Ṛk 7.10.5
Saṃhitā
मं॒द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ ।
स हि क्षपा॑वाँ॒ अभ॑वद्रयी॒णामतं॑द्रो दू॒तो य॒जथा॑य दे॒वान् ॥
मन्द्रं होतारम् उशिजो यविष्ठम् अग्निं विश ईऌअते अध्वरेषु |
स हि क्षपावां अभवद् रयीणाम् अतन्द्रो दूतो यजथाय देवान् ||
mandrám hótāramuśíjo yáviṣṭhamagním víśa īḷate adhvaréṣu ǀ
sá hí kṣápāvām̐ ábhavadrayīṇā́mátandro dūtó yajáthāya devā́n ǁ
mandraṃ hotāram uśijo yaviṣṭham agniṃ viśa īḷate adhvareṣu |
sa hi kṣapāvāṃ abhavad rayīṇām atandro dūto yajathāya devān ||
Padapāṭha
म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । यवि॑ष्ठम् । अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । अ॒ध्व॒रेषु॑ ।
सः । हि । क्षपा॑ऽवान् । अभ॑वत् । र॒यी॒णाम् । अत॑न्द्रः । दू॒तः । य॒जथा॑य । दे॒वान् ॥
मन्द्रम् । होतारम् । उशिजः । यविष्ठम् । अग्निम् । विशः । ईळते । अध्वरेषु ।
सः । हि । क्षपाऽवान् । अभवत् । रयीणाम् । अतन्द्रः । दूतः । यजथाय । देवान् ॥
mandrám ǀ hótāram ǀ uśíjaḥ ǀ yáviṣṭham ǀ agním ǀ víśaḥ ǀ īḷate ǀ adhvaréṣu ǀ
sáḥ ǀ hí ǀ kṣápā-vān ǀ ábhavat ǀ rayīṇā́m ǀ átandraḥ ǀ dūtáḥ ǀ yajáthāya ǀ devā́n ǁ
mandram ǀ hotāram ǀ uśijaḥ ǀ yaviṣṭham ǀ agnim ǀ viśaḥ ǀ īḷate ǀ adhvareṣu ǀ
saḥ ǀ hi ǀ kṣapā-vān ǀ abhavat ǀ rayīṇām ǀ atandraḥ ǀ dūtaḥ ǀ yajathāya ǀ devān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.010.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.13.05
- Maṇḍala · Anuvāka · Ṛk
- 07.01.097
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.