Ṛk 7.53.1
Saṃhitā
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे ।
ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णंतः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥
प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे |
ते चिद् धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ||
prá dyā́vā yajñáiḥ pṛthivī́ námobhiḥ sabā́dha īḷe bṛhatī́ yájatre ǀ
té ciddhí pū́rve kaváyo gṛṇántaḥ puró mahī́ dadhiré deváputre ǁ
pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḷe bṛhatī yajatre |
te cid dhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre ||
Padapāṭha
प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । नमः॑ऽभिः । स॒ऽबाधः॑ । ई॒ळे॒ । बृ॒ह॒ती इति॑ । यज॑त्रे॒ इति॑ ।
ते इति॑ । चि॒त् । हि । पूर्वे॑ । क॒वयः॑ । गृ॒णन्तः॑ । पु॒रः । म॒ही इति॑ । द॒धि॒रे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥
प्र । द्यावा । यज्ञैः । पृथिवी इति । नमःऽभिः । सऽबाधः । ईळे । बृहती इति । यजत्रे इति ।
ते इति । चित् । हि । पूर्वे । कवयः । गृणन्तः । पुरः । मही इति । दधिरे । देवपुत्रे इति देवऽपुत्रे ॥
prá ǀ dyā́vā ǀ yajñáiḥ ǀ pṛthivī́ íti ǀ námaḥ-bhiḥ ǀ sa-bā́dhaḥ ǀ īḷe ǀ bṛhatī́ íti ǀ yájatre íti ǀ
té íti ǀ cit ǀ hí ǀ pū́rve ǀ kaváyaḥ ǀ gṛṇántaḥ ǀ puráḥ ǀ mahī́ íti ǀ dadhiré ǀ deváputre íti devá-putre ǁ
pra ǀ dyāvā ǀ yajñaiḥ ǀ pṛthivī iti ǀ namaḥ-bhiḥ ǀ sa-bādhaḥ ǀ īḷe ǀ bṛhatī iti ǀ yajatre iti ǀ
te iti ǀ cit ǀ hi ǀ pūrve ǀ kavayaḥ ǀ gṛṇantaḥ ǀ puraḥ ǀ mahī iti ǀ dadhire ǀ devaputre iti deva-putre ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.053.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.20.01
- Maṇḍala · Anuvāka · Ṛk
- 07.03.133
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.