Ṛk 7.53.2
Saṃhitā
प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थं ॥
प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य |
आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ||
prá pūrvajé pitárā návyasībhirgīrbhíḥ kṛṇudhvam sádane ṛtásya ǀ
ā́ no dyāvāpṛthivī dáivyena jánena yātam máhi vām várūtham ǁ
pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya |
ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham ||
Padapāṭha
प्र । पू॒र्व॒जे इति॑ पू॒र्व॒ऽजे । पि॒तरा॑ । नव्य॑सीभिः । गीः॒ऽभिः । कृ॒णु॒ध्व॒म् । सद॑ने॒ इति॑ । ऋ॒तस्य॑ ।
आ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । दैव्ये॑न । जने॑न । या॒त॒म् । महि॑ । वा॒म् । वरू॑थम् ॥
प्र । पूर्वजे इति पूर्वऽजे । पितरा । नव्यसीभिः । गीःऽभिः । कृणुध्वम् । सदने इति । ऋतस्य ।
आ । नः । द्यावापृथिवी इति । दैव्येन । जनेन । यातम् । महि । वाम् । वरूथम् ॥
prá ǀ pūrvajé íti pūrva-jé ǀ pitárā ǀ návyasībhiḥ ǀ gīḥ-bhíḥ ǀ kṛṇudhvam ǀ sádane íti ǀ ṛtásya ǀ
ā́ ǀ naḥ ǀ dyāvāpṛthivī íti ǀ dáivyena ǀ jánena ǀ yātam ǀ máhi ǀ vām ǀ várūtham ǁ
pra ǀ pūrvaje iti pūrva-je ǀ pitarā ǀ navyasībhiḥ ǀ gīḥ-bhiḥ ǀ kṛṇudhvam ǀ sadane iti ǀ ṛtasya ǀ
ā ǀ naḥ ǀ dyāvāpṛthivī iti ǀ daivyena ǀ janena ǀ yātam ǀ mahi ǀ vām ǀ varūtham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.053.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.20.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.134
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.