Sūkta 26
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1-4); nicṛttriṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
न सोम॒ इंद्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तासः॑ ।
तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानं सुतासः |
तस्मा उक्थं जनये यज् जुजोषन् नृवन् नवीयः शृणवद् यथा नः ||ná sóma índramásuto mamāda nā́brahmāṇo maghávānam sutā́saḥ ǀ
tásmā ukthám janaye yájjújoṣannṛvánnávīyaḥ śṛṇávadyáthā naḥ ǁna soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ |
tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ ||न । सोमः॑ । इन्द्र॑म् । असु॑तः । म॒मा॒द॒ । न । अब्र॑ह्माणः । म॒घऽवा॑नम् । सु॒तासः॑ ।
तस्मै॑ । उ॒क्थम् । ज॒न॒ये॒ । यत् । जुजो॑षत् । नृ॒ऽवत् । नवी॑यः । शृ॒णव॑त् । यथा॑ । नः॒ ॥न । सोमः । इन्द्रम् । असुतः । ममाद । न । अब्रह्माणः । मघऽवानम् । सुतासः ।
तस्मै । उक्थम् । जनये । यत् । जुजोषत् । नृऽवत् । नवीयः । शृणवत् । यथा । नः ॥ná ǀ sómaḥ ǀ índram ǀ ásutaḥ ǀ mamāda ǀ ná ǀ ábrahmāṇaḥ ǀ maghá-vānam ǀ sutā́saḥ ǀ
tásmai ǀ ukthám ǀ janaye ǀ yát ǀ jújoṣat ǀ nṛ-vát ǀ návīyaḥ ǀ śṛṇávat ǀ yáthā ǀ naḥ ǁna ǀ somaḥ ǀ indram ǀ asutaḥ ǀ mamāda ǀ na ǀ abrahmāṇaḥ ǀ magha-vānam ǀ sutāsaḥ ǀ
tasmai ǀ uktham ǀ janaye ǀ yat ǀ jujoṣat ǀ nṛ-vat ǀ navīyaḥ ǀ śṛṇavat ǀ yathā ǀ naḥ ǁ7.26.1 Aṣṭaka 5.3.10.1Anuvāka 7.2.84
-
Ṛk 2
उ॒क्थौ॑क्थे॒ सोम॒ इंद्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तासः॑ ।
यदीं॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हवं॑ते ॥उक्थ-उक्थे सोम इन्द्रम् ममाद नीथे-नीथे मघवानं सुतासः |
यद् ईं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ||uktháukthe sóma índram mamāda nīthénīthe maghávānam sutā́saḥ ǀ
yádīm sabā́dhaḥ pitáram ná putrā́ḥ samānádakṣā ávase hávante ǁuktha-ukthe soma indram mamāda nīthe-nīthe maghavānaṃ sutāsaḥ |
yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante ||उ॒क्थेऽउ॑क्थे । सोमः॑ । इन्द्र॑म् । म॒मा॒द॒ । नी॒थेऽनी॑थे । म॒घऽवा॑नम् । सु॒तासः॑ ।
यत् । ई॒म् । स॒ऽबाधः॑ । पि॒तर॑म् । न । पु॒त्राः । स॒मा॒नऽद॑क्षाः । अव॑से । हव॑न्ते ॥उक्थेऽउक्थे । सोमः । इन्द्रम् । ममाद । नीथेऽनीथे । मघऽवानम् । सुतासः ।
यत् । ईम् । सऽबाधः । पितरम् । न । पुत्राः । समानऽदक्षाः । अवसे । हवन्ते ॥ukthé-ukthe ǀ sómaḥ ǀ índram ǀ mamāda ǀ nīthé-nīthe ǀ maghá-vānam ǀ sutā́saḥ ǀ
yát ǀ īm ǀ sa-bā́dhaḥ ǀ pitáram ǀ ná ǀ putrā́ḥ ǀ samāná-dakṣāḥ ǀ ávase ǀ hávante ǁukthe-ukthe ǀ somaḥ ǀ indram ǀ mamāda ǀ nīthe-nīthe ǀ magha-vānam ǀ sutāsaḥ ǀ
yat ǀ īm ǀ sa-bādhaḥ ǀ pitaram ǀ na ǀ putrāḥ ǀ samāna-dak��āḥ ǀ avase ǀ havante ǁ7.26.2 Aṣṭaka 5.3.10.2Anuvāka 7.2.85
-
Ṛk 3
च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वंति॑ वे॒धसः॑ सु॒तेषु॑ ।
जनी॑रिव॒ पति॒रेकः॑ समा॒नो नि मा॑मृजे॒ पुर॒ इंद्रः॒ सु सर्वाः॑ ॥चकार ता कृणवन् नूनम् अन्या यानि ब्रुवन्ति वेधसः सुतेषु |
जनीर् इव पतिर् एकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ||cakā́ra tā́ kṛṇávannūnámanyā́ yā́ni bruvánti vedhásaḥ sutéṣu ǀ
jánīriva pátirékaḥ samānó ní māmṛje púra índraḥ sú sárvāḥ ǁcakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu |
janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ ||च॒कार॑ । ता । कृ॒णव॑त् । नू॒नम् । अ॒न्या । यानि॑ । ब्रु॒वन्ति॑ । वे॒धसः॑ । सु॒तेषु॑ ।
जनीः॑ऽइव । पतिः॑ । एकः॑ । स॒मा॒नः । नि । म॒मृ॒जे॒ । पुरः॑ । इन्द्रः॑ । सु । सर्वाः॑ ॥चकार । ता । कृणवत् । नूनम् । अन्या । यानि । ब्रुवन्ति । वेधसः । सुतेषु ।
जनीःऽइव । पतिः । एकः । समानः । नि । ममृजे । पुरः । इन्द्रः । सु । सर्वाः ॥cakā́ra ǀ tā́ ǀ kṛṇávat ǀ nūnám ǀ anyā́ ǀ yā́ni ǀ bruvánti ǀ vedhásaḥ ǀ sutéṣu ǀ
jánīḥ-iva ǀ pátiḥ ǀ ékaḥ ǀ samānáḥ ǀ ní ǀ mamṛje ǀ púraḥ ǀ índraḥ ǀ sú ǀ sárvāḥ ǁcakāra ǀ tā ǀ kṛṇavat ǀ nūnam ǀ anyā ǀ yāni ǀ bruvanti ǀ vedhasaḥ ǀ suteṣu ǀ
janīḥ-iva ǀ patiḥ ǀ ekaḥ ǀ samānaḥ ǀ ni ǀ mamṛje ǀ puraḥ ǀ indraḥ ǀ su ǀ sarvāḥ ǁ7.26.3 Aṣṭaka 5.3.10.3Anuvāka 7.2.86
-
Ṛk 4
ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इंद्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घानां॑ ।
मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥एवा तम् आहुर् उत शृण्व इन्द्र एको विभक्ता तरणिर् मघानाम् |
मिथस्तुर ऊतयो यस्य पूर्वीर् अस्मे भद्राणि सश्चत प्रियाणि ||evā́ támāhurutá śṛṇva índra éko vibhaktā́ taráṇirmaghā́nām ǀ
mithastúra ūtáyo yásya pūrvī́rasmé bhadrā́ṇi saścata priyā́ṇi ǁevā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām |
mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi ||ए॒व । तम् । आ॒हुः॒ । उ॒त । शृ॒ण्वे॒ । इन्द्रः॑ । एकः॑ । वि॒ऽभ॒क्ता । त॒रणिः॑ । म॒घाना॑म् ।
मि॒थः॒ऽतुरः॑ । ऊ॒तयः॑ । यस्य॑ । पू॒र्वीः । अ॒स्मे इति॑ । भ॒द्राणि॑ । स॒श्च॒त॒ । प्रि॒याणि॑ ॥एव । तम् । आहुः । उत । शृण्वे । इन्द्रः । एकः । विऽभक्ता । तरणिः । मघानाम् ।
मिथःऽतुरः । ऊतयः । यस्य । पूर्वीः । अस्मे इति । भद्राणि । सश्चत । प्रियाणि ॥evá ǀ tám ǀ āhuḥ ǀ utá ǀ śṛṇve ǀ índraḥ ǀ ékaḥ ǀ vi-bhaktā́ ǀ taráṇiḥ ǀ maghā́nām ǀ
mithaḥ-túraḥ ǀ ūtáyaḥ ǀ yásya ǀ pūrvī́ḥ ǀ asmé íti ǀ bhadrā́ṇi ǀ saścata ǀ priyā́ṇi ǁeva ǀ tam ǀ āhuḥ ǀ uta ǀ śṛṇve ǀ indraḥ ǀ ekaḥ ǀ vi-bhaktā ǀ taraṇiḥ ǀ maghānām ǀ
mithaḥ-turaḥ ǀ ūtayaḥ ǀ yasya ǀ pūrvīḥ ǀ asme iti ǀ bhadrāṇi ǀ saścata ǀ priyāṇi ǁ7.26.4 Aṣṭaka 5.3.10.4Anuvāka 7.2.87
-
Ṛk 5
ए॒वा वसि॑ष्ठ॒ इंद्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति ।
स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥एवा वसिष्ठ इन्द्रम् ऊतये नॄन् कृष्टीनां वृषभं सुते गृणाति |
सहस्रिण उप नो माहि वाजान् यूयम् पात स्वस्तिभिः सदा नः ||evā́ vásiṣṭha índramūtáye nṝ́nkṛṣṭīnā́m vṛṣabhám suté gṛṇāti ǀ
sahasríṇa úpa no māhi vā́jānyūyám pāta svastíbhiḥ sádā naḥ ǁevā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti |
sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ ||ए॒व । वसि॑ष्ठः । इन्द्र॑म् । ऊ॒तये॑ । नॄन् । कृ॒ष्टी॒नाम् । वृ॒ष॒भम् । सु॒ते । गृ॒णा॒ति॒ ।
स॒ह॒स्रिणः॑ । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । वसिष्ठः । इन्द्रम् । ऊतये । नॄन् । कृष्टीनाम् । वृषभम् । सुते । गृणाति ।
सहस्रिणः । उप । नः । माहि । वाजान् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥evá ǀ vásiṣṭhaḥ ǀ índram ǀ ūtáye ǀ nṝ́n ǀ kṛṣṭīnā́m ǀ vṛṣabhám ǀ suté ǀ gṛṇāti ǀ
sahasríṇaḥ ǀ úpa ǀ naḥ ǀ māhi ǀ vā́jān ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁeva ǀ vasiṣṭhaḥ ǀ indram ǀ ūtaye ǀ nṝn ǀ kṛṣṭīnām ǀ vṛṣabham ǀ sute ǀ gṛṇāti ǀ
sahasriṇaḥ ǀ upa ǀ naḥ ǀ māhi ǀ vājān ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.26.5 Aṣṭaka 5.3.10.5Anuvāka 7.2.88
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.