ arvā́k ǀ svaḥ-vídā ǀ vásu-matā ǀ ráthena ǁabhi ǀ vām ǀ nūnam ǀ aśvinā ǀ su-hotā ǀ stomaiḥ ǀ sisakti ǀ nāsatyā ǀ vivakvān ǀ
pūrvībhiḥ ǀ yātam ǀ pathyābhiḥ ǀ arvāk ǀ svaḥ-vidā ǀ vasu-matā ǀ rathena ǁ7.67.3 Aṣṭaka 5.5.12.3Anuvāka 7.4.113
-
Ṛk 4
अ॒वोर्वां॑ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां॑ सु॒ते मा॑ध्वी वसू॒युः ।
आ वां॑ वहंतु॒ स्थवि॑रासो॒ अश्वाः॒ पिबा॑थो अ॒स्मे सुषु॑ता॒ मधू॑नि ॥अवोर् वां नूनम् अश्विना युवाकुर् हुवे यद् वां सुते माध्वी वसूयुः |
आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ||avórvām nūnámaśvinā yuvā́kurhuvé yádvām suté mādhvī vasūyúḥ ǀ
ā́ vām vahantu sthávirāso áśvāḥ píbātho asmé súṣutā mádhūni ǁavor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ |
ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni ||अ॒वोः । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वाकुः॑ । हु॒वे । यत् । वा॒म् । सु॒ते । मा॒ध्वी॒ इति॑ । व॒सु॒ऽयुः ।
आ । वा॒म् । व॒ह॒न्तु॒ । स्थवि॑रासः । अश्वाः॑ । पिबा॑थः । अ॒स्मे इति॑ । सुऽसु॑ता । मधू॑नि ॥अवोः । वाम् । नूनम् । अश्विना । युवाकुः । हुवे । यत् । वाम् । सुते । माध्वी इति । वसुऽयुः ।
आ । वाम् । वहन्तु । स्थविरासः । अश्वाः । पिबाथः । अस्मे इति । सुऽसुता । मधूनि ॥avóḥ ǀ vām ǀ nūnám ǀ aśvinā ǀ yuvā́kuḥ ǀ huvé ǀ yát ǀ vām ǀ suté ǀ mādhvī íti ǀ vasu-yúḥ ǀ
ā́ ǀ vām ǀ vahantu ǀ sthávirāsaḥ ǀ áśvāḥ ǀ píbāthaḥ ǀ asmé íti ǀ sú-sutā ǀ mádhūni ǁavoḥ ǀ vām ǀ nūnam ǀ aśvinā ǀ yuvākuḥ ǀ huve ǀ yat ǀ vām ǀ sute ǀ mādhvī iti ǀ vasu-yuḥ ǀ
ā ǀ vām ǀ vahantu ǀ sthavirāsaḥ ǀ aśvāḥ ǀ pibāthaḥ ǀ asme iti ǀ su-sutā ǀ madhūni ǁ7.67.4 Aṣṭaka 5.5.12.4Anuvāka 7.4.114
-
Ṛk 5
प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युं ।
विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता नः॑ शक्तं शचीपती॒ शची॑भिः ॥प्राचीम् उ देवाश्विना धियम् मे ऽमृध्रां सातये कृतं वसूयुम् |
विश्वा अविष्टं वाज आ पुरन्धीस् ता नः शक्तं शचीपती शचीभिः ||prā́cīmu devāśvinā dhíyam mé’mṛdhrām sātáye kṛtam vasūyúm ǀ
víśvā aviṣṭam vā́ja ā́ púraṃdhīstā́ naḥ śaktam śacīpatī śácībhiḥ ǁprācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum |
viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ ||प्राची॑म् । ऊं॒ इति॑ । दे॒वा॒ । अ॒श्वि॒ना॒ । धिय॑म् । मे॒ । अमृ॑ध्राम् । सा॒तये॑ । कृ॒त॒म् । व॒सु॒ऽयुम् ।
विश्वाः॑ । अ॒वि॒ष्ट॒म् । वाजे॑ । आ । पुर॑म्ऽधीः । ता । नः॒ । श॒क्त॒म् । श॒ची॒प॒ती॒ इति॑ शचीऽपती । शची॑भिः ॥प्राचीम् । ऊं इति । देवा । अश्विना । धियम् । मे । अमृध्राम् । सातये । कृतम् । वसुऽयुम् ।
विश्वाः । अविष्टम् । वाजे । आ । पुरम्ऽधीः । ता । नः । शक्तम् । शचीपती इति शचीऽपती । शचीभिः ॥prā́cīm ǀ ūṃ íti ǀ devā ǀ aśvinā ǀ dhíyam ǀ me ǀ ámṛdhrām ǀ sātáye ǀ kṛtam ǀ vasu-yúm ǀ
víśvāḥ ǀ aviṣṭam ǀ vā́je ǀ ā́ ǀ púram-dhīḥ ǀ tā́ ǀ naḥ ǀ śaktam ǀ śacīpatī íti śacī-patī ǀ śácībhiḥ ǁprācīm ǀ ūṃ iti ǀ devā ǀ aśvinā ǀ dhiyam ǀ me ǀ amṛdhrām ǀ sātaye ǀ kṛtam ǀ vasu-yum ǀ
viśvāḥ ǀ aviṣṭam ǀ vāje ǀ ā ǀ puram-dhīḥ ǀ tā ǀ naḥ ǀ śaktam ǀ śacīpatī iti śacī-patī ǀ śacībhiḥ ǁ7.67.5 Aṣṭaka 5.5.12.5Anuvāka 7.4.115
-
Ṛk 6
अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु ।
आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥अविष्टं धीष्व् अश्विना न आसु प्रजावद् रेतो अह्रयं नो अस्तु |
आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ||aviṣṭám dhīṣváśvinā na āsú prajā́vadréto áhrayam no astu ǀ
ā́ vām toké tánaye tū́tujānāḥ surátnāso devávītim gamema ǁaviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu |
ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema ||अ॒वि॒ष्टम् । धी॒षु । अ॒श्वि॒ना॒ । नः॒ । आ॒सु । प्र॒जाऽव॑त् । रेतः॑ । अह्र॑यम् । नः॒ । अ॒स्तु॒ ।
आ । वा॒म् । तो॒के । तन॑ये । तूतु॑जानाः । सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ ॥अविष्टम् । धीषु । अश्विना । नः । आसु । प्रजाऽवत् । रेतः । अह्रयम् । नः । अस्तु ।
आ । वाम् । तोके । तनये । तूतुजानाः । सुऽरत्नासः । देवऽवीतिम् । गमेम ॥aviṣṭám ǀ dhīṣú ǀ aśvinā ǀ naḥ ǀ āsú ǀ prajā́-vat ǀ rétaḥ ǀ áhrayam ǀ naḥ ǀ astu ǀ
ā́ ǀ vām ǀ toké ǀ tánaye ǀ tū́tujānāḥ ǀ su-rátnāsaḥ ǀ devá-vītim ǀ gamema ǁaviṣṭam ǀ dhīṣu ǀ aśvinā ǀ naḥ ǀ āsu ǀ prajā-vat ǀ retaḥ ǀ ahrayam ǀ naḥ ǀ astu ǀ
ā ǀ vām ǀ toke ǀ tanaye ǀ tūtujānāḥ ǀ su-ratnāsaḥ ǀ deva-vītim ǀ gamema ǁ7.67.6 Aṣṭaka 5.5.13.1Anuvāka 7.4.116
-
Ṛk 7
ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे ।
अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नंता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥एष स्य वाम् पूर्वगत्वेव सख्ये निधिर् हितो माध्वी रातो अस्मे |
अहेऌअता मनसा यातम् अर्वाग् अश्नन्ता हव्यम् मानुषीषु विक्षु ||eṣá syá vām pūrvagátveva sákhye nidhírhitó mādhvī rātó asmé ǀ
áheḷatā mánasā́ yātamarvā́gaśnántā havyám mā́nuṣīṣu vikṣú ǁeṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme |
aheḷatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu ||ए॒षः । स्यः । वा॒म् । पू॒र्व॒गत्वा॑ऽइव । सख्ये॑ । नि॒ऽधिः । हि॒तः । मा॒ध्वी॒ इति॑ । रा॒तः । अ॒स्मे इति॑ ।
अहे॑ळता । मन॑सा । आ । या॒त॒म् । अ॒र्वाक् । अ॒श्नन्ता॑ । ह॒व्यम् । मानु॑षीषु । वि॒क्षु ॥एषः । स्यः । वाम् । पूर्वगत्वाऽइव । सख्ये । निऽधिः । हितः । माध्वी इति । रातः । अस्मे इति ।
अहेळता । मनसा । आ । यातम् । अर्वाक् । अश्नन्ता । हव्यम् । मानुषीषु । विक्षु ॥eṣáḥ ǀ syáḥ ǀ vām ǀ pūrvagátvā-iva ǀ sákhye ǀ ni-dhíḥ ǀ hitáḥ ǀ mādhvī íti ǀ rātáḥ ǀ asmé íti ǀ
áheḷatā ǀ mánasā ǀ ā́ ǀ yātam ǀ arvā́k ǀ aśnántā ǀ havyám ǀ mā́nuṣīṣu ǀ vikṣú ǁeṣaḥ ǀ syaḥ ǀ vām ǀ pūrvagatvā-iva ǀ sakhye ǀ ni-dhiḥ ǀ hitaḥ ǀ mādhvī iti ǀ rātaḥ ǀ asme iti ǀ
aheḷatā ǀ manasā ǀ ā ǀ yātam ǀ arvāk ǀ aśnantā ǀ havyam ǀ mānuṣīṣu ǀ vikṣu ǁ7.67.7 Aṣṭaka 5.5.13.2Anuvāka 7.4.117
-
Ṛk 8
एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् ।
न वा॑यंति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वहं॑ति ॥एकस्मिन् योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् |
न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ||ékasminyóge bhuraṇā samāné pári vām saptá sraváto rátho gāt ǀ
ná vāyanti subhvo deváyuktā yé vām dhūrṣú taráṇayo váhanti ǁekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt |
na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti ||एक॑स्मिन् । योगे॑ । भु॒र॒णा॒ । स॒मा॒ने । परि॑ । वा॒म् । स॒प्त । स्र॒वतः॑ । रथः॑ । गा॒त् ।
न । वा॒य॒न्ति॒ । सु॒ऽभ्वः॑ । दे॒वऽयु॑क्ताः । ये । वा॒म् । धूः॒ऽसु । त॒रण॑यः । वह॑न्ति ॥एकस्मिन् । योगे । भुरणा । समाने । परि । वाम् । सप्त । स्रवतः । रथः । गात् ।
न । वायन्ति । सुऽभ्वः । देवऽयुक्ताः । ये । वाम् । धूःऽसु । तरणयः । वहन्ति ॥ékasmin ǀ yóge ǀ bhuraṇā ǀ samāné ǀ pári ǀ vām ǀ saptá ǀ sravátaḥ ǀ ráthaḥ ǀ gāt ǀ
ná ǀ vāyanti ǀ su-bhváḥ ǀ devá-yuktāḥ ǀ yé ǀ vām ǀ dhūḥ-sú ǀ taráṇayaḥ ǀ váhanti ǁekasmin ǀ yoge ǀ bhuraṇā ǀ samāne ǀ pari ǀ vām ǀ sapta ǀ sravataḥ ǀ rathaḥ ǀ gāt ǀ
na ǀ vāyanti ǀ su-bhvaḥ ǀ deva-yuktāḥ ǀ ye ǀ vām ǀ dhūḥ-su ǀ taraṇayaḥ ǀ vahanti ǁ7.67.8 Aṣṭaka 5.5.13.3Anuvāka 7.4.118
-
Ṛk 9
अ॒स॒श्चता॑ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं॑ जु॒नंति॑ ।
प्र ये बंधुं॑ सू॒नृता॑भिस्ति॒रंते॒ गव्या॑ पृं॒चंतो॒ अश्व्या॑ म॒घानि॑ ॥असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति |
प्र ये बन्धुं सूनृताभिस् तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ||asaścátā maghávadbhyo hí bhūtám yé rāyā́ maghadéyam junánti ǀ
prá yé bándhum sūnṛ́tābhistiránte gávyā pṛñcánto áśvyā maghā́ni ǁasaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti |
pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni ||अ॒स॒श्चता॑ । म॒घव॑त्ऽभ्यः । हि । भू॒तम् । ये । रा॒या । म॒घ॒ऽदेय॑म् । जु॒नन्ति॑ ।
प्र । ये । बन्धु॑म् । सू॒नृता॑भिः । ति॒रन्ते॑ । गव्या॑ । पृ॒ञ्चन्तः॑ । अश्व्या॑ । म॒घानि॑ ॥असश्चता । मघवत्ऽभ्यः । हि । भूतम् । ये । राया । मघऽदेयम् । जुनन्ति ।
प्र । ये । बन्धुम् । सूनृताभिः । तिरन्ते । गव्या । पृञ्चन्तः । अश्व्या । मघानि ॥asaścátā ǀ maghávat-bhyaḥ ǀ hí ǀ bhūtám ǀ yé ǀ rāyā́ ǀ magha-déyam ǀ junánti ǀ
prá ǀ yé ǀ bándhum ǀ sūnṛ́tābhiḥ ǀ tiránte ǀ gávyā ǀ pṛñcántaḥ ǀ áśvyā ǀ maghā́ni ǁasaścatā ǀ maghavat-bhyaḥ ǀ hi ǀ bhūtam ǀ ye ǀ rāyā ǀ magha-deyam ǀ junanti ǀ
pra ǀ ye ǀ bandhum ǀ sūnṛtābhiḥ ǀ tirante ǀ gavyā ǀ pṛñcantaḥ ǀ aśvyā ǀ maghāni ǁ7.67.9 Aṣṭaka 5.5.13.4Anuvāka 7.4.119
-
Ṛk 10
नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।
ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् |
धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ||nū́ me hávamā́ śṛṇutam yuvānā yāsiṣṭám vartíraśvināvírāvat ǀ
dhattám rátnāni járatam ca sūrī́nyūyám pāta svastíbhiḥ sádā naḥ ǁnū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat |
dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ ||नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ।
ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इराऽवत् ।
धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥nú ǀ me ǀ hávam ǀ ā́ ǀ śṛṇutam ǀ yuvānā ǀ yāsiṣṭám ǀ vartíḥ ǀ aśvinau ǀ írā-vat ǀ
dhattám ǀ rátnāni ǀ járatam ǀ ca ǀ sūrī́n ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁnu ǀ me ǀ havam ǀ ā ǀ śṛṇutam ǀ yuvānā ǀ yāsiṣṭam ǀ vartiḥ ǀ aśvinau ǀ irā-vat ǀ
dhattam ǀ ratnāni ǀ jaratam ǀ ca ǀ sūrīn ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.67.10 Aṣṭaka 5.5.13.5Anuvāka 7.4.120
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.