Ṛk 7.70.7
Saṃhitā
इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।
इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
इयम् मनीषा इयम् अश्विना गीर् इमां सुवृक्तिं वृषणा जुषेथाम् |
इमा ब्रह्माणि युवयून्य् अग्मन् यूयम् पात स्वस्तिभिः सदा नः ||
iyám manīṣā́ iyámaśvinā gī́rimā́m suvṛktím vṛṣaṇā juṣethām ǀ
imā́ bráhmāṇi yuvayū́nyagmanyūyám pāta svastíbhiḥ sádā naḥ ǁ
iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām |
imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ ||
Padapāṭha
इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।
इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
iyám ǀ manīṣā́ ǀ iyám ǀ aśvinā ǀ gī́ḥ ǀ imā́m ǀ su-vṛktím ǀ vṛṣaṇā ǀ juṣethām ǀ
imā́ ǀ bráhmāṇi ǀ yuva-yū́ni ǀ agman ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ
iyam ǀ manīṣā ǀ iyam ǀ aśvinā ǀ gīḥ ǀ imām ǀ su-vṛktim ǀ vṛṣaṇā ǀ juṣethām ǀ
imā ǀ brahmāṇi ǀ yuva-yūni ǀ agman ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.070.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.17.07
- Maṇḍala · Anuvāka · Ṛk
- 07.04.144
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.