Sūkta 3
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (4, 6-8); virāṭtrisṭup (1, 9, 10); svarāṭpaṅkti (2); bhurikpaṅkti (3); triṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒ग्निं वो॑ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वं ।
यो मर्त्ये॑षु॒ निध्रु॑विर्ऋ॒तावा॒ तपु॑र्मूर्धा घृ॒तान्नः॑ पाव॒कः ॥अग्निं वो देवम् अग्निभिः सजोषा यजिष्ठं दूतम् अध्वरे कृणुध्वम् |
यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः ||agním vo devámagníbhiḥ sajóṣā yájiṣṭham dūtámadhvaré kṛṇudhvam ǀ
yó mártyeṣu nídhruvirṛtā́vā tápurmūrdhā ghṛtā́nnaḥ pāvakáḥ ǁagniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam |
yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ ||अ॒ग्निम् । वः॒ । दे॒वम् । अ॒ग्निऽभिः॑ । स॒ऽजोषाः॑ । यजि॑ष्ठम् । दू॒तम् । अ॒ध्व॒रे । कृ॒णु॒ध्व॒म् ।
यः । मर्त्ये॑षु । निऽध्रु॑विः । ऋ॒तऽवा॑ । तपुः॑ऽमूर्धा । घृ॒तऽअ॑न्नः । पा॒व॒कः ॥अग्निम् । वः । देवम् । अग्निऽभिः । सऽजोषाः । यजिष्ठम् । दूतम् । अध्वरे । कृणुध्वम् ।
यः । मर्त्येषु । निऽध्रुविः । ऋतऽवा । तपुःऽमूर्धा । घृतऽअन्नः । पावकः ॥agním ǀ vaḥ ǀ devám ǀ agní-bhiḥ ǀ sa-jóṣāḥ ǀ yájiṣṭham ǀ dūtám ǀ adhvaré ǀ kṛṇudhvam ǀ
yáḥ ǀ mártyeṣu ǀ ní-dhruviḥ ǀ ṛtá-vā ǀ tápuḥ-mūrdhā ǀ ghṛtá-annaḥ ǀ pāvakáḥ ǁagnim ǀ vaḥ ǀ devam ǀ agni-bhiḥ ǀ sa-joṣāḥ ǀ yajiṣṭham ǀ dūtam ǀ adhvare ǀ kṛṇudhvam ǀ
yaḥ ǀ martyeṣu ǀ ni-dhruviḥ ǀ ṛta-vā ǀ tapuḥ-mūrdhā ǀ ghṛta-annaḥ ǀ pāvakaḥ ǁ7.3.1 Aṣṭaka 5.2.3.1Anuvāka 7.1.37
-
Ṛk 2
प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् ।
आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्य् अस्थात् |
आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ||próthadáśvo ná yávase’viṣyányadā́ maháḥ saṃváraṇādvyásthāt ǀ
ā́dasya vā́to ánu vāti śocírádha sma te vrájanam kṛṣṇámasti ǁprothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt |
ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti ||प्रोथ॑त् । अश्वः॑ । न । यव॑से । अ॒वि॒ष्यन् । य॒दा । म॒हः । स॒म्ऽवर॑णात् । वि । अस्था॑त् ।
आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अध॑ । स्म॒ । ते॒ । व्रज॑नम् । कृ॒ष्णम् । अ॒स्ति॒ ॥प्रोथत् । अश्वः । न । यवसे । अविष्यन् । यदा । महः । सम्ऽवरणात् । वि । अस्थात् ।
आत् । अस्य । वातः । अनु । वाति । शोचिः । अध । स्म । ते । व्रजनम् । कृष्णम् । अस्ति ॥próthat ǀ áśvaḥ ǀ ná ǀ yávase ǀ aviṣyán ǀ yadā́ ǀ maháḥ ǀ sam-váraṇāt ǀ ví ǀ ásthāt ǀ
ā́t ǀ asya ǀ vā́taḥ ǀ ánu ǀ vāti ǀ śocíḥ ǀ ádha ǀ sma ǀ te ǀ vrájanam ǀ kṛṣṇám ǀ asti ǁprothat ǀ aśvaḥ ǀ na ǀ yavase ǀ aviṣyan ǀ yadā ǀ mahaḥ ǀ sam-varaṇāt ǀ vi ǀ asthāt ǀ
āt ǀ asya ǀ vātaḥ ǀ anu ǀ vāti ǀ śociḥ ǀ adha ǀ sma ǀ te ǀ vrajanam ǀ kṛṣṇam ǀ asti ǁ7.3.2 Aṣṭaka 5.2.3.2Anuvāka 7.1.38
-
Ṛk 3
उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चरं॑त्य॒जरा॑ इधा॒नाः ।
अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥उद् यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्य् अजरा इधानाः |
अच्छा द्याम् अरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ||údyásya te návajātasya vṛ́ṣṇó’gne cárantyajárā idhānā́ḥ ǀ
ácchā dyā́maruṣó dhūmá eti sám dūtó agna ī́yase hí devā́n ǁud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ |
acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān ||उत् । यस्य॑ । ते॒ । नव॑ऽजातस्य । वृष्णः॑ । अग्ने॑ । चर॑न्ति । अ॒जराः॑ । इ॒धा॒नाः ।
अच्छ॑ । द्याम् । अ॒रु॒षः । धू॒मः । ए॒ति॒ । सम् । दू॒तः । अ॒ग्ने॒ । ईय॑से । हि । दे॒वान् ॥उत् । यस्य । ते । नवऽजातस्य । वृष्णः । अग्ने । चरन्ति । अजराः । इधानाः ।
अच्छ । द्याम् । अरुषः । धूमः । एति । सम् । दूतः । अग्ने । ईयसे । हि । देवान् ॥út ǀ yásya ǀ te ǀ náva-jātasya ǀ vṛ́ṣṇaḥ ǀ ágne ǀ cáranti ǀ ajárāḥ ǀ idhānā́ḥ ǀ
áccha ǀ dyā́m ǀ aruṣáḥ ǀ dhūmáḥ ǀ eti ǀ sám ǀ dūtáḥ ǀ agne ǀ ī́yase ǀ hí ǀ devā́n ǁut ǀ yasya ǀ te ǀ nava-jātasya ǀ vṛṣṇaḥ ǀ agne ǀ caranti ǀ ajarāḥ ǀ idhānāḥ ǀ
accha ǀ dyām ǀ aruṣaḥ ǀ dhūmaḥ ǀ eti ǀ sam ǀ dūtaḥ ǀ agne ǀ īyase ǀ hi ǀ devān ǁ7.3.3 Aṣṭaka 5.2.3.3Anuvāka 7.1.39
-
Ṛk 4
वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे॑त्तृ॒षु यदन्ना॑ स॒मवृ॑क्त॒ जंभैः॑ ।
सेने॑व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा॑ विवेक्षि ॥वि यस्य ते पृथिव्याम् पाजो अश्रेत् तृषु यद् अन्ना समवृक्त जम्भैः |
सेनेव सृष्टा प्रसितिष् ट एति यवं न दस्म जुह्वा विवेक्षि ||ví yásya te pṛthivyā́m pā́jo áśrettṛṣú yádánnā samávṛkta jámbhaiḥ ǀ
séneva sṛṣṭā́ prásitiṣṭa eti yávam ná dasma juhvā́ vivekṣi ǁvi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ |
seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi ||वि । यस्य॑ । ते॒ । पृ॒थि॒व्याम् । पाजः॑ । अश्रे॑त् । तृ॒षु । यत् । अन्ना॑ । स॒म्ऽअवृ॑क्त । जम्भैः॑ ।
सेना॑ऽइव । सृ॒ष्टा । प्रऽसि॑तिः । ते॒ । ए॒ति॒ । यव॑म् । न । द॒स्म॒ । जु॒ह्वा॑ । वि॒वे॒क्षि॒ ॥वि । यस्य । ते । पृथिव्याम् । पाजः । अश्रेत् । तृषु । यत् । अन्ना । सम्ऽअवृक्त । जम्भैः ।
सेनाऽइव । सृष्टा । प्रऽसितिः । ते । एति । यवम् । न । दस्म । जुह्वा । विवेक्षि ॥ví ǀ yásya ǀ te ǀ pṛthivyā́m ǀ pā́jaḥ ǀ áśret ǀ tṛṣú ǀ yát ǀ ánnā ǀ sam-ávṛkta ǀ jámbhaiḥ ǀ
sénā-iva ǀ sṛṣṭā́ ǀ prá-sitiḥ ǀ te ǀ eti ǀ yávam ǀ ná ǀ dasma ǀ juhvā́ ǀ vivekṣi ǁvi ǀ yasya ǀ te ǀ pṛthivyām ǀ pājaḥ ǀ aśret ǀ tṛṣu ǀ yat ǀ annā ǀ sam-avṛkta ǀ jambhaiḥ ǀ
senā-iva ǀ sṛṣṭā ǀ pra-sitiḥ ǀ te ǀ eti ǀ yavam ǀ na ǀ dasma ǀ juhvā ǀ vivekṣi ǁ7.3.4 Aṣṭaka 5.2.3.4Anuvāka 7.1.40
-
Ṛk 5
तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयंत॒ नरः॑ ।
नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ॥तम् इद् दोषा तम् उषसि यविष्ठम् अग्निम् अत्यं न मर्जयन्त नरः |
निशिशाना अतिथिम् अस्य योनौ दीदाय शोचिर् आहुतस्य वृष्णः ||támíddoṣā́ támuṣási yáviṣṭhamagnímátyam ná marjayanta náraḥ ǀ
niśíśānā átithimasya yónau dīdā́ya śocírā́hutasya vṛ́ṣṇaḥ ǁtam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ |
niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ ||तम् । इत् । दो॒षा । तम् । उ॒षसि॑ । यवि॑ष्ठम् । अ॒ग्निम् । अत्य॑म् । न । म॒र्ज॒य॒न्त॒ । नरः॑ ।
नि॒ऽशिशा॑नाः । अति॑थिम् । अ॒स्य॒ । योनौ॑ । दी॒दाय॑ । शो॒चिः । आऽहु॑तस्य । वृष्णः॑ ॥तम् । इत् । दोषा । तम् । उषसि । यविष्ठम् । अग्निम् । अत्यम् । न । मर्जयन्त । नरः ।
निऽशिशानाः । अतिथिम् । अस्य । योनौ । दीदाय । शोचिः । आऽहुतस्य । वृष्णः ॥tám ǀ ít ǀ doṣā́ ǀ tám ǀ uṣási ǀ yáviṣṭham ǀ agním ǀ átyam ǀ ná ǀ marjayanta ǀ náraḥ ǀ
ni-śíśānāḥ ǀ átithim ǀ asya ǀ yónau ǀ dīdā́ya ǀ śocíḥ ǀ ā́-hutasya ǀ vṛ́ṣṇaḥ ǁtam ǀ it ǀ doṣā ǀ tam ǀ uṣasi ǀ yaviṣṭham ǀ agnim ǀ atyam ǀ na ǀ marjayanta ǀ naraḥ ǀ
ni-śiśānāḥ ǀ atithim ǀ asya ǀ yonau ǀ dīdāya ǀ śociḥ ǀ ā-hutasya ǀ vṛṣṇaḥ ǁ7.3.5 Aṣṭaka 5.2.3.5Anuvāka 7.1.41
-
Ṛk 6
सु॒सं॒दृक्ते॑ स्वनीक॒ प्रती॑कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के ।
दि॒वो न ते॑ तन्य॒तुरे॑ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुं ॥सुसंदृक् ते स्वनीक प्रतीकं वि यद् रुक्मो न रोचस उपाके |
दिवो न ते तन्यतुर् एति शुष्मश् चित्रो न सूरः प्रति चक्षि भानुम् ||susaṃdṛ́kte svanīka prátīkam ví yádrukmó ná rócasa upāké ǀ
divó ná te tanyatúreti śúṣmaścitró ná sū́raḥ práti cakṣi bhānúm ǁsusaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke |
divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum ||सु॒ऽस॒न्दृक् । ते॒ । सु॒ऽअ॒नी॒क॒ । प्रती॑कम् । वि । यत् । रु॒क्मः । न । रोच॑से । उ॒पा॒के ।
दि॒वः । न । ते॒ । त॒न्य॒तुः । ए॒ति॒ । शुष्मः॑ । चि॒त्रः । न । सूरः॑ । प्रति॑ । च॒क्षि॒ । भा॒नुम् ॥सुऽसन्दृक् । ते । सुऽअनीक । प्रतीकम् । वि । यत् । रुक्मः । न । रोचसे । उपाके ।
दिवः । न । ते । तन्यतुः । एति । शुष्मः । चित्रः । न । सूरः । प्रति । चक्षि । भानुम् ॥su-sandṛ́k ǀ te ǀ su-anīka ǀ prátīkam ǀ ví ǀ yát ǀ rukmáḥ ǀ ná ǀ rócase ǀ upāké ǀ
diváḥ ǀ ná ǀ te ǀ tanyatúḥ ǀ eti ǀ śúṣmaḥ ǀ citráḥ ǀ ná ǀ sū́raḥ ǀ práti ǀ cakṣi ǀ bhānúm ǁsu-sandṛk ǀ te ǀ su-anīka ǀ pratīkam ǀ vi ǀ yat ǀ rukmaḥ ǀ na ǀ rocase ǀ upāke ǀ
divaḥ ǀ na ǀ te ǀ tanyatuḥ ǀ eti ǀ śuṣmaḥ ǀ citraḥ ǀ na ǀ sūraḥ ǀ prati ǀ cakṣi ǀ bhānum ǁ7.3.6 Aṣṭaka 5.2.4.1Anuvāka 7.1.42
-
Ṛk 7
यथा॑ वः॒ स्वाहा॒ग्नये॒ दाशे॑म॒ परीळा॑भिर्घृ॒तव॑द्भिश्च ह॒व्यैः ।
तेभि॑र्नो अग्ने॒ अमि॑तै॒र्महो॑भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा॑हि ॥यथा वः स्वाहाग्नये दाशेम परीऌआभिर् घृतवद्भिश् च हव्यैः |
तेभिर् नो अग्ने अमितैर् महोभिः शतम् पूर्भिर् आयसीभिर् नि पाहि ||yáthā vaḥ svā́hāgnáye dā́śema párī́ḷābhirghṛtávadbhiśca havyáiḥ ǀ
tébhirno agne ámitairmáhobhiḥ śatám pūrbhírā́yasībhirní pāhi ǁyathā vaḥ svāhāgnaye dāśema parīḷābhir ghṛtavadbhiś ca havyaiḥ |
tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi ||यथा॑ । वः॒ । स्वाहा॑ । अ॒ग्नये॑ । दाशे॑म । परि॑ । इळा॑भिः । घृ॒तव॑त्ऽभिः । च॒ । ह॒व्यैः ।
तेभिः॑ । नः॒ । अ॒ग्ने॒ । अमि॑तैः । महः॑ऽभिः । श॒तम् । पूः॒ऽभिः । आय॑सीभिः । नि । पा॒हि॒ ॥यथा । वः । स्वाहा । अग्नये । दाशेम । परि । इळाभिः । घृतवत्ऽभिः । च । हव्यैः ।
तेभिः । नः । अग्ने । अमितैः । महःऽभिः । शतम् । पूःऽभिः । आयसीभिः । नि । पाहि ॥yáthā ǀ vaḥ ǀ svā́hā ǀ agnáye ǀ dā́śema ǀ pári ǀ íḷābhiḥ ǀ ghṛtávat-bhiḥ ǀ ca ǀ havyáiḥ ǀ
tébhiḥ ǀ naḥ ǀ agne ǀ ámitaiḥ ǀ máhaḥ-bhiḥ ǀ śatám ǀ pūḥ-bhíḥ ǀ ā́yasībhiḥ ǀ ní ǀ pāhi ǁyathā ǀ vaḥ ǀ svāhā ǀ agnaye ǀ dāśema ǀ pari ǀ iḷābhiḥ ǀ ghṛtavat-bhiḥ ǀ ca ǀ havyaiḥ ǀ
tebhiḥ ǀ naḥ ǀ agne ǀ amitaiḥ ǀ mahaḥ-bhiḥ ǀ śatam ǀ pūḥ-bhiḥ ǀ āyasībhiḥ ǀ ni ǀ pāhi ǁ7.3.7 Aṣṭaka 5.2.4.2Anuvāka 7.1.43
-
Ṛk 8
या वा॑ ते॒ संति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो॑ वा॒ याभि॑र्नृ॒वती॑रुरु॒ष्याः ।
ताभि॑र्नः सूनो सहसो॒ नि पा॑हि॒ स्मत्सू॒रींज॑रि॒तॄंजा॑तवेदः ॥या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर् नृवतीर् उरुष्याः |
ताभिर् नः सूनो सहसो नि पाहि स्मत् सूरीञ् जरितॄञ् जातवेदः ||yā́ vā te sánti dāśúṣe ádhṛṣṭā gíro vā yā́bhirnṛvátīruruṣyā́ḥ ǀ
tā́bhirnaḥ sūno sahaso ní pāhi smátsūrī́ñjaritṝ́ñjātavedaḥ ǁyā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ |
tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ ||याः । वा॒ । ते॒ । सन्ति॑ । दा॒शुषे॑ । अधृ॑ष्टाः । गिरः॑ । वा॒ । याभिः॑ । नृ॒ऽवतीः॑ । उ॒रु॒ष्याः ।
ताभिः॑ । नः॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नि । पा॒हि॒ । स्मत् । सू॒रीन् । ज॒रि॒तॄन् । जा॒त॒ऽवे॒दः॒ ॥याः । वा । ते । सन्ति । दाशुषे । अधृष्टाः । गिरः । वा । याभिः । नृऽवतीः । उरुष्याः ।
ताभिः । नः । सूनो इति । सहसः । नि । पाहि । स्मत् । सूरीन् । जरितॄन् । जातऽवेदः ॥yā́ḥ ǀ vā ǀ te ǀ sánti ǀ dāśúṣe ǀ ádhṛṣṭāḥ ǀ gíraḥ ǀ vā ǀ yā́bhiḥ ǀ nṛ-vátīḥ ǀ uruṣyā́ḥ ǀ
tā́bhiḥ ǀ naḥ ǀ sūno íti ǀ sahasaḥ ǀ ní ǀ pāhi ǀ smát ǀ sūrī́n ǀ jaritṝ́n ǀ jāta-vedaḥ ǁyāḥ ǀ vā ǀ te ǀ santi ǀ dāśuṣe ǀ adhṛṣṭāḥ ǀ giraḥ ǀ vā ǀ yābhiḥ ǀ nṛ-vatīḥ ǀ uruṣyāḥ ǀ
tābhiḥ ǀ naḥ ǀ sūno iti ǀ sahasaḥ ǀ ni ǀ pāhi ǀ smat ǀ sūrīn ǀ jaritṝn ǀ jāta-vedaḥ ǁ7.3.8 Aṣṭaka 5.2.4.3Anuvāka 7.1.44
-
Ṛk 9
निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया॑ कृ॒पा त॒न्वा॒३॒॑ रोच॑मानः ।
आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या॑य सु॒क्रतुः॑ पाव॒कः ॥निर् यत् पूतेव स्वधितिः शुचिर् गात् स्वया कृपा तन्वा रोचमानः |
आ यो मात्रोर् उशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ||níryátpūtéva svádhitiḥ śúcirgā́tsváyā kṛpā́ tanvā́ rócamānaḥ ǀ
ā́ yó mātróruśényo jániṣṭa devayájyāya sukrátuḥ pāvakáḥ ǁnir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ |
ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ ||निः । यत् । पू॒ताऽइ॑व । स्वऽधि॑तिः । शुचिः॑ । गात् । स्वया॑ । कृ॒पा । त॒न्वा॑ । रोच॑मानः ।
आ । यः । मा॒त्रोः । उ॒शेन्यः॑ । जनि॑ष्ट । दे॒व॒ऽयज्या॑य । सु॒ऽक्रतुः॑ । पा॒व॒कः ॥निः । यत् । पूताऽइव । स्वऽधितिः । शुचिः । गात् । स्वया । कृपा । तन्वा । रोचमानः ।
आ । यः । मात्रोः । उशेन्यः । जनिष्ट । देवऽयज्याय । सुऽक्रतुः । पावकः ॥níḥ ǀ yát ǀ pūtā́-iva ǀ svá-dhitiḥ ǀ śúciḥ ǀ gā́t ǀ sváyā ǀ kṛpā́ ǀ tanvā́ ǀ rócamānaḥ ǀ
ā́ ǀ yáḥ ǀ mātróḥ ǀ uśényaḥ ǀ jániṣṭa ǀ deva-yájyāya ǀ su-krátuḥ ǀ pāvakáḥ ǁniḥ ǀ yat ǀ pūtā-iva ǀ sva-dhitiḥ ǀ śuciḥ ǀ gāt ǀ svayā ǀ kṛpā ǀ tanvā ǀ rocamānaḥ ǀ
ā ǀ yaḥ ǀ mātroḥ ǀ uśenyaḥ ǀ janiṣṭa ǀ deva-yajyāya ǀ su-kratuḥ ǀ pāvakaḥ ǁ7.3.9 Aṣṭaka 5.2.4.4Anuvāka 7.1.45
-
Ṛk 10
ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।
विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥एता नो अग्ने सौभगा दिदीह्य् अपि क्रतुं सुचेतसं वतेम |
विश्वा स्तोतृभ्यो गृणते च सन्तु यूयम् पात स्वस्तिभिः सदा नः ||etā́ no agne sáubhagā didīhyápi krátum sucétasam vatema ǀ
víśvā stotṛ́bhyo gṛṇaté ca santu yūyám pāta svastíbhiḥ sádā naḥ ǁetā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema |
viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ ||ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ ।
विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एता । नः । अग्ने । सौभगा । दिदीहि । अपि । क्रतुम् । सुऽचेतसम् । वतेम ।
विश्वा । स्तोतृऽभ्यः । गृणते । च । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥etā́ ǀ naḥ ǀ agne ǀ sáubhagā ǀ didīhi ǀ ápi ǀ krátum ǀ su-cétasam ǀ vatema ǀ
víśvā ǀ stotṛ́-bhyaḥ ǀ gṛṇaté ǀ ca ǀ santu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁetā ǀ naḥ ǀ agne ǀ saubhagā ǀ didīhi ǀ api ǀ kratum ǀ su-cetasam ǀ vatema ǀ
viśvā ǀ stotṛ-bhyaḥ ǀ gṛṇate ǀ ca ǀ santu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.3.10 Aṣṭaka 5.2.4.5Anuvāka 7.1.46
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.