Ṛk 7.26.1
Saṃhitā
न सोम॒ इंद्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तासः॑ ।
तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥
न सोम इन्द्रम् असुतो ममाद नाब्रह्माणो मघवानं सुतासः |
तस्मा उक्थं जनये यज् जुजोषन् नृवन् नवीयः शृणवद् यथा नः ||
ná sóma índramásuto mamāda nā́brahmāṇo maghávānam sutā́saḥ ǀ
tásmā ukthám janaye yájjújoṣannṛvánnávīyaḥ śṛṇávadyáthā naḥ ǁ
na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ |
tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ ||
Padapāṭha
न । सोमः॑ । इन्द्र॑म् । असु॑तः । म॒मा॒द॒ । न । अब्र॑ह्माणः । म॒घऽवा॑नम् । सु॒तासः॑ ।
तस्मै॑ । उ॒क्थम् । ज॒न॒ये॒ । यत् । जुजो॑षत् । नृ॒ऽवत् । नवी॑यः । शृ॒णव॑त् । यथा॑ । नः॒ ॥
न । सोमः । इन्द्रम् । असुतः । ममाद । न । अब्रह्माणः । मघऽवानम् । सुतासः ।
तस्मै । उक्थम् । जनये । यत् । जुजोषत् । नृऽवत् । नवीयः । शृणवत् । यथा । नः ॥
ná ǀ sómaḥ ǀ índram ǀ ásutaḥ ǀ mamāda ǀ ná ǀ ábrahmāṇaḥ ǀ maghá-vānam ǀ sutā́saḥ ǀ
tásmai ǀ ukthám ǀ janaye ǀ yát ǀ jújoṣat ǀ nṛ-vát ǀ návīyaḥ ǀ śṛṇávat ǀ yáthā ǀ naḥ ǁ
na ǀ somaḥ ǀ indram ǀ asutaḥ ǀ mamāda ǀ na ǀ abrahmāṇaḥ ǀ magha-vānam ǀ sutāsaḥ ǀ
tasmai ǀ uktham ǀ janaye ǀ yat ǀ jujoṣat ǀ nṛ-vat ǀ navīyaḥ ǀ śṛṇavat ǀ yathā ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.026.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.10.01
- Maṇḍala · Anuvāka · Ṛk
- 07.02.084
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.