Ṛk 7.70.1
Saṃhitā
आ वि॑श्ववाराश्विना गतं नः॒ प्र तत्स्थान॑मवाचि वां पृथि॒व्यां ।
अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनिं॑ ॥
आ विश्ववाराश्विना गतं नः प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् |
अश्वो न वाजी शुनपृष्ठो अस्थाद् आ यत् सेदथुर् ध्रुवसे न योनिम् ||
ā́ viśvavārāśvinā gatam naḥ prá tátsthā́namavāci vām pṛthivyā́m ǀ
áśvo ná vājī́ śunápṛṣṭho asthādā́ yátsedáthurdhruváse ná yónim ǁ
ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām |
aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim ||
Padapāṭha
आ । वि॒श्व॒ऽवा॒रा॒ । अ॒श्वि॒ना॒ । ग॒त॒म् । नः॒ । प्र । तत् । स्थान॑म् । अ॒वा॒चि॒ । वा॒म् । पृ॒थि॒व्याम् ।
अश्वः॑ । न । वा॒जी । शु॒नऽपृ॑ष्ठः । अ॒स्था॒त् । आ । यत् । से॒दथुः॑ । ध्रु॒वसे॑ । न । योनि॑म् ॥
आ । विश्वऽवारा । अश्विना । गतम् । नः । प्र । तत् । स्थानम् । अवाचि । वाम् । पृथिव्याम् ।
अश्वः । न । वाजी । शुनऽपृष्ठः । अस्थात् । आ । यत् । सेदथुः । ध्रुवसे । न । योनिम् ॥
ā́ ǀ viśva-vārā ǀ aśvinā ǀ gatam ǀ naḥ ǀ prá ǀ tát ǀ sthā́nam ǀ avāci ǀ vām ǀ pṛthivyā́m ǀ
áśvaḥ ǀ ná ǀ vājī́ ǀ śuná-pṛṣṭhaḥ ǀ asthāt ǀ ā́ ǀ yát ǀ sedáthuḥ ǀ dhruváse ǀ ná ǀ yónim ǁ
ā ǀ viśva-vārā ǀ aśvinā ǀ gatam ǀ naḥ ǀ pra ǀ tat ǀ sthānam ǀ avāci ǀ vām ǀ pṛthivyām ǀ
aśvaḥ ǀ na ǀ vājī ǀ śuna-pṛṣṭhaḥ ǀ asthāt ǀ ā ǀ yat ǀ sedathuḥ ǀ dhruvase ǀ na ǀ yonim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.070.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.17.01
- Maṇḍala · Anuvāka · Ṛk
- 07.04.138
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.