Sūkta 70
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 4, 6); virāṭtrisṭup (2, 5, 7)
2nd set of styles jagatī (triṣṭubh according to syllable count)
-
Ṛk 1
आ वि॑श्ववाराश्विना गतं नः॒ प्र तत्स्थान॑मवाचि वां पृथि॒व्यां ।
अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनिं॑ ॥आ विश्ववाराश्विना गतं नः प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् |
अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे न योनिम् ||ā́ viśvavārāśvinā gatam naḥ prá tátsthā́namavāci vām pṛthivyā́m ǀ
áśvo ná vājī́ śunápṛṣṭho asthādā́ yátsedáthurdhruváse ná yónim ǁā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām |
aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim ||आ । वि॒श्व॒ऽवा॒रा॒ । अ॒श्वि॒ना॒ । ग॒त॒म् । नः॒ । प्र । तत् । स्थान॑म् । अ॒वा॒चि॒ । वा॒म् । पृ॒थि॒व्याम् ।
अश्वः॑ । न । वा॒जी । शु॒नऽपृ॑ष्ठः । अ॒स्था॒त् । आ । यत् । से॒दथुः॑ । ध्रु॒वसे॑ । न । योनि॑म् ॥आ । विश्वऽवारा । अश्विना । गतम् । नः । प्र । तत् । स्थानम् । अवाचि । वाम् । पृथिव्याम् ।
अश्वः । न । वाजी । शुनऽपृष्ठः । अस्थात् । आ । यत् । सेदथुः । ध्रुवसे । न । योनिम् ॥ā́ ǀ viśva-vārā ǀ aśvinā ǀ gatam ǀ naḥ ǀ prá ǀ tát ǀ sthā́nam ǀ avāci ǀ vām ǀ pṛthivyā́m ǀ
áśvaḥ ǀ ná ǀ vājī́ ǀ śuná-pṛṣṭhaḥ ǀ asthāt ǀ ā́ ǀ yát ǀ sedáthuḥ ǀ dhruváse ǀ ná ǀ yónim ǁā ǀ viśva-vārā ǀ aśvinā ǀ gatam ǀ naḥ ǀ pra ǀ tat ǀ sthānam ǀ avāci ǀ vām ǀ pṛthivyām ǀ
aśvaḥ ǀ na ǀ vājī ǀ śuna-pṛṣṭhaḥ ǀ asthāt ǀ ā ǀ yat ǀ sedathuḥ ǀ dhruvase ǀ na ǀ yonim ǁ7.70.1 Aṣṭaka 5.5.17.1Anuvāka 7.4.138
-
Ṛk 2
सिष॑क्ति॒ सा वां॑ सुम॒तिश्चनि॒ष्ठाता॑पि घ॒र्मो मनु॑षो दुरो॒णे ।
यो वां॑ समु॒द्रान्त्स॒रितः॒ पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा॑ युजा॒नः ॥सिषक्ति सा वां सुमतिश् चनिष्ठातापि घर्मो मनुषो दुरोणे |
यो वां समुद्रान् सरितः पिपर्त्य् एतग्वा चिन् न सुयुजा युजानः ||síṣakti sā́ vām sumatíścániṣṭhā́tāpi gharmó mánuṣo duroṇé ǀ
yó vām samudrā́ntsarítaḥ pípartyétagvā cinná suyújā yujānáḥ ǁsiṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe |
yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ ||सिस॑क्ति । सा । वा॒म् । सु॒ऽम॒तिः । चनि॑ष्ठा । अता॑पि । घ॒र्मः । मनु॑षः । दु॒रो॒णे ।
यः । वा॒म् । स॒मु॒द्रान् । स॒रितः॑ । पिप॑र्ति । एत॑ऽग्वा । चि॒त् । न । सु॒ऽयुजा॑ । यु॒जा॒नः ॥सिसक्ति । सा । वाम् । सुऽमतिः । चनिष्ठा । अतापि । घर्मः । मनुषः । दुरोणे ।
यः । वाम् । समुद्रान् । सरितः । पिपर्ति । एतऽग्वा । चित् । न । सुऽयुजा । युजानः ॥sísakti ǀ sā́ ǀ vām ǀ su-matíḥ ǀ cániṣṭhā ǀ átāpi ǀ gharmáḥ ǀ mánuṣaḥ ǀ duroṇé ǀ
yáḥ ǀ vām ǀ samudrā́n ǀ sarítaḥ ǀ píparti ǀ éta-gvā ǀ cit ǀ ná ǀ su-yújā ǀ yujānáḥ ǁsisakti ǀ sā ǀ vām ǀ su-matiḥ ǀ caniṣṭhā ǀ atāpi ǀ gharmaḥ ǀ manuṣaḥ ǀ duroṇe ǀ
yaḥ ǀ vām ǀ samudrān ǀ saritaḥ ǀ piparti ǀ eta-gvā ǀ cit ǀ na ǀ su-yujā ǀ yujānaḥ ǁ7.70.2 Aṣṭaka 5.5.17.2Anuvāka 7.4.139
-
Ṛk 3
यानि॒ स्थाना॑न्यश्विना द॒धाथे॑ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु ।
नि पर्व॑तस्य मू॒र्धनि॒ सदं॒तेषं॒ जना॑य दा॒शुषे॒ वहं॑ता ॥यानि स्थानान्य् अश्विना दधाथे दिवो यह्वीष्व् ओषधीषु विक्षु |
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ||yā́ni sthā́nānyaśvinā dadhā́the divó yahvī́ṣvóṣadhīṣu vikṣú ǀ
ní párvatasya mūrdháni sádantéṣam jánāya dāśúṣe váhantā ǁyāni sthānāny aśvinā dadhāthe divo yahvīṣv oṣadhīṣu vikṣu |
ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā ||यानि॑ । स्थाना॑नि । अ॒श्वि॒ना॒ । द॒धाथे॒ इति॑ । दि॒वः । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु ।
नि । पर्व॑तस्य । मू॒र्धनि॑ । सद॑न्ता । इष॑म् । जना॑य । दा॒शुषे॑ । वह॑न्ता ॥यानि । स्थानानि । अश्विना । दधाथे इति । दिवः । यह्वीषु । ओषधीषु । विक्षु ।
नि । पर्वतस्य । मूर्धनि । सदन्ता । इषम् । जनाय । दाशुषे । वहन्ता ॥yā́ni ǀ sthā́nāni ǀ aśvinā ǀ dadhā́the íti ǀ diváḥ ǀ yahvī́ṣu ǀ óṣadhīṣu ǀ vikṣú ǀ
ní ǀ párvatasya ǀ mūrdháni ǀ sádantā ǀ íṣam ǀ jánāya ǀ dāśúṣe ǀ váhantā ǁyāni ǀ sthānāni ǀ aśvinā ǀ dadhāthe iti ǀ divaḥ ǀ yahvīṣu ǀ oṣadhīṣu ǀ vikṣu ǀ
ni ǀ parvatasya ǀ mūrdhani ǀ sadantā ǀ iṣam ǀ janāya ǀ dāśuṣe ǀ vahantā ǁ7.70.3 Aṣṭaka 5.5.17.3Anuvāka 7.4.140
-
Ṛk 4
च॒नि॒ष्टं दे॑वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै॑थे॒ ऋषी॑णां ।
पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॒॑स्मे अनु॒ पूर्वा॑णि चख्यथुर्यु॒गानि॑ ॥चनिष्टं देवा ओषधीष्व् अप्सु यद् योग्या अश्नवैथे ऋषीणाम् |
पुरूणि रत्ना दधतौ न्य् अस्मे अनु पूर्वाणि चख्यथुर् युगानि ||caniṣṭám devā óṣadhīṣvapsú yádyogyā́ aśnávaithe ṛ́ṣīṇām ǀ
purū́ṇi rátnā dádhatau nyásmé ánu pū́rvāṇi cakhyathuryugā́ni ǁcaniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām |
purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni ||च॒नि॒ष्टम् । दे॒वौ॒ । ओष॑धीषु । अ॒प्ऽसु । यत् । यो॒ग्याः । अ॒श्नवै॑थे॒ इति॑ । ऋषी॑णाम् ।
पु॒रूणि॑ । रत्ना॑ । दध॑तौ । नि । अ॒स्मे इति॑ । अनु॑ । पूर्वा॑णि । च॒ख्य॒थुः॒ । यु॒गानि॑ ॥चनिष्टम् । देवौ । ओषधीषु । अप्ऽसु । यत् । योग्याः । अश्नवैथे इति । ऋषीणाम् ।
पुरूणि । रत्ना । दधतौ । नि । अस्मे इति । अनु । पूर्वाणि । चख्यथुः । युगानि ॥caniṣṭám ǀ devau ǀ óṣadhīṣu ǀ ap-sú ǀ yát ǀ yogyā́ḥ ǀ aśnávaithe íti ǀ ṛ́ṣīṇām ǀ
purū́ṇi ǀ rátnā ǀ dádhatau ǀ ní ǀ asmé íti ǀ ánu ǀ pū́rvāṇi ǀ cakhyathuḥ ǀ yugā́ni ǁcaniṣṭam ǀ devau ǀ oṣadhīṣu ǀ ap-su ǀ yat ǀ yogyāḥ ǀ aśnavaithe iti ǀ ṛṣīṇām ǀ
purūṇi ǀ ratnā ǀ dadhatau ǀ ni ǀ asme iti ǀ anu ǀ pūrvāṇi ǀ cakhyathuḥ ǀ yugāni ǁ7.70.4 Aṣṭaka 5.5.17.4Anuvāka 7.4.141
-
Ṛk 5
शु॒श्रु॒वांसा॑ चिदश्विना पु॒रूण्य॒भि ब्रह्मा॑णि चक्षाथे॒ ऋषी॑णां ।
प्रति॒ प्र या॑तं॒ वर॒मा जना॑या॒स्मे वा॑मस्तु सुम॒तिश्चनि॑ष्ठा ॥शुश्रुवांसा चिद् अश्विना पुरूण्य् अभि ब्रह्माणि चक्षाथे ऋषीणाम् |
प्रति प्र यातं वरम् आ जनायास्मे वाम् अस्तु सुमतिश् चनिष्ठा ||śuśruvā́ṃsā cidaśvinā purū́ṇyabhí bráhmāṇi cakṣāthe ṛ́ṣīṇām ǀ
práti prá yātam váramā́ jánāyāsmé vāmastu sumatíścániṣṭhā ǁśuśruvāṃsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām |
prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā ||शु॒श्रु॒ऽवांसा॑ । चि॒त् । अ॒श्वि॒ना॒ । पु॒रूणि॑ । अ॒भि । ब्रह्मा॑णि । च॒क्षा॒थे॒ इति॑ । ऋषी॑णाम् ।
प्रति॑ । प्र । या॒त॒म् । वर॑म् । आ । जना॑य । अ॒स्मे इति॑ । वा॒म् । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥शुश्रुऽवांसा । चित् । अश्विना । पुरूणि । अभि । ब्रह्माणि । चक्षाथे इति । ऋषीणाम् ।
प्रति । प्र । यातम् । वरम् । आ । जनाय । अस्मे इति । वाम् । अस्तु । सुऽमतिः । चनिष्ठा ॥śuśru-vā́ṃsā ǀ cit ǀ aśvinā ǀ purū́ṇi ǀ abhí ǀ bráhmāṇi ǀ cakṣāthe íti ǀ ṛ́ṣīṇām ǀ
práti ǀ prá ǀ yātam ǀ váram ǀ ā́ ǀ jánāya ǀ asmé íti ǀ vām ǀ astu ǀ su-matíḥ ǀ cániṣṭhā ǁśuśru-vāṃsā ǀ cit ǀ aśvinā ǀ purūṇi ǀ abhi ǀ brahmāṇi ǀ cakṣāthe iti ǀ ṛṣīṇām ǀ
prati ǀ pra ǀ yātam ǀ varam ǀ ā ǀ janāya ǀ asme iti ǀ vām ǀ astu ǀ su-matiḥ ǀ caniṣṭhā ǁ7.70.5 Aṣṭaka 5.5.17.5Anuvāka 7.4.142
-
Ṛk 6
यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति ।
उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यंते यु॒वभ्यां॑ ॥यो वां यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यो भवाति |
उप प्र यातं वरम् आ वसिष्ठम् इमा ब्रह्माण्य् ऋच्यन्ते युवभ्याम् ||yó vām yajñó nāsatyā havíṣmānkṛtábrahmā samaryo bhávāti ǀ
úpa prá yātam váramā́ vásiṣṭhamimā́ bráhmāṇyṛcyante yuvábhyām ǁyo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti |
upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām ||यः । वा॒म् । य॒ज्ञः । ना॒स॒त्या॒ । ह॒विष्मा॑न् । कृ॒तऽब्र॑ह्मा । स॒ऽम॒र्यः॑ । भवा॑ति ।
उप॑ । प्र । या॒त॒म् । वर॑म् । आ । वसि॑ष्ठम् । इ॒मा । ब्रह्मा॑णि । ऋ॒च्य॒न्ते॒ । यु॒वऽभ्या॑म् ॥यः । वाम् । यज्ञः । नासत्या । हविष्मान् । कृतऽब्रह्मा । सऽमर्यः । भवाति ।
उप । प्र । यातम् । वरम् । आ । वसिष्ठम् । इमा । ब्रह्माणि । ऋच्यन्ते । युवऽभ्याम् ॥yáḥ ǀ vām ǀ yajñáḥ ǀ nāsatyā ǀ havíṣmān ǀ kṛtá-brahmā ǀ sa-maryáḥ ǀ bhávāti ǀ
úpa ǀ prá ǀ yātam ǀ váram ǀ ā́ ǀ vásiṣṭham ǀ imā́ ǀ bráhmāṇi ǀ ṛcyante ǀ yuvá-bhyām ǁyaḥ ǀ vām ǀ yajñaḥ ǀ nāsatyā ǀ haviṣmān ǀ kṛta-brahmā ǀ sa-maryaḥ ǀ bhavāti ǀ
upa ǀ pra ǀ yātam ǀ varam ǀ ā ǀ vasiṣṭham ǀ imā ǀ brahmāṇi ǀ ṛcyante ǀ yuva-bhyām ǁ7.70.6 Aṣṭaka 5.5.17.6Anuvāka 7.4.143
-
Ṛk 7
इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।
इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् |
इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ||iyám manīṣā́ iyámaśvinā gī́rimā́m suvṛktím vṛṣaṇā juṣethām ǀ
imā́ bráhmāṇi yuvayū́nyagmanyūyám pāta svastíbhiḥ sádā naḥ ǁiyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ ||इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।
इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥iyám ǀ manīṣā́ ǀ iyám ǀ aśvinā ǀ gī́ḥ ǀ imā́m ǀ su-vṛktím ǀ vṛṣaṇā ǀ juṣethām ǀ
imā́ ǀ bráhmāṇi ǀ yuva-yū́ni ǀ agman ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁiyam ǀ manīṣā ǀ iyam ǀ aśvinā ǀ gīḥ ǀ imām ǀ su-vṛktim ǀ vṛṣaṇā ǀ juṣethām ǀ
imā ǀ brahmāṇi ǀ yuva-yūni ǀ agman ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.70.7 Aṣṭaka 5.5.17.7Anuvāka 7.4.144
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.