Sūkta 10
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1-3); triṣṭup (4, 5)
2nd set of styles triṣṭubh
-
Ṛk 1
उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः ।
वृषा॒ हरिः॒ शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥उषो न जारः पृथु पाजो अश्रेद् दविद्युतद् दीद्यच् छोशुचानः |
वृषा हरिः शुचिर् आ भाति भासा धियो हिन्वान उशतीर् अजीगः ||uṣó ná jāráḥ pṛthú pā́jo aśreddávidyutaddī́dyacchóśucānaḥ ǀ
vṛ́ṣā háriḥ śúcirā́ bhāti bhāsā́ dhíyo hinvāná uśatī́rajīgaḥ ǁuṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyac chośucānaḥ |
vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ ||उ॒षः । न । जा॒रः । पृ॒थु । पाजः॑ । अ॒श्रे॒त् । दवि॑द्युतत् । दीद्य॑त् । शोशु॑चानः ।
वृषा॑ । हरिः॑ । शुचिः॑ । आ । भा॒ति॒ । भा॒सा । धियः॑ । हि॒न्वा॒नः । उ॒श॒तीः । अ॒जी॒ग॒रिति॑ ॥उषः । न । जारः । पृथु । पाजः । अश्रेत् । दविद्युतत् । दीद्यत् । शोशुचानः ।
वृषा । हरिः । शुचिः । आ । भाति । भासा । धियः । हिन्वानः । उशतीः । अजीगरिति ॥uṣáḥ ǀ ná ǀ jāráḥ ǀ pṛthú ǀ pā́jaḥ ǀ aśret ǀ dávidyutat ǀ dī́dyat ǀ śóśucānaḥ ǀ
vṛ́ṣā ǀ háriḥ ǀ śúciḥ ǀ ā́ ǀ bhāti ǀ bhāsā́ ǀ dhíyaḥ ǀ hinvānáḥ ǀ uśatī́ḥ ǀ ajīgaríti ǁuṣaḥ ǀ na ǀ jāraḥ ǀ pṛthu ǀ pājaḥ ǀ aśret ǀ davidyutat ǀ dīdyat ǀ śośucānaḥ ǀ
vṛṣā ǀ hariḥ ǀ śuciḥ ǀ ā ǀ bhāti ǀ bhāsā ǀ dhiyaḥ ǀ hinvānaḥ ǀ uśatīḥ ǀ ajīgariti ǁ7.10.1 Aṣṭaka 5.2.13.1Anuvāka 7.1.93
-
Ṛk 2
स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑ ।
अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वांद्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥स्वर् ण वस्तोर् उषसाम् अरोचि यज्ञं तन्वाना उशिजो न मन्म |
अग्निर् जन्मानि देव आ वि विद्वान् द्रवद् दूतो देवयावा वनिष्ठः ||svárṇá vástoruṣásāmaroci yajñám tanvānā́ uśíjo ná mánma ǀ
agnírjánmāni devá ā́ ví vidvā́ndraváddūtó devayā́vā vániṣṭhaḥ ǁsvar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma |
agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ ||स्वः॑ । न । वस्तोः॑ । उ॒षसा॑म् । अ॒रो॒चि॒ । य॒ज्ञम् । त॒न्वा॒नाः । उ॒शिजः॑ । न । मन्म॑ ।
अ॒ग्निः । जन्मा॑नि । दे॒वः । आ । वि । वि॒द्वान् । द्र॒वत् । दू॒तः । दे॒व॒ऽयावा॑ । वनि॑ष्ठः ॥स्वः । न । वस्तोः । उषसाम् । अरोचि । यज्ञम् । तन्वानाः । उशिजः । न । मन्म ।
अग्निः । जन्मानि । देवः । आ । वि । विद्वान् । द्रवत् । दूतः । देवऽयावा । वनिष्ठः ॥sváḥ ǀ ná ǀ vástoḥ ǀ uṣásām ǀ aroci ǀ yajñám ǀ tanvānā́ḥ ǀ uśíjaḥ ǀ ná ǀ mánma ǀ
agníḥ ǀ jánmāni ǀ deváḥ ǀ ā́ ǀ ví ǀ vidvā́n ǀ dravát ǀ dūtáḥ ǀ deva-yā́vā ǀ vániṣṭhaḥ ǁsvaḥ ǀ na ǀ vastoḥ ǀ uṣasām ǀ aroci ǀ yajñam ǀ tanvānāḥ ǀ uśijaḥ ǀ na ǀ manma ǀ
agniḥ ǀ janmāni ǀ devaḥ ǀ ā ǀ vi ǀ vidvān ǀ dravat ǀ dūtaḥ ǀ deva-yāvā ǀ vaniṣṭhaḥ ǁ7.10.2 Aṣṭaka 5.2.13.2Anuvāka 7.1.94
-
Ṛk 3
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यंती॑र॒ग्निं यं॑ति॒ द्रवि॑णं॒ भिक्ष॑माणाः ।
सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वंचं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणां ॥अच्छा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणम् भिक्षमाणाः |
सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहम् अरतिम् मानुषाणाम् ||ácchā gíro matáyo devayántīragním yanti dráviṇam bhíkṣamāṇāḥ ǀ
susaṃdṛ́śam suprátīkam sváñcam havyavā́hamaratím mā́nuṣāṇām ǁacchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ |
susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratim mānuṣāṇām ||अच्छ॑ । गिरः॑ । म॒तयः॑ । दे॒व॒ऽयन्तीः॑ । अ॒ग्निम् । य॒न्ति॒ । द्रवि॑णम् । भिक्ष॑माणाः ।
सु॒ऽस॒न्दृश॑म् । सु॒ऽप्रती॑कम् । सु॒ऽअञ्च॑म् । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । मानु॑षाणाम् ॥अच्छ । गिरः । मतयः । देवऽयन्तीः । अग्निम् । यन्ति । द्रविणम् । भिक्षमाणाः ।
सुऽसन्दृशम् । सुऽप्रतीकम् । सुऽअञ्चम् । हव्यऽवाहम् । अरतिम् । मानुषाणाम् ॥áccha ǀ gíraḥ ǀ matáyaḥ ǀ deva-yántīḥ ǀ agním ǀ yanti ǀ dráviṇam ǀ bhíkṣamāṇāḥ ǀ
su-sandṛ́śam ǀ su-prátīkam ǀ su-áñcam ǀ havya-vā́ham ǀ aratím ǀ mā́nuṣāṇām ǁaccha ǀ giraḥ ǀ matayaḥ ǀ deva-yantīḥ ǀ agnim ǀ yanti ǀ draviṇam ǀ bhikṣamāṇāḥ ǀ
su-sandṛśam ǀ su-pratīkam ǀ su-añcam ǀ havya-vāham ǀ aratim ǀ mānuṣāṇām ǁ7.10.3 Aṣṭaka 5.2.13.3Anuvāka 7.1.95
-
Ṛk 4
इंद्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हंतं॑ ।
आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रं ॥इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिर् आ वहा बृहन्तम् |
आदित्येभिर् अदितिं विश्वजन्याम् बृहस्पतिम् ऋक्वभिर् विश्ववारम् ||índram no agne vásubhiḥ sajóṣā rudrám rudrébhirā́ vahā bṛhántam ǀ
ādityébhiráditim viśvájanyām bṛ́haspátimṛ́kvabhirviśvávāram ǁindraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam |
ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram ||इन्द्र॑म् । नः॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । रु॒द्रम् । रु॒द्रेभिः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।
आ॒दि॒त्येभिः॑ । अदि॑तिम् । वि॒श्वऽज॑न्याम् । बृह॒स्पति॑म् । ऋक्व॑ऽभिः । वि॒श्वऽवा॑रम् ॥इन्द्रम् । नः । अग्ने । वसुऽभिः । सऽजोषाः । रुद्रम् । रुद्रेभिः । आ । वह । बृहन्तम् ।
आदित्येभिः । अदितिम् । विश्वऽजन्याम् । बृहस्पतिम् । ऋक्वऽभिः । विश्वऽवारम् ॥índram ǀ naḥ ǀ agne ǀ vásu-bhiḥ ǀ sa-jóṣāḥ ǀ rudrám ǀ rudrébhiḥ ǀ ā́ ǀ vaha ǀ bṛhántam ǀ
ādityébhiḥ ǀ áditim ǀ viśvá-janyām ǀ bṛ́haspátim ǀ ṛ́kva-bhiḥ ǀ viśvá-vāram ǁindram ǀ naḥ ǀ agne ǀ vasu-bhiḥ ǀ sa-joṣāḥ ǀ rudram ǀ rudrebhiḥ ǀ ā ǀ vaha ǀ bṛhantam ǀ
ādityebhiḥ ǀ aditim ǀ viśva-janyām ǀ bṛhaspatim ǀ ṛkva-bhiḥ ǀ viśva-vāram ǁ7.10.4 Aṣṭaka 5.2.13.4Anuvāka 7.1.96
-
Ṛk 5
मं॒द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ ।
स हि क्षपा॑वाँ॒ अभ॑वद्रयी॒णामतं॑द्रो दू॒तो य॒जथा॑य दे॒वान् ॥मन्द्रं होतारम् उशिजो यविष्ठम् अग्निं विश ईऌअते अध्वरेषु |
स हि क्षपावां अभवद् रयीणाम् अतन्द्रो दूतो यजथाय देवान् ||mandrám hótāramuśíjo yáviṣṭhamagním víśa īḷate adhvaréṣu ǀ
sá hí kṣápāvām̐ ábhavadrayīṇā́mátandro dūtó yajáthāya devā́n ǁmandraṃ hotāram uśijo yaviṣṭham agniṃ viśa īḷate adhvareṣu |
sa hi kṣapāvāṃ abhavad rayīṇām atandro dūto yajathāya devān ||म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । यवि॑ष्ठम् । अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । अ॒ध्व॒रेषु॑ ।
सः । हि । क्षपा॑ऽवान् । अभ॑वत् । र॒यी॒णाम् । अत॑न्द्रः । दू॒तः । य॒जथा॑य । दे॒वान् ॥मन्द्रम् । होतारम् । उशिजः । यविष्ठम् । अग्निम् । विशः । ईळते । अध्वरेषु ।
सः । हि । क्षपाऽवान् । अभवत् । रयीणाम् । अतन्द्रः । दूतः । यजथाय । देवान् ॥mandrám ǀ hótāram ǀ uśíjaḥ ǀ yáviṣṭham ǀ agním ǀ víśaḥ ǀ īḷate ǀ adhvaréṣu ǀ
sáḥ ǀ hí ǀ kṣápā-vān ǀ ábhavat ǀ rayīṇā́m ǀ átandraḥ ǀ dūtáḥ ǀ yajáthāya ǀ devā́n ǁmandram ǀ hotāram ǀ uśijaḥ ǀ yaviṣṭham ǀ agnim ǀ viśaḥ ǀ īḷate ǀ adhvareṣu ǀ
saḥ ǀ hi ǀ kṣapā-vān ǀ abhavat ǀ rayīṇām ǀ atandraḥ ǀ dūtaḥ ǀ yajathāya ǀ devān ǁ7.10.5 Aṣṭaka 5.2.13.5Anuvāka 7.1.97
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.