Sūkta 53
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 3); triṣṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे ।
ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णंतः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे |
ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ||prá dyā́vā yajñáiḥ pṛthivī́ námobhiḥ sabā́dha īḷe bṛhatī́ yájatre ǀ
té ciddhí pū́rve kaváyo gṛṇántaḥ puró mahī́ dadhiré deváputre ǁpra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḷe bṛhatī yajatre |
te cid dhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre ||प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । नमः॑ऽभिः । स॒ऽबाधः॑ । ई॒ळे॒ । बृ॒ह॒ती इति॑ । यज॑त्रे॒ इति॑ ।
ते इति॑ । चि॒त् । हि । पूर्वे॑ । क॒वयः॑ । गृ॒णन्तः॑ । पु॒रः । म॒ही इति॑ । द॒धि॒रे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥प्र । द्यावा । यज्ञैः । पृथिवी इति । नमःऽभिः । सऽबाधः । ईळे । बृहती इति । यजत्रे इति ।
ते इति । चित् । हि । पूर्वे । कवयः । गृणन्तः । पुरः । मही इति । दधिरे । देवपुत्रे इति देवऽपुत्रे ॥prá ǀ dyā́vā ǀ yajñáiḥ ǀ pṛthivī́ íti ǀ námaḥ-bhiḥ ǀ sa-bā́dhaḥ ǀ īḷe ǀ bṛhatī́ íti ǀ yájatre íti ǀ
té íti ǀ cit ǀ hí ǀ pū́rve ǀ kaváyaḥ ǀ gṛṇántaḥ ǀ puráḥ ǀ mahī́ íti ǀ dadhiré ǀ deváputre íti devá-putre ǁpra ǀ dyāvā ǀ yajñaiḥ ǀ pṛthivī iti ǀ namaḥ-bhiḥ ǀ sa-bādhaḥ ǀ īḷe ǀ bṛhatī iti ǀ yajatre iti ǀ
te iti ǀ cit ǀ hi ǀ pūrve ǀ kavayaḥ ǀ gṛṇantaḥ ǀ puraḥ ǀ mahī iti ǀ dadhire ǀ devaputre iti deva-putre ǁ7.53.1 Aṣṭaka 5.4.20.1Anuvāka 7.3.133
-
Ṛk 2
प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थं ॥प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य |
आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ||prá pūrvajé pitárā návyasībhirgīrbhíḥ kṛṇudhvam sádane ṛtásya ǀ
ā́ no dyāvāpṛthivī dáivyena jánena yātam máhi vām várūtham ǁpra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya |
ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham ||प्र । पू॒र्व॒जे इति॑ पू॒र्व॒ऽजे । पि॒तरा॑ । नव्य॑सीभिः । गीः॒ऽभिः । कृ॒णु॒ध्व॒म् । सद॑ने॒ इति॑ । ऋ॒तस्य॑ ।
आ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । दैव्ये॑न । जने॑न । या॒त॒म् । महि॑ । वा॒म् । वरू॑थम् ॥प्र । पूर्वजे इति पूर्वऽजे । पितरा । नव्यसीभिः । गीःऽभिः । कृणुध्वम् । सदने इति । ऋतस्य ।
आ । नः । द्यावापृथिवी इति । दैव्येन । जनेन । यातम् । महि । वाम् । वरूथम् ॥prá ǀ pūrvajé íti pūrva-jé ǀ pitárā ǀ návyasībhiḥ ǀ gīḥ-bhíḥ ǀ kṛṇudhvam ǀ sádane íti ǀ ṛtásya ǀ
ā́ ǀ naḥ ǀ dyāvāpṛthivī íti ǀ dáivyena ǀ jánena ǀ yātam ǀ máhi ǀ vām ǀ várūtham ǁpra ǀ pūrvaje iti pūrva-je ǀ pitarā ǀ navyasībhiḥ ǀ gīḥ-bhiḥ ǀ kṛṇudhvam ǀ sadane iti ǀ ṛtasya ǀ
ā ǀ naḥ ǀ dyāvāpṛthivī iti ǀ daivyena ǀ janena ǀ yātam ǀ mahi ǀ vām ǀ varūtham ǁ7.53.2 Aṣṭaka 5.4.20.2Anuvāka 7.3.134
-
Ṛk 3
उ॒तो हि वां॑ रत्न॒धेया॑नि॒ संति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ ।
अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे |
अस्मे धत्तं यद् असद् अस्कृधोयु यूयम् पात स्वस्तिभिः सदा नः ||utó hí vām ratnadhéyāni sánti purū́ṇi dyāvāpṛthivī sudā́se ǀ
asmé dhattam yádásadáskṛdhoyu yūyám pāta svastíbhiḥ sádā naḥ ǁuto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse |
asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ ||उ॒तो इति॑ । हि । वा॒म् । र॒त्न॒ऽधेया॑नि । सन्ति॑ । पु॒रूणि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽदासे॑ ।
अ॒स्मे इति॑ । ध॒त्त॒म् । यत् । अस॑त् । अस्कृ॑धोयु । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥उतो इति । हि । वाम् । रत्नऽधेयानि । सन्ति । पुरूणि । द्यावापृथिवी इति । सुऽदासे ।
अस्मे इति । धत्तम् । यत् । असत् । अस्कृधोयु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥utó íti ǀ hí ǀ vām ǀ ratna-dhéyāni ǀ sánti ǀ purū́ṇi ǀ dyāvāpṛthivī íti ǀ su-dā́se ǀ
asmé íti ǀ dhattam ǀ yát ǀ ásat ǀ áskṛdhoyu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁuto iti ǀ hi ǀ vām ǀ ratna-dheyāni ǀ santi ǀ purūṇi ǀ dyāvāpṛthivī iti ǀ su-dāse ǀ
asme iti ǀ dhattam ǀ yat ǀ asat ǀ askṛdhoyu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.53.3 Aṣṭaka 5.4.20.3Anuvāka 7.3.135
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.