Sūkta 91
- Devatā देवता
- 1, 3: Vāyu; 2, 4-7: Indra, Vāyu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 4, 7); ārṣītriṣṭup (2, 5, 6); nicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
कु॒विदं॒ग नम॑सा॒ ये वृ॒धासः॑ पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् ।
ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण ॥कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् |
ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ||kuvídaṅgá námasā yé vṛdhā́saḥ purā́ devā́ anavadyā́sa ā́san ǀ
té vāyáve mánave bādhitā́yā́vāsayannuṣásam sū́ryeṇa ǁkuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan |
te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa ||कु॒वित् । अ॒ङ्ग । नम॑सा । ये । वृ॒धासः॑ । पु॒रा । दे॒वाः । अ॒न॒व॒द्यासः॑ । आस॑न् ।
ते । वा॒यवे॑ । मन॑वे । बा॒धि॒ताय॑ । अवा॑सयन् । उ॒षस॑म् । सूर्ये॑ण ॥कुवित् । अङ्ग । नमसा । ये । वृधासः । पुरा । देवाः । अनवद्यासः । आसन् ।
ते । वायवे । मनवे । बाधिताय । अवासयन् । उषसम् । सूर्येण ॥kuvít ǀ aṅgá ǀ námasā ǀ yé ǀ vṛdhā́saḥ ǀ purā́ ǀ devā́ḥ ǀ anavadyā́saḥ ǀ ā́san ǀ
té ǀ vāyáve ǀ mánave ǀ bādhitā́ya ǀ ávāsayan ǀ uṣásam ǀ sū́ryeṇa ǁkuvit ǀ aṅga ǀ namasā ǀ ye ǀ vṛdhāsaḥ ǀ purā ǀ devāḥ ǀ anavadyāsaḥ ǀ āsan ǀ
te ǀ vāyave ǀ manave ǀ bādhitāya ǀ avāsayan ǀ uṣasam ǀ sūryeṇa ǁ7.91.1 Aṣṭaka 5.6.13.1Anuvāka 7.6.8
-
Ṛk 2
उ॒शंता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः ।
इंद्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्यं॑ ॥उशन्ता दूता न दभाय गोपा मासश् च पाथः शरदश् च पूर्वीः |
इन्द्रवायू सुष्टुतिर् वाम् इयाना मार्डीकम् ईट्टे सुवितं च नव्यम् ||uśántā dūtā́ ná dábhāya gopā́ māsáśca pātháḥ śarádaśca pūrvī́ḥ ǀ
índravāyū suṣṭutírvāmiyānā́ mārḍīkámīṭṭe suvitám ca návyam ǁuśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ |
indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam ||उ॒शन्ता॑ । दू॒ता । न । दभा॑य । गो॒पा । मा॒सः । च॒ । पा॒थः । श॒रदः॑ । च॒ । पू॒र्वीः ।
इन्द्र॑वायू॒ इति॑ । सु॒ऽस्तु॒तिः । वा॒म् । इ॒या॒ना । मा॒र्डी॒कम् । ई॒ट्टे॒ । सु॒वि॒तम् । च॒ । नव्य॑म् ॥उशन्ता । दूता । न । दभाय । गोपा । मासः । च । पाथः । शरदः । च । पूर्वीः ।
इन्द्रवायू इति । सुऽस्तुतिः । वाम् । इयाना । मार्डीकम् । ईट्टे । सुवितम् । च । नव्यम् ॥uśántā ǀ dūtā́ ǀ ná ǀ dábhāya ǀ gopā́ ǀ māsáḥ ǀ ca ǀ pātháḥ ǀ śarádaḥ ǀ ca ǀ pūrvī́ḥ ǀ
índravāyū íti ǀ su-stutíḥ ǀ vām ǀ iyānā́ ǀ mārḍīkám ǀ īṭṭe ǀ suvitám ǀ ca ǀ návyam ǁuśantā ǀ dūtā ǀ na ǀ dabhāya ǀ gopā ǀ māsaḥ ǀ ca ǀ pāthaḥ ǀ śaradaḥ ǀ ca ǀ pūrvīḥ ǀ
indravāyū iti ǀ su-stutiḥ ǀ vām ǀ iyānā ǀ mārḍīkam ǀ īṭṭe ǀ suvitam ǀ ca ǀ navyam ǁ7.91.2 Aṣṭaka 5.6.13.2Anuvāka 7.6.9
-
Ṛk 3
पीवो॑अन्नान्रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥पीवोअन्नां रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः |
ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ||pī́voannānrayivṛ́dhaḥ sumedhā́ḥ śvetáḥ siṣakti niyútāmabhiśrī́ḥ ǀ
té vāyáve sámanaso ví tasthurvíśvénnáraḥ svapatyā́ni cakruḥ ǁpīvoannāṃ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ |
te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ ||पीवः॑ऽअन्नान् । र॒यि॒ऽवृधः॑ । सु॒ऽमे॒धाः । श्वे॒तः । सि॒स॒क्ति॒ । नि॒ऽयुता॑म् । अ॒भि॒ऽश्रीः ।
ते । वा॒यवे॑ । सऽम॑नसः । वि । त॒स्थुः॒ । विश्वा॑ । इत् । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः॒ ॥पीवःऽअन्नान् । रयिऽवृधः । सुऽमेधाः । श्वेतः । सिसक्ति । निऽयुताम् । अभिऽश्रीः ।
ते । वायवे । सऽमनसः । वि । तस्थुः । विश्वा । इत् । नरः । सुऽअपत्यानि । चक्रुः ॥pī́vaḥ-annān ǀ rayi-vṛ́dhaḥ ǀ su-medhā́ḥ ǀ śvetáḥ ǀ sisakti ǀ ni-yútām ǀ abhi-śrī́ḥ ǀ
té ǀ vāyáve ǀ sá-manasaḥ ǀ ví ǀ tasthuḥ ǀ víśvā ǀ ít ǀ náraḥ ǀ su-apatyā́ni ǀ cakruḥ ǁpīvaḥ-annān ǀ rayi-vṛdhaḥ ǀ su-medhāḥ ǀ śvetaḥ ǀ sisakti ǀ ni-yutām ǀ abhi-śrīḥ ǀ
te ǀ vāyave ǀ sa-manasaḥ ǀ vi ǀ tasthuḥ ǀ viśvā ǀ it ǀ naraḥ ǀ su-apatyāni ǀ cakruḥ ǁ7.91.3 Aṣṭaka 5.6.13.3Anuvāka 7.6.10
-
Ṛk 4
याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः ।
शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इंद्र॑वायू॒ सद॑तं ब॒र्हिरेदं ॥यावत् तरस् तन्वो यावद् ओजो यावन् नरश् चक्षसा दीध्यानाः |
शुचिं सोमं शुचिपा पातम् अस्मे इन्द्रवायू सदतम् बर्हिर् एदम् ||yā́vattárastanvo yā́vadójo yā́vannáraścákṣasā dī́dhyānāḥ ǀ
śúcim sómam śucipā pātamasmé índravāyū sádatam barhírédám ǁyāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ |
śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam ||याव॑त् । तरः॑ । त॒न्वः॑ । याव॑त् । ओजः॑ । याव॑त् । नरः॑ । चक्ष॑सा । दीध्या॑नाः ।
शुचि॑म् । सोम॑म् । शु॒चि॒ऽपा॒ । पा॒त॒म् । अ॒स्मे इति॑ । इन्द्र॑वायू॒ इति॑ । सद॑तम् । ब॒र्हिः । आ । इ॒दम् ॥यावत् । तरः । तन्वः । यावत् । ओजः । यावत् । नरः । चक्षसा । दीध्यानाः ।
शुचिम् । सोमम् । शुचिऽपा । पातम् । अस्मे इति । इन्द्रवायू इति । सदतम् । बर्हिः । आ । इदम् ॥yā́vat ǀ táraḥ ǀ tanváḥ ǀ yā́vat ǀ ójaḥ ǀ yā́vat ǀ náraḥ ǀ cákṣasā ǀ dī́dhyānāḥ ǀ
śúcim ǀ sómam ǀ śuci-pā ǀ pātam ǀ asmé íti ǀ índravāyū íti ǀ sádatam ǀ barhíḥ ǀ ā́ ǀ idám ǁyāvat ǀ taraḥ ǀ tanvaḥ ǀ yāvat ǀ ojaḥ ǀ yāvat ǀ naraḥ ǀ cakṣasā ǀ dīdhyānāḥ ǀ
śucim ǀ somam ǀ śuci-pā ǀ pātam ǀ asme iti ǀ indravāyū iti ǀ sadatam ǀ barhiḥ ǀ ā ǀ idam ǁ7.91.4 Aṣṭaka 5.6.13.4Anuvāka 7.6.11
-
Ṛk 5
नि॒यु॒वा॒ना नि॒युतः॑ स्पा॒र्हवी॑रा॒ इंद्र॑वायू स॒रथं॑ यातम॒र्वाक् ।
इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ॥नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातम् अर्वाक् |
इदं हि वाम् प्रभृतम् मध्वो अग्रम् अध प्रीणाना वि मुमुक्तम् अस्मे ||niyuvānā́ niyútaḥ spārhávīrā índravāyū sarátham yātamarvā́k ǀ
idám hí vām prábhṛtam mádhvo ágramádha prīṇānā́ ví mumuktamasmé ǁniyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk |
idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme ||नि॒ऽयु॒वा॒ना । नि॒ऽयुतः॑ । स्पा॒र्हऽवी॑राः । इन्द्र॑वायू॒ इति॑ । स॒ऽरथ॑म् । या॒त॒म् । अ॒र्वाक् ।
इ॒दम् । हि । वा॒म् । प्रऽभृ॑तम् । मध्वः॑ । अग्र॑म् । अध॑ । प्री॒णा॒ना । वि । मु॒मु॒क्त॒म् । अ॒स्मे इति॑ ॥निऽयुवाना । निऽयुतः । स्पार्हऽवीराः । इन्द्रवायू इति । सऽरथम् । यातम् । अर्वाक् ।
इदम् । हि । वाम् । प्रऽभृतम् । मध्वः । अग्रम् । अध । प्रीणाना । वि । मुमुक्तम् । अस्मे इति ॥ni-yuvānā́ ǀ ni-yútaḥ ǀ spārhá-vīrāḥ ǀ índravāyū íti ǀ sa-rátham ǀ yātam ǀ arvā́k ǀ
idám ǀ hí ǀ vām ǀ prá-bhṛtam ǀ mádhvaḥ ǀ ágram ǀ ádha ǀ prīṇānā́ ǀ ví ǀ mumuktam ǀ asmé íti ǁni-yuvānā ǀ ni-yutaḥ ǀ spārha-vīrāḥ ǀ indravāyū iti ǀ sa-ratham ǀ yātam ǀ arvāk ǀ
idam ǀ hi ǀ vām ǀ pra-bhṛtam ǀ madhvaḥ ǀ agram ǀ adha ǀ prīṇānā ǀ vi ǀ mumuktam ǀ asme iti ǁ7.91.5 Aṣṭaka 5.6.13.5Anuvāka 7.6.12
-
Ṛk 6
या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिंद्र॑वायू वि॒श्ववा॑राः॒ सचं॑ते ।
आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्वः॑ ॥या वां शतं नियुतो याः सहस्रम् इन्द्रवायू विश्ववाराः सचन्ते |
आभिर् यातं सुविदत्राभिर् अर्वाक् पातं नरा प्रतिभृतस्य मध्वः ||yā́ vām śatám niyúto yā́ḥ sahásramíndravāyū viśvávārāḥ sácante ǀ
ā́bhiryātam suvidátrābhirarvā́kpātám narā prátibhṛtasya mádhvaḥ ǁyā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante |
ābhir yātaṃ suvidatrābhir arvāk pātaṃ narā pratibhṛtasya madhvaḥ ||याः । वा॒म् । श॒तम् । नि॒ऽयुतः॑ । याः । स॒हस्र॑म् । इन्द्र॑वायू॒ इति॑ । वि॒श्वऽवा॑राः । सच॑न्ते ।
आ । आ॒भिः॒ । या॒त॒म् । सु॒ऽवि॒दत्रा॑भिः । अ॒र्वाक् । पा॒तम् । न॒रा॒ । प्रति॑ऽभृतस्य । मध्वः॑ ॥याः । वाम् । शतम् । निऽयुतः । याः । सहस्रम् । इन्द्रवायू इति । विश्वऽवाराः । सचन्ते ।
आ । आभिः । यातम् । सुऽविदत्राभिः । अर्वाक् । पातम् । नरा । प्रतिऽभृतस्य । मध्वः ॥yā́ḥ ǀ vām ǀ śatám ǀ ni-yútaḥ ǀ yā́ḥ ǀ sahásram ǀ índravāyū íti ǀ viśvá-vārāḥ ǀ sácante ǀ
ā́ ǀ ābhiḥ ǀ yātam ǀ su-vidátrābhiḥ ǀ arvā́k ǀ pātám ǀ narā ǀ práti-bhṛtasya ǀ mádhvaḥ ǁyāḥ ǀ vām ǀ śatam ǀ ni-yutaḥ ǀ yāḥ ǀ sahasram ǀ indravāyū iti ǀ viśva-vārāḥ ǀ sacante ǀ
ā ǀ ābhiḥ ǀ yātam ǀ su-vidatrābhiḥ ǀ arvāk ǀ pātam ǀ narā ǀ prati-bhṛtasya ǀ madhvaḥ ǁ7.91.6 Aṣṭaka 5.6.13.6Anuvāka 7.6.13
-
Ṛk 7
���र्वं॑तो॒ न श्रव॑सो॒ भिक्ष॑माणा इंद्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।
वा॒ज॒यंतः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः |
वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ||árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhirvásiṣṭhāḥ ǀ
vājayántaḥ svávase huvema yūyám pāta svastíbhiḥ sádā naḥ ǁarvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ |
vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ ||अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।
वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुतिऽभिः । वसिष्ठाः ।
वाजऽयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥árvantaḥ ǀ ná ǀ śrávasaḥ ǀ bhíkṣamāṇāḥ ǀ indravāyū́ íti ǀ sustutí-bhiḥ ǀ vásiṣṭhāḥ ǀ
vāja-yántaḥ ǀ sú ǀ ávase ǀ huvema ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁarvantaḥ ǀ na ǀ śravasaḥ ǀ bhikṣamāṇāḥ ǀ indravāyū iti ǀ sustuti-bhiḥ ǀ vasiṣṭhāḥ ǀ
vāja-yantaḥ ǀ su ǀ avase ǀ huvema ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.91.7 Aṣṭaka 5.6.13.7Anuvāka 7.6.14
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.