Sūkta 90
- Devatā देवता
- 1-4: Vāyu; 5-7: Indra, Vāyu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 2, 7); nicṛttriṣṭup (4-6); triṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मंतः सु॒तासः॑ ।
वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यांध॑सो॒ मदा॑य ॥प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः |
वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ||prá vīrayā́ śúcayo dadrire vāmadhvaryúbhirmádhumantaḥ sutā́saḥ ǀ
váha vāyo niyúto yāhyácchā píbā sutásyā́ndhaso mádāya ǁpra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ |
vaha vāyo niyuto yāhy acchā pibā sutasyāndhaso madāya ||प्र । वी॒र॒ऽया । शुच॑यः । द॒द्रि॒रे॒ । वा॒म् । अ॒ध्व॒र्युऽभिः॑ । मधु॑ऽमन्तः । सु॒तासः॑ ।
वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अच्छ॑ । पिब॑ । सु॒तस्य॑ । अन्ध॑सः । मदा॑य ॥प्र । वीरऽया । शुचयः । दद्रिरे । वाम् । अध्वर्युऽभिः । मधुऽमन्तः । सुतासः ।
वह । वायो इति । निऽयुतः । याहि । अच्छ । पिब । सुतस्य । अन्धसः । मदाय ॥prá ǀ vīra-yā́ ǀ śúcayaḥ ǀ dadrire ǀ vām ǀ adhvaryú-bhiḥ ǀ mádhu-mantaḥ ǀ sutā́saḥ ǀ
váha ǀ vāyo íti ǀ ni-yútaḥ ǀ yāhi ǀ áccha ǀ píba ǀ sutásya ǀ ándhasaḥ ǀ mádāya ǁpra ǀ vīra-yā ǀ śucayaḥ ǀ dadrire ǀ vām ǀ adhvaryu-bhiḥ ǀ madhu-mantaḥ ǀ sutāsaḥ ǀ
vaha ǀ vāyo iti ǀ ni-yutaḥ ǀ yāhi ǀ accha ǀ piba ǀ sutasya ǀ andhasaḥ ǀ madāya ǁ7.90.1 Aṣṭaka 5.6.12.1Anuvāka 7.6.1
-
Ṛk 2
ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो ।
कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥ईशानाय प्रहुतिं यस् त आनट् छुचिं सोमं शुचिपास् तुभ्यं वायो |
कृणोषि तम् मर्त्येषु प्रशस्तं जातो-जातो जायते वाज्य् अस्य ||īśānā́ya práhutim yásta ā́naṭ chúcim sómam śucipāstúbhyam vāyo ǀ
kṛṇóṣi tám mártyeṣu praśastám jātójāto jāyate vājyásya ǁīśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo |
kṛṇoṣi tam martyeṣu praśastaṃ jāto-jāto jāyate vājy asya ||ई॒शा॒नाय॑ । प्रऽहु॑तिम् । यः । ते॒ । आन॑ट् । शुचि॑म् । सोम॑म् । शु॒चि॒ऽपाः॒ । तुभ्य॑म् । वा॒यो॒ इति॑ ।
कृ॒णोषि॑ । तम् । मर्त्ये॑षु । प्र॒ऽश॒स्तम् । जा॒तःऽजा॑तः । जा॒य॒ते॒ । वा॒जी । अ॒स्य॒ ॥ईशानाय । प्रऽहुतिम् । यः । ते । आनट् । शुचिम् । सोमम् । शुचिऽपाः । तुभ्यम् । वायो इति ।
कृणोषि । तम् । मर्त्येषु । प्रऽशस्तम् । जातःऽजातः । जायते । वाजी । अस्य ॥īśānā́ya ǀ prá-hutim ǀ yáḥ ǀ te ǀ ā́naṭ ǀ śúcim ǀ sómam ǀ śuci-pāḥ ǀ túbhyam ǀ vāyo íti ǀ
kṛṇóṣi ǀ tám ǀ mártyeṣu ǀ pra-śastám ǀ jātáḥ-jātaḥ ǀ jāyate ǀ vājī́ ǀ asya ǁīśānāya ǀ pra-hutim ǀ yaḥ ǀ te ǀ ānaṭ ǀ śucim ǀ somam ǀ śuci-pāḥ ǀ tubhyam ǀ vāyo iti ǀ
kṛṇoṣi ǀ tam ǀ martyeṣu ǀ pra-śastam ǀ jātaḥ-jātaḥ ǀ jāyate ǀ vājī ǀ asya ǁ7.90.2 Aṣṭaka 5.6.12.2Anuvāka 7.6.2
-
Ṛk 3
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वं ।
अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् |
अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ||rāyé nú yám jajñátū ródasīmé rāyé devī́ dhiṣáṇā dhāti devám ǀ
ádha vāyúm niyútaḥ saścata svā́ utá śvetám vásudhitim nireké ǁrāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam |
adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke ||रा॒ये । नु । यम् । ज॒ज्ञतुः॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । रा॒ये । दे॒वी । धि॒षणा॑ । धा॒ति॒ । दे॒वम् ।
अध॑ । वा॒युम् । नि॒ऽयुतः॑ । स॒श्च॒त॒ । स्वाः । उ॒त । श्वे॒तम् । वसु॑ऽधितिम् । नि॒रे॒के ॥राये । नु । यम् । जज्ञतुः । रोदसी इति । इमे इति । राये । देवी । धिषणा । धाति । देवम् ।
अध । वायुम् । निऽयुतः । सश्चत । स्वाः । उत । श्वेतम् । वसुऽधितिम् । निरेके ॥rāyé ǀ nú ǀ yám ǀ jajñátuḥ ǀ ródasī íti ǀ imé íti ǀ rāyé ǀ devī́ ǀ dhiṣáṇā ǀ dhāti ǀ devám ǀ
ádha ǀ vāyúm ǀ ni-yútaḥ ǀ saścata ǀ svā́ḥ ǀ utá ǀ śvetám ǀ vásu-dhitim ǀ nireké ǁrāye ǀ nu ǀ yam ǀ jajñatuḥ ǀ rodasī iti ǀ ime iti ǀ rāye ǀ devī ǀ dhiṣaṇā ǀ dhāti ǀ devam ǀ
adha ǀ vāyum ǀ ni-yutaḥ ǀ saścata ǀ svāḥ ǀ uta ǀ śvetam ǀ vasu-dhitim ǀ nireke ǁ7.90.3 Aṣṭaka 5.6.12.3Anuvāka 7.6.3
-
Ṛk 4
उ॒च्छन्नु॒षसः॑ सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः ।
गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ॥उच्छन्न् उषसः सुदिना अरिप्रा उरु ज्योतिर् विविदुर् दीध्यानाः |
गव्यं चिद् ऊर्वम् उशिजो वि वव्रुस् तेषाम् अनु प्रदिवः सस्रुर् आपः ||ucchánnuṣásaḥ sudínā ariprā́ urú jyótirvividurdī́dhyānāḥ ǀ
gávyam cidūrvámuśíjo ví vavrustéṣāmánu pradívaḥ sasrurā́paḥ ǁucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ |
gavyaṃ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ ||उ॒च्छन् । उ॒षसः॑ । सु॒ऽदिनाः॑ । अ॒रि॒प्राः । उ॒रु । ज्योतिः॑ । वि॒वि॒दुः॒ । दीध्या॑नाः ।
गव्य॑म् । चि॒त् । ऊ॒र्वम् । उ॒शिजः॑ । वि । व॒व्रुः॒ । तेषा॑म् । अनु॑ । प्र॒ऽदिवः॑ । स॒स्रुः॒ । आपः॑ ॥उच्छन् । उषसः । सुऽदिनाः । अरिप्राः । उरु । ज्योतिः । विविदुः । दीध्यानाः ।
गव्यम् । चित् । ऊर्वम् । उशिजः । वि । वव्रुः । तेषाम् । अनु । प्रऽदिवः । सस्रुः । आपः ॥ucchán ǀ uṣásaḥ ǀ su-dínāḥ ǀ ariprā́ḥ ǀ urú ǀ jyótiḥ ǀ vividuḥ ǀ dī́dhyānāḥ ǀ
gávyam ǀ cit ǀ ūrvám ǀ uśíjaḥ ǀ ví ǀ vavruḥ ǀ téṣām ǀ ánu ǀ pra-dívaḥ ǀ sasruḥ ǀ ā́paḥ ǁucchan ǀ uṣasaḥ ǀ su-dināḥ ǀ ariprāḥ ǀ uru ǀ jyotiḥ ǀ vividuḥ ǀ dīdhyānāḥ ǀ
gavyam ǀ cit ǀ ūrvam ǀ uśijaḥ ǀ vi ǀ vavruḥ ǀ teṣām ǀ anu ǀ pra-divaḥ ǀ sasruḥ ǀ āpaḥ ǁ7.90.4 Aṣṭaka 5.6.12.4Anuvāka 7.6.4
-
Ṛk 5
ते स॒त्येन॒ मन॑सा॒ दीध्या॑नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहंति ।
इंद्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्षः॑ सचंते ॥ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति |
इन्द्रवायू वीरवाहं रथं वाम् ईशानयोर् अभि पृक्षः सचन्ते ||té satyéna mánasā dī́dhyānāḥ svéna yuktā́saḥ krátunā vahanti ǀ
índravāyū vīravā́ham rátham vāmīśānáyorabhí pṛ́kṣaḥ sacante ǁte satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti |
indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante ||ते । स॒त्येन॑ । मन॑सा । दीध्या॑नाः । स्वेन॑ । यु॒क्तासः॑ । क्रतु॑ना । व॒ह॒न्ति॒ ।
इन्द्र॑वायू॒ इति॑ । वी॒र॒ऽवाह॑म् । रथ॑म् । वा॒म् । ई॒शा॒नयोः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ ॥ते । सत्येन । मनसा । दीध्यानाः । स्वेन । युक्तासः । क्रतुना । वहन्ति ।
इन्द्रवायू इति । वीरऽवाहम् । रथम् । वाम् । ईशानयोः । अभि । पृक्षः । सचन्ते ॥té ǀ satyéna ǀ mánasā ǀ dī́dhyānāḥ ǀ svéna ǀ yuktā́saḥ ǀ krátunā ǀ vahanti ǀ
índravāyū íti ǀ vīra-vā́ham ǀ rátham ǀ vām ǀ īśānáyoḥ ǀ abhí ǀ pṛ́kṣaḥ ǀ sacante ǁte ǀ satyena ǀ manasā ǀ dīdhyānāḥ ǀ svena ǀ yuktāsaḥ ǀ kratunā ǀ vahanti ǀ
indravāyū iti ǀ vīra-vāham ǀ ratham ǀ vām ǀ īśānayoḥ ǀ abhi ǀ pṛkṣaḥ ǀ sacante ǁ7.90.5 Aṣṭaka 5.6.12.5Anuvāka 7.6.5
-
Ṛk 6
ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः ।
इंद्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥ईशानासो ये दधते स्वर् णो गोभिर् अश्वेभिर् वसुभिर् हिरण्यैः |
इन्द्रवायू सूरयो विश्वम् आयुर् अर्वद्भिर् वीरैः पृतनासु सह्युः ||īśānā́so yé dádhate svárṇo góbhiráśvebhirvásubhirhíraṇyaiḥ ǀ
índravāyū sūráyo víśvamā́yurárvadbhirvīráiḥ pṛ́tanāsu sahyuḥ ǁīśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ |
indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ ||ई॒शा॒नासः॑ । ये । दध॑ते । स्वः॑ । नः॒ । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । हिर॑ण्यैः ।
इन्द्र॑वायू॒ इति॑ । सू॒रयः॑ । विश्व॑म् । आयुः॑ । अर्व॑त्ऽभिः । वी॒रैः । पृत॑नासु । स॒ह्युः॒ ॥ईशानासः । ये । दधते । स्वः । नः । गोभिः । अश्वेभिः । वसुऽभिः । हिरण्यैः ।
इन्द्रवायू इति । सूरयः । विश्वम् । आयुः । अर्वत्ऽभिः । वीरैः । पृतनासु । सह्युः ॥īśānā́saḥ ǀ yé ǀ dádhate ǀ sváḥ ǀ naḥ ǀ góbhiḥ ǀ áśvebhiḥ ǀ vásu-bhiḥ ǀ híraṇyaiḥ ǀ
índravāyū íti ǀ sūráyaḥ ǀ víśvam ǀ ā́yuḥ ǀ árvat-bhiḥ ǀ vīráiḥ ǀ pṛ́tanāsu ǀ sahyuḥ ǁīśānāsaḥ ǀ ye ǀ dadhate ǀ svaḥ ǀ naḥ ǀ gobhiḥ ǀ aśvebhiḥ ǀ vasu-bhiḥ ǀ hiraṇyaiḥ ǀ
indravāyū iti ǀ sūrayaḥ ǀ viśvam ǀ āyuḥ ǀ arvat-bhiḥ ǀ vīraiḥ ǀ pṛtanāsu ǀ sahyuḥ ǁ7.90.6 Aṣṭaka 5.6.12.6Anuvāka 7.6.6
-
Ṛk 7
अर्वं॑तो॒ न श्रव॑सो॒ भिक्ष॑माणा इंद्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।
वा॒ज॒यंतः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर् वसिष्ठाः |
वाजयन्तः स्व् अवसे हुवेम यूयम् पात स्वस्तिभिः सदा नः ||árvanto ná śrávaso bhíkṣamāṇā indravāyū́ suṣṭutíbhirvásiṣṭhāḥ ǀ
vājayántaḥ svávase huvema yūyám pāta svastíbhiḥ sádā naḥ ǁarvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ |
vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ ||अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः ।
वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुतिऽभिः । वसिष्ठाः ।
वाजऽयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥árvantaḥ ǀ ná ǀ śrávasaḥ ǀ bhíkṣamāṇāḥ ǀ indravāyū́ íti ǀ sustutí-bhiḥ ǀ vásiṣṭhāḥ ǀ
vāja-yántaḥ ǀ sú ǀ ávase ǀ huvema ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁarvantaḥ ǀ na ǀ śravasaḥ ǀ bhikṣamāṇāḥ ǀ indravāyū iti ǀ sustuti-bhiḥ ǀ vasiṣṭhāḥ ǀ
vāja-yantaḥ ǀ su ǀ avase ǀ huvema ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.90.7 Aṣṭaka 5.6.12.7Anuvāka 7.6.7
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.