Ṛgveda · Maṇḍala 7

Sūkta 32

Indra · 1-25, 27: Vasiṣṭha Maitrāvaruṇi; 26: Śakti Vāsiṣṭha (A); Vasiṣṭha Maitrāvaruṇi Or Śakti Vāsiṣṭha (B) · 27 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
1-25, 27: Vasiṣṭha Maitrāvaruṇi; 26: Śakti Vāsiṣṭha (A); Vasiṣṭha Maitrāvaruṇi Or Śakti Vāsiṣṭha (B)
Chandas छन्दस्
Satobṛhatī, Bṛhatī, Dvipadā Virāj
Metres by ṛk

1st set of styles nicṛdbṛhatī (6, 8, 12, 16, 18, 26); nicṛtpaṅkti (5, 13, 15, 19, 23); virāḍabṛhatī (1, 4, 24); paṅktiḥ (2, 9); bhuriganuṣṭup (10, 14); bṛhatī (11, 27); bhurigbṛhatī (17, 25); svarāḍanuṣṭup (20, 22); sāmnīpaṅkti (3); virāṭpaṅkti (7); svarāḍbṛhatī (21)

2nd set of styles satobṛhatī (1, 5, 7, 9, 11, 13, 15, 17, 19, 21, 23, 25, 27); bṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 24, 26); dvipadā virāj (3)

  1. Ṛk 1

    मो षु त्वा॑ वा॒घत॑श्च॒नारे अ॒स्मन्नि री॑रमन् ।
    आ॒रात्ता॑च्चित्सध॒मादं॑ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ॥

    मो षु त्वा वाघतश् चनारे अस्मन् नि रीरमन् |
    आरात्ताच् चित् सधमादं न आ गहीह वा सन्न् उप श्रुधि ||

    mó ṣú tvā vāghátaścanā́ré asmánní rīraman ǀ
    ārā́ttāccitsadhamā́dam na ā́ gahīhá vā sánnúpa śrudhi ǁ

    mo ṣu tvā vāghataś canāre asman ni rīraman |
    ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi ||

    मो इति॑ । सु । त्वा॒ । वा॒घतः॑ । च॒न । आ॒रे । अ॒स्मत् । नि । री॒र॒म॒न् ।
    आ॒रात्ता॑त् । चि॒त् । स॒ध॒ऽमाद॑म् । नः॒ । आ । ग॒हि॒ । इ॒ह । वा॒ । सन् । उप॑ । श्रु॒धि॒ ॥

    मो इति । सु । त्वा । वाघतः । चन । आरे । अस्मत् । नि । रीरमन् ।
    आरात्तात् । चित् । सधऽमादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥

    mó íti ǀ sú ǀ tvā ǀ vāghátaḥ ǀ caná ǀ āré ǀ asmát ǀ ní ǀ rīraman ǀ
    ārā́ttāt ǀ cit ǀ sadha-mā́dam ǀ naḥ ǀ ā́ ǀ gahi ǀ ihá ǀ vā ǀ sán ǀ úpa ǀ śrudhi ǁ

    mo iti ǀ su ǀ tvā ǀ vāghataḥ ǀ cana ǀ āre ǀ asmat ǀ ni ǀ rīraman ǀ
    ārāttāt ǀ cit ǀ sadha-mādam ǀ naḥ ǀ ā ǀ gahi ǀ iha ǀ vā ǀ san ǀ upa ǀ śrudhi ǁ

    7.32.1 Aṣṭaka 5.3.17.1Anuvāka 7.2.121

  2. Ṛk 2

    इ॒मे हि ते॑ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते ।
    इंद्रे॒ कामं॑ जरि॒तारो॑ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ॥

    इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते |
    इन्द्रे कामं जरितारो वसूयवो रथे न पादम् आ दधुः ||

    imé hí te brahmakṛ́taḥ suté sácā mádhau ná mákṣa ā́sate ǀ
    índre kā́mam jaritā́ro vasūyávo ráthe ná pā́damā́ dadhuḥ ǁ

    ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate |
    indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ ||

    इ॒मे । हि । ते॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । मधौ॑ । न । मक्षः॑ । आस॑ते ।
    इन्द्रे॑ । काम॑म् । ज॒रि॒तारः॑ । व॒सु॒ऽयवः॑ । रथे॑ । न । पाद॑म् । आ । द॒धुः॒ ॥

    इमे । हि । ते । ब्रह्मऽकृतः । सुते । सचा । मधौ । न । मक्षः । आसते ।
    इन्द्रे । कामम् । जरितारः । वसुऽयवः । रथे । न । पादम् । आ । दधुः ॥

    imé ǀ hí ǀ te ǀ brahma-kṛ́taḥ ǀ suté ǀ sácā ǀ mádhau ǀ ná ǀ mákṣaḥ ǀ ā́sate ǀ
    índre ǀ kā́mam ǀ jaritā́raḥ ǀ vasu-yávaḥ ǀ ráthe ǀ ná ǀ pā́dam ǀ ā́ ǀ dadhuḥ ǁ

    ime ǀ hi ǀ te ǀ brahma-kṛtaḥ ǀ sute ǀ sacā ǀ madhau ǀ na ǀ makṣaḥ ǀ āsate ǀ
    indre ǀ kāmam ǀ jaritāraḥ ǀ vasu-yavaḥ ǀ rathe ǀ na ǀ pādam ǀ ā ǀ dadhuḥ ǁ

    7.32.2 Aṣṭaka 5.3.17.2Anuvāka 7.2.122

  3. Ṛk 3

    रा॒यस्का॑मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं॑ हुवे ॥

    रायस्कामो वज्रहस्तं सुदक्षिणम् पुत्रो न पितरं हुवे ||

    rāyáskāmo vájrahastam sudákṣiṇam putró ná pitáram huve ǁ

    rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve ||

    रा॒यःऽका॑मः । वज्र॑ऽहस्तम् । सु॒ऽदक्षि॑णम् । पु॒त्रः । न । पि॒तर॑म् । हु॒वे॒ ॥

    रायःऽकामः । वज्रऽहस्तम् । सुऽदक्षिणम् । पुत्रः । न । पितरम् । हुवे ॥

    rāyáḥ-kāmaḥ ǀ vájra-hastam ǀ su-dákṣiṇam ǀ putráḥ ǀ ná ǀ pitáram ǀ huve ǁ

    rāyaḥ-kāmaḥ ǀ vajra-hastam ǀ su-dakṣiṇam ǀ putraḥ ǀ na ǀ pitaram ǀ huve ǁ

    7.32.3 Aṣṭaka 5.3.17.3Anuvāka 7.2.123

  4. Ṛk 4

    इ॒म इंद्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः ।
    ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥

    इम इन्द्राय सुन्विरे सोमासो दध्याशिरः |
    तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्य् ओक आ ||

    imá índrāya sunvire sómāso dádhyāśiraḥ ǀ
    tā́m̐ ā́ mádāya vajrahasta pītáye háribhyām yāhyóka ā́ ǁ

    ima indrāya sunvire somāso dadhyāśiraḥ |
    tāṃ ā madāya vajrahasta pītaye haribhyāṃ yāhy oka ā ||

    इ॒मे । इन्द्रा॑य । सु॒न्वि॒रे॒ । सोमा॑सः । दधि॑ऽआशिरः ।
    तान् । आ । मदा॑य । व॒ज्र॒ऽह॒स्त॒ । पी॒तये॑ । हरि॑ऽभ्याम् । या॒हि॒ । ओकः॑ । आ ॥

    इमे । इन्द्राय । सुन्विरे । सोमासः । दधिऽआशिरः ।
    तान् । आ । मदाय । वज्रऽहस्त । पीतये । हरिऽभ्याम् । याहि । ओकः । आ ॥

    imé ǀ índrāya ǀ sunvire ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ
    tā́n ǀ ā́ ǀ mádāya ǀ vajra-hasta ǀ pītáye ǀ hári-bhyām ǀ yāhi ǀ ókaḥ ǀ ā́ ǁ

    ime ǀ indrāya ǀ sunvire ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ
    tān ǀ ā ǀ madāya ǀ vajra-hasta ǀ pītaye ǀ hari-bhyām ǀ yāhi ǀ okaḥ ǀ ā ǁ

    7.32.4 Aṣṭaka 5.3.17.4Anuvāka 7.2.124

  5. Ṛk 5

    श्रव॒च्छ्रुत्क॑र्ण ईयते॒ वसू॑नां॒ नू चि॑न्नो मर्धिष॒द्गिरः॑ ।
    स॒द्यश्चि॒द्यः स॒हस्रा॑णि श॒ता दद॒न्नकि॒र्दित्सं॑त॒मा मि॑नत् ॥

    श्रवच् छ्रुत्कर्ण ईयते वसूनां नू चिन् नो मर्धिषद् गिरः |
    सद्यश् चिद् यः सहस्राणि शता ददन् नकिर् दित्सन्तम् आ मिनत् ||

    śrávacchrútkarṇa īyate vásūnām nū́ cinno mardhiṣadgíraḥ ǀ
    sadyáścidyáḥ sahásrāṇi śatā́ dádannákirdítsantamā́ minat ǁ

    śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ |
    sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat ||

    श्रव॑त् । श्रुत्ऽक॑र्णः । ई॒य॒ते॒ । वसू॑नाम् । नु । चि॒त् । नः॒ । म॒र्धि॒ष॒त् । गिरः॑ ।
    स॒द्यः । चि॒त् । यः । स॒हस्रा॑णि । स॒ता । दद॑त् । नकिः॑ । दित्स॑न्तम् । आ । मि॒न॒त् ॥

    श्रवत् । श्रुत्ऽकर्णः । ईयते । वसूनाम् । नु । चित् । नः । मर्धिषत् । गिरः ।
    सद्यः । चित् । यः । सहस्राणि । सता । ददत् । नकिः । दित्सन्तम् । आ । मिनत् ॥

    śrávat ǀ śrút-karṇaḥ ǀ īyate ǀ vásūnām ǀ nú ǀ cit ǀ naḥ ǀ mardhiṣat ǀ gíraḥ ǀ
    sadyáḥ ǀ cit ǀ yáḥ ǀ sahásrāṇi ǀ satā́ ǀ dádat ǀ nákiḥ ǀ dítsantam ǀ ā́ ǀ minat ǁ

    śravat ǀ śrut-karṇaḥ ǀ īyate ǀ vasūnām ǀ nu ǀ cit ǀ naḥ ǀ mardhiṣat ǀ giraḥ ǀ
    sadyaḥ ǀ cit ǀ yaḥ ǀ sahasrāṇi ǀ satā ǀ dadat ǀ nakiḥ ǀ ditsantam ǀ ā ǀ minat ǁ

    7.32.5 Aṣṭaka 5.3.17.5Anuvāka 7.2.125

  6. Ṛk 6

    स वी॒रो अप्र॑तिष्कुत॒ इंद्रे॑ण शूशुवे॒ नृभिः॑ ।
    यस्ते॑ गभी॒रा सव॑नानि वृत्रहन्त्सु॒नोत्या च॒ धाव॑ति ॥

    स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः |
    यस् ते गभीरा सवनानि वृत्रहन् सुनोत्य् आ च धावति ||

    sá vīró ápratiṣkuta índreṇa śūśuve nṛ́bhiḥ ǀ
    yáste gabhīrā́ sávanāni vṛtrahantsunótyā́ ca dhā́vati ǁ

    sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ |
    yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati ||

    सः । वी॒रः । अप्र॑तिऽस्कुतः । इन्द्रे॑ण । शू॒शु॒वे॒ । नृऽभिः॑ ।
    यः । ते॒ । ग॒भी॒रा । सव॑नानि । वृ॒त्र॒ऽह॒न् । सु॒नोति॑ । आ । च॒ । धाव॑ति ॥

    सः । वीरः । अप्रतिऽस्कुतः । इन्द्रेण । शूशुवे । नृऽभिः ।
    यः । ते । गभीरा । सवनानि । वृत्रऽहन् । सुनोति । आ । च । धावति ॥

    sáḥ ǀ vīráḥ ǀ áprati-skutaḥ ǀ índreṇa ǀ śūśuve ǀ nṛ́-bhiḥ ǀ
    yáḥ ǀ te ǀ gabhīrā́ ǀ sávanāni ǀ vṛtra-han ǀ sunóti ǀ ā́ ǀ ca ǀ dhā́vati ǁ

    saḥ ǀ vīraḥ ǀ aprati-skutaḥ ǀ indreṇa ǀ śūśuve ǀ nṛ-bhiḥ ǀ
    yaḥ ǀ te ǀ gabhīrā ǀ savanāni ǀ vṛtra-han ǀ sunoti ǀ ā ǀ ca ǀ dhāvati ǁ

    7.32.6 Aṣṭaka 5.3.18.1Anuvāka 7.2.126

  7. Ṛk 7

    भवा॒ वरू॑थं मघवन्म॒घोनां॒ यत्स॒मजा॑सि॒ शर्ध॑तः ।
    वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो॑ भरा॒ गयं॑ ॥

    भवा वरूथम् मघवन् मघोनां यत् समजासि शर्धतः |
    वि त्वाहतस्य वेदनम् भजेमह्य् आ दूणाशो भरा गयम् ||

    bhávā várūtham maghavanmaghónām yátsamájāsi śárdhataḥ ǀ
    ví tvā́hatasya védanam bhajemahyā́ dūṇā́śo bharā gáyam ǁ

    bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ |
    vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam ||

    भव॑ । वरू॑थम् । म॒घ॒ऽव॒न् । म॒घोना॑म् । यत् । स॒म्ऽअजा॑सि । शर्ध॑तः ।
    वि । त्वाऽह॑तस्य । वेद॑नम् । भ॒जे॒म॒हि॒ । आ । दुः॒ऽनशः॑ । भ॒र॒ । गय॑म् ॥

    भव । वरूथम् । मघऽवन् । मघोनाम् । यत् । सम्ऽअजासि । शर्धतः ।
    वि । त्वाऽहतस्य । वेदनम् । भजेमहि । आ । दुःऽनशः । भर । गयम् ॥

    bháva ǀ várūtham ǀ magha-van ǀ maghónām ǀ yát ǀ sam-ájāsi ǀ śárdhataḥ ǀ
    ví ǀ tvā́-hatasya ǀ védanam ǀ bhajemahi ǀ ā́ ǀ duḥ-náśaḥ ǀ bhara ǀ gáyam ǁ

    bhava ǀ varūtham ǀ magha-van ǀ maghonām ǀ yat ǀ sam-ajāsi ǀ śardhataḥ ǀ
    vi ǀ tvā-hatasya ǀ vedanam ǀ bhajemahi ǀ ā ǀ duḥ-naśaḥ ǀ bhara ǀ gayam ǁ

    7.32.7 Aṣṭaka 5.3.18.2Anuvāka 7.2.127

  8. Ṛk 8

    सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिंद्रा॑य व॒ज्रिणे॑ ।
    पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मयः॑ ॥

    सुनोता सोमपाव्ने सोमम् इन्द्राय वज्रिणे |
    पचता पक्तीर् अवसे कृणुध्वम् इत् पृणन्न् इत् पृणते मयः ||

    sunótā somapā́vne sómamíndrāya vajríṇe ǀ
    pácatā paktī́rávase kṛṇudhvámítpṛṇánnítpṛṇaté máyaḥ ǁ

    sunotā somapāvne somam indrāya vajriṇe |
    pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ ||

    सु॒नोत॑ । सो॒म॒ऽपाव्ने॑ । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।
    पच॑त । प॒क्तीः । अव॑से । कृ॒णु॒ध्वम् । इत् । पृ॒णन् । इत् । पृ॒ण॒ते । मयः॑ ॥

    सुनोत । सोमऽपाव्ने । सोमम् । इन्द्राय । वज्रिणे ।
    पचत । पक्तीः । अवसे । कृणुध्वम् । इत् । पृणन् । इत् । पृणते । मयः ॥

    sunóta ǀ soma-pā́vne ǀ sómam ǀ índrāya ǀ vajríṇe ǀ
    pácata ǀ paktī́ḥ ǀ ávase ǀ kṛṇudhvám ǀ ít ǀ pṛṇán ǀ ít ǀ pṛṇaté ǀ máyaḥ ǁ

    sunota ǀ soma-pāvne ǀ somam ǀ indrāya ǀ vajriṇe ǀ
    pacata ǀ paktīḥ ǀ avase ǀ kṛṇudhvam ǀ it ǀ pṛṇan ǀ it ǀ pṛṇate ǀ mayaḥ ǁ

    7.32.8 Aṣṭaka 5.3.18.3Anuvāka 7.2.128

  9. Ṛk 9

    मा स्रे॑धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे॑ ।
    त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे॑ ॥

    मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे |
    तरणिर् इज् जयति क्षेति पुष्यति न देवासः कवत्नवे ||

    mā́ sredhata somino dákṣatā mahé kṛṇudhvám rāyá ātúje ǀ
    taráṇiríjjayati kṣéti púṣyati ná devā́saḥ kavatnáve ǁ

    mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje |
    taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave ||

    मा । स्रे॒ध॒त॒ । सो॒मि॒नः॒ । दक्ष॑त । म॒हे । कृ॒णु॒ध्वम् । रा॒ये । आ॒ऽतुजे॑ ।
    त॒रणिः॑ । इत् । ज॒य॒ति॒ । क्षेति॑ । पुष्य॑ति । न । दे॒वासः॑ । क॒व॒त्नवे॑ ॥

    मा । स्रेधत । सोमिनः । दक्षत । महे । कृणुध्वम् । राये । आऽतुजे ।
    तरणिः । इत् । जयति । क्षेति । पुष्यति । न । देवासः । कवत्नवे ॥

    mā́ ǀ sredhata ǀ sominaḥ ǀ dákṣata ǀ mahé ǀ kṛṇudhvám ǀ rāyé ǀ ā-túje ǀ
    taráṇiḥ ǀ ít ǀ jayati ǀ kṣéti ǀ púṣyati ǀ ná ǀ devā́saḥ ǀ kavatnáve ǁ

    mā ǀ sredhata ǀ sominaḥ ǀ dakṣata ǀ mahe ǀ kṛṇudhvam ǀ rāye ǀ ā-tuje ǀ
    taraṇiḥ ǀ it ǀ jayati ǀ kṣeti ǀ puṣyati ǀ na ǀ devāsaḥ ǀ kavatnave ǁ

    7.32.9 Aṣṭaka 5.3.18.4Anuvāka 7.2.129

  10. Ṛk 10

    नकिः॑ सु॒दासो॒ रथं॒ पर्या॑स॒ न री॑रमत् ।
    इंद्रो॒ यस्या॑वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ॥

    नकिः सुदासो रथम् पर्य् आस न रीरमत् |
    इन्द्रो यस्याविता यस्य मरुतो गमत् स गोमति व्रजे ||

    nákiḥ sudā́so rátham páryāsa ná rīramat ǀ
    índro yásyāvitā́ yásya marúto gámatsá gómati vrajé ǁ

    nakiḥ sudāso ratham pary āsa na rīramat |
    indro yasyāvitā yasya maruto gamat sa gomati vraje ||

    नकिः॑ । सु॒ऽदासः॑ । रथ॑म् । परि॑ । आ॒स॒ । न । री॒र॒म॒त् ।
    इन्द्रः॑ । यस्य॑ । अ॒वि॒ता । यस्य॑ । म॒रुतः॑ । गम॑त् । सः । गोऽम॑ति । व्र॒जे ॥

    नकिः । सुऽदासः । रथम् । परि । आस । न । रीरमत् ।
    इन्द्रः । यस्य । अविता । यस्य । मरुतः । गमत् । सः । गोऽमति । व्रजे ॥

    nákiḥ ǀ su-dā́saḥ ǀ rátham ǀ pári ǀ āsa ǀ ná ǀ rīramat ǀ
    índraḥ ǀ yásya ǀ avitā́ ǀ yásya ǀ marútaḥ ǀ gámat ǀ sáḥ ǀ gó-mati ǀ vrajé ǁ

    nakiḥ ǀ su-dāsaḥ ǀ ratham ǀ pari ǀ āsa ǀ na ǀ rīramat ǀ
    indraḥ ǀ yasya ǀ avitā ǀ yasya ǀ marutaḥ ǀ gamat ǀ saḥ ǀ go-mati ǀ vraje ǁ

    7.32.10 Aṣṭaka 5.3.18.5Anuvāka 7.2.130

  11. Ṛk 11

    गम॒द्वाजं॑ वा॒जय॑न्निंद्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ ।
    अ॒स्माकं॑ बोध्यवि॒ता रथा॑नाम॒स्माकं॑ शूर नृ॒णां ॥

    गमद् वाजं वाजयन्न् इन्द्र मर्त्यो यस्य त्वम् अविता भुवः |
    अस्माकम् बोध्य् अविता रथानाम् अस्माकं शूर नृणाम् ||

    gámadvā́jam vājáyannindra mártyo yásya tvámavitā́ bhúvaḥ ǀ
    asmā́kam bodhyavitā́ ráthānāmasmā́kam śūra nṛṇā́m ǁ

    gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ |
    asmākam bodhy avitā rathānām asmākaṃ śūra nṛṇām ||

    गम॑त् । वाज॑म् । वा॒जय॑न् । इ॒न्द्र॒ । मर्त्यः॑ । यस्य॑ । त्वम् । अ॒वि॒ता । भुवः॑ ।
    अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । रथा॑नाम् । अ॒स्माक॑म् । शू॒र॒ । नृ॒णाम् ॥

    गमत् । वाजम् । वाजयन् । इन्द्र । मर्त्यः । यस्य । त्वम् । अविता । भुवः ।
    अस्माकम् । बोधि । अविता । रथानाम् । अस्माकम् । शूर । नृणाम् ॥

    gámat ǀ vā́jam ǀ vājáyan ǀ indra ǀ mártyaḥ ǀ yásya ǀ tvám ǀ avitā́ ǀ bhúvaḥ ǀ
    asmā́kam ǀ bodhi ǀ avitā́ ǀ ráthānām ǀ asmā́kam ǀ śūra ǀ nṛṇā́m ǁ

    gamat ǀ vājam ǀ vājayan ǀ indra ǀ martyaḥ ǀ yasya ǀ tvam ǀ avitā ǀ bhuvaḥ ǀ
    asmākam ǀ bodhi ǀ avitā ǀ rathānām ǀ asmākam ǀ śūra ǀ nṛṇām ǁ

    7.32.11 Aṣṭaka 5.3.19.1Anuvāka 7.2.131

  12. Ṛk 12

    उदिन्न्व॑स्य रिच्य॒तेऽंशो॒ धनं॒ न जि॒ग्युषः॑ ।
    य इंद्रो॒ हरि॑वा॒न्न द॑भंति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥

    उद् इन् न्व् अस्य रिच्यते ऽंशो धनं न जिग्युषः |
    य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ||

    údínnvásya ricyaté’ṃśo dhánam ná jigyúṣaḥ ǀ
    yá índro hárivānná dabhanti tám rípo dákṣam dadhāti somíni ǁ

    ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ |
    ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini ||

    उत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंशः॑ । धन॑म् । न । जि॒ग्युषः॑ ।
    यः । इन्द्रः॑ । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिपः॑ । दक्ष॑म् । द॒धा॒ति॒ । सो॒मिनि॑ ॥

    उत् । इत् । नु । अस्य । रिच्यते । अंशः । धनम् । न । जिग्युषः ।
    यः । इन्द्रः । हरिऽवान् । न । दभन्ति । तम् । रिपः । दक्षम् । दधाति । सोमिनि ॥

    út ǀ ít ǀ nú ǀ asya ǀ ricyate ǀ áṃśaḥ ǀ dhánam ǀ ná ǀ jigyúṣaḥ ǀ
    yáḥ ǀ índraḥ ǀ hári-vān ǀ ná ǀ dabhanti ǀ tám ǀ rípaḥ ǀ dákṣam ǀ dadhāti ǀ somíni ǁ

    ut ǀ it ǀ nu ǀ asya ǀ ricyate ǀ aṃśaḥ ǀ dhanam ǀ na ǀ jigyuṣaḥ ǀ
    yaḥ ǀ indraḥ ǀ hari-vān ǀ na ǀ dabhanti ǀ tam ǀ ripaḥ ǀ dakṣam ǀ dadhāti ǀ somini ǁ

    7.32.12 Aṣṭaka 5.3.19.2Anuvāka 7.2.132

  13. Ṛk 13

    मंत्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा ।
    पू॒र्वीश्च॒न प्रसि॑तयस्तरंति॒ तं य इंद्रे॒ कर्म॑णा॒ भुव॑त् ॥

    मन्त्रम् अखर्वं सुधितं सुपेशसं दधात यज्ञियेष्व् आ |
    पूर्वीश् चन प्रसितयस् तरन्ति तं य इन्द्रे कर्मणा भुवत् ||

    mántramákharvam súdhitam supéśasam dádhāta yajñíyeṣvā́ ǀ
    pūrvī́ścaná prásitayastaranti tám yá índre kármaṇā bhúvat ǁ

    mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā |
    pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat ||

    मन्त्र॑म् । अख॑र्वम् । सुऽधि॑तम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु । आ ।
    पू॒र्वीः । च॒न । प्रऽसि॑तयः । त॒र॒न्ति॒ । तम् । यः । इन्द्रे॑ । कर्म॑णा । भुव॑त् ॥

    मन्त्रम् । अखर्वम् । सुऽधितम् । सुऽपेशसम् । दधात । यज्ञियेषु । आ ।
    पूर्वीः । चन । प्रऽसितयः । तरन्ति । तम् । यः । इन्द्रे । कर्मणा । भुवत् ॥

    mántram ǀ ákharvam ǀ sú-dhitam ǀ su-péśasam ǀ dádhāta ǀ yajñíyeṣu ǀ ā́ ǀ
    pūrvī́ḥ ǀ caná ǀ prá-sitayaḥ ǀ taranti ǀ tám ǀ yáḥ ǀ índre ǀ kármaṇā ǀ bhúvat ǁ

    mantram ǀ akharvam ǀ su-dhitam ǀ su-peśasam ǀ dadhāta ǀ yajñiyeṣu ǀ ā ǀ
    pūrvīḥ ǀ cana ǀ pra-sitayaḥ ǀ taranti ǀ tam ǀ yaḥ ǀ indre ǀ karmaṇā ǀ bhuvat ǁ

    7.32.13 Aṣṭaka 5.3.19.3Anuvāka 7.2.133

  14. Ṛk 14

    कस्तमिं॑द्र॒ त्वाव॑सु॒मा मर्त्यो॑ दधर्षति ।
    श्र॒द्धा इत्ते॑ मघव॒न्पार्ये॑ दि॒वि वा॒जी वाजं॑ सिषासति ॥

    कस् तम् इन्द्र त्वावसुम् आ मर्त्यो दधर्षति |
    श्रद्धा इत् ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ||

    kástámindra tvā́vasumā́ mártyo dadharṣati ǀ
    śraddhā́ ítte maghavanpā́rye diví vājī́ vā́jam siṣāsati ǁ

    kas tam indra tvāvasum ā martyo dadharṣati |
    śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati ||

    कः । तम् । इ॒न्द्र॒ । त्वाऽव॑सुम् । आ । मर्त्यः॑ । द॒ध॒र्ष॒ति॒ ।
    श्र॒द्धा । इत् । ते॒ । म॒घ॒ऽव॒न् । पार्ये॑ । दि॒वि । वा॒जी । वाज॑म् । सि॒सा॒स॒ति॒ ॥

    कः । तम् । इन्द्र । त्वाऽवसुम् । आ । मर्त्यः । दधर्षति ।
    श्रद्धा । इत् । ते । मघऽवन् । पार्ये । दिवि । वाजी । वाजम् । सिसासति ॥

    káḥ ǀ tám ǀ indra ǀ tvā́-vasum ǀ ā́ ǀ mártyaḥ ǀ dadharṣati ǀ
    śraddhā́ ǀ ít ǀ te ǀ magha-van ǀ pā́rye ǀ diví ǀ vājī́ ǀ vā́jam ǀ sisāsati ǁ

    kaḥ ǀ tam ǀ indra ǀ tvā-vasum ǀ ā ǀ martyaḥ ǀ dadharṣati ǀ
    śraddhā ǀ it ǀ te ǀ magha-van ǀ pārye ǀ divi ǀ vājī ǀ vājam ǀ sisāsati ǁ

    7.32.14 Aṣṭaka 5.3.19.4Anuvāka 7.2.134

  15. Ṛk 15

    म॒घोनः॑ स्म वृत्र॒हत्ये॑षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ ।
    तव॒ प्रणी॑ती हर्यश्व सू॒रिभि॒र्विश्वा॑ तरेम दुरि॒ता ॥

    मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु |
    तव प्रणीती हर्यश्व सूरिभिर् विश्वा तरेम दुरिता ||

    maghónaḥ sma vṛtrahátyeṣu codaya yé dádati priyā́ vásu ǀ
    táva práṇītī haryaśva sūríbhirvíśvā tarema duritā́ ǁ

    maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu |
    tava praṇītī haryaśva sūribhir viśvā tarema duritā ||

    म॒घोनः॑ । स्म॒ । वृ॒त्र॒ऽहत्ये॑षु । चो॒द॒य॒ । ये । दद॑ति । प्रि॒या । वसु॑ ।
    तव॑ । प्रऽनी॑ती । ह॒रि॒ऽअ॒श्व॒ । सू॒रिऽभिः॑ । विश्वा॑ । त॒रे॒म॒ । दुः॒ऽइ॒ता ॥

    मघोनः । स्म । वृत्रऽहत्येषु । चोदय । ये । ददति । प्रिया । वसु ।
    तव । प्रऽनीती । हरिऽअश्व । सूरिऽभिः । विश्वा । तरेम । दुःऽइता ॥

    maghónaḥ ǀ sma ǀ vṛtra-hátyeṣu ǀ codaya ǀ yé ǀ dádati ǀ priyā́ ǀ vásu ǀ
    táva ǀ prá-nītī ǀ hari-aśva ǀ sūrí-bhiḥ ǀ víśvā ǀ tarema ǀ duḥ-itā́ ǁ

    maghonaḥ ǀ sma ǀ vṛtra-hatyeṣu ǀ codaya ǀ ye ǀ dadati ǀ priyā ǀ vasu ǀ
    tava ǀ pra-nītī ǀ hari-aśva ǀ sūri-bhiḥ ǀ viśvā ǀ tarema ǀ duḥ-itā ǁ

    7.32.15 Aṣṭaka 5.3.19.5Anuvāka 7.2.135

  16. Ṛk 16

    तवेदिं॑द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मं ।
    स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि���ष्ट्वा॒ गोषु॑ वृण्वते ॥

    तवेद् इन्द्रावमं वसु त्वम् पुष्यसि मध्यमम् |
    सत्रा विश्वस्य परमस्य राजसि नकिष् ट्वा गोषु वृण्वते ||

    távédindrāvamám vásu tvám puṣyasi madhyamám ǀ
    satrā́ víśvasya paramásya rājasi nákiṣṭvā góṣu vṛṇvate ǁ

    taved indrāvamaṃ vasu tvam puṣyasi madhyamam |
    satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate ||

    तव॑ । इत् । इ॒न्द्र॒ । अ॒व॒मम् । वसु॑ । त्वम् । पु॒ष्य॒सि॒ । म॒ध्य॒मम् ।
    स॒त्रा । विश्व॑स्य । प॒र॒मस्य॑ । रा॒ज॒सि॒ । नकिः॑ । त्वा॒ । गोषु॑ । वृ॒ण्व॒ते॒ ॥

    तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् ।
    सत्रा । विश्वस्य । परमस्य । राजसि । नकिः । त्वा । गोषु । वृण्वते ॥

    táva ǀ ít ǀ indra ǀ avamám ǀ vásu ǀ tvám ǀ puṣyasi ǀ madhyamám ǀ
    satrā́ ǀ víśvasya ǀ paramásya ǀ rājasi ǀ nákiḥ ǀ tvā ǀ góṣu ǀ vṛṇvate ǁ

    tava ǀ it ǀ indra ǀ avamam ǀ vasu ǀ tvam ǀ puṣyasi ǀ madhyamam ǀ
    satrā ǀ viśvasya ǀ paramasya ǀ rājasi ǀ nakiḥ ǀ tvā ǀ goṣu ǀ vṛṇvate ǁ

    7.32.16 Aṣṭaka 5.3.20.1Anuvāka 7.2.136

  17. Ṛk 17

    त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भवं॑त्या॒जयः॑ ।
    तवा॒यं विश्वः॑ पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥

    त्वं विश्वस्य धनदा असि श्रुतो य ईम् भवन्त्य् आजयः |
    तवायं विश्वः पुरुहूत पार्थिवो ऽवस्युर् नाम भिक्षते ||

    tvám víśvasya dhanadā́ asi śrutó yá īm bhávantyājáyaḥ ǀ
    távāyám víśvaḥ puruhūta pā́rthivo’vasyúrnā́ma bhikṣate ǁ

    tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ |
    tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate ||

    त्वम् । विश्व॑स्य । ध॒न॒ऽदाः । अ॒सि॒ । श्रु॒तः । ये । ई॒म् । भव॑न्ति । आ॒जयः॑ ।
    तव॑ । अ॒यम् । विश्वः॑ । पु॒रु॒ऽहू॒त॒ । पार्थि॑वः । अ॒व॒स्युः । नाम॑ । भि॒क्ष॒ते॒ ॥

    त्वम् । विश्वस्य । धनऽदाः । असि । श्रुतः । ये । ईम् । भवन्ति । आजयः ।
    तव । अयम् । विश्वः । पुरुऽहूत । पार्थिवः । अवस्युः । नाम । भिक्षते ॥

    tvám ǀ víśvasya ǀ dhana-dā́ḥ ǀ asi ǀ śrutáḥ ǀ yé ǀ īm ǀ bhávanti ǀ ājáyaḥ ǀ
    táva ǀ ayám ǀ víśvaḥ ǀ puru-hūta ǀ pā́rthivaḥ ǀ avasyúḥ ǀ nā́ma ǀ bhikṣate ǁ

    tvam ǀ viśvasya ǀ dhana-dāḥ ǀ asi ǀ śrutaḥ ǀ ye ǀ īm ǀ bhavanti ǀ ājayaḥ ǀ
    tava ǀ ayam ǀ viśvaḥ ǀ puru-hūta ǀ pārthivaḥ ǀ avasyuḥ ǀ nāma ǀ bhikṣate ǁ

    7.32.17 Aṣṭaka 5.3.20.2Anuvāka 7.2.137

  18. Ṛk 18

    यदिं॑द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य ।
    स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥

    यद् इन्द्र यावतस् त्वम् एतावद् अहम् ईशीय |
    स्तोतारम् इद् दिधिषेय रदावसो न पापत्वाय रासीय ||

    yádindra yā́vatastvámetā́vadahámī́śīya ǀ
    stotā́ramíddidhiṣeya radāvaso ná pāpatvā́ya rāsīya ǁ

    yad indra yāvatas tvam etāvad aham īśīya |
    stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya ||

    यत् । इ॒न्द्र॒ । याव॑तः । त्वम् । ए॒ताव॑त् । अ॒हम् । ईशी॑य ।
    स्तो॒तार॑म् । इत् । दि॒धि॒षे॒य॒ । र॒द॒व॒सो॒ इति॑ रदऽवसो । न । पा॒प॒ऽत्वाय॑ । रा॒सी॒य॒ ॥

    यत् । इन्द्र । यावतः । त्वम् । एतावत् । अहम् । ईशीय ।
    स्तोतारम् । इत् । दिधिषेय । रदवसो इति रदऽवसो । न । पापऽत्वाय । रासीय ॥

    yát ǀ indra ǀ yā́vataḥ ǀ tvám ǀ etā́vat ǀ ahám ǀ ī́śīya ǀ
    stotā́ram ǀ ít ǀ didhiṣeya ǀ radavaso íti rada-vaso ǀ ná ǀ pāpa-tvā́ya ǀ rāsīya ǁ

    yat ǀ indra ǀ yāvataḥ ǀ tvam ǀ etāvat ǀ aham ǀ īśīya ǀ
    stotāram ǀ it ǀ didhiṣeya ǀ radavaso iti rada-vaso ǀ na ǀ pāpa-tvāya ǀ rāsīya ǁ

    7.32.18 Aṣṭaka 5.3.20.3Anuvāka 7.2.138

  19. Ṛk 19

    शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ ।
    न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥

    शिक्षेयम् इन् महयते दिवे-दिवे राय आ कुहचिद्विदे |
    नहि त्वद् अन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ||

    śíkṣeyamínmahayaté divédive rāyá ā́ kuhacidvíde ǀ
    nahí tvádanyánmaghavanna ā́pyam vásyo ásti pitā́ caná ǁ

    śikṣeyam in mahayate dive-dive rāya ā kuhacidvide |
    nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana ||

    शिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒यः । आ । कु॒ह॒चि॒त्ऽविदे॑ ।
    नहि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । नः॒ । आप्य॑म् । वस्यः॑ । अस्ति॑ । पि॒ता । च॒न ॥

    शिक्षेयम् । इत् । महऽयते । दिवेऽदिवे । रायः । आ । कुहचित्ऽविदे ।
    नहि । त्वत् । अन्यत् । मघऽवन् । नः । आप्यम् । वस्यः । अस्ति । पिता । चन ॥

    śíkṣeyam ǀ ít ǀ maha-yaté ǀ divé-dive ǀ rāyáḥ ǀ ā́ ǀ kuhacit-víde ǀ
    náhí ǀ tvát ǀ anyát ǀ magha-van ǀ naḥ ǀ ā́pyam ǀ vásyaḥ ǀ ásti ǀ pitā́ ǀ caná ǁ

    śikṣeyam ǀ it ǀ maha-yate ǀ dive-dive ǀ rāyaḥ ǀ ā ǀ kuhacit-vide ǀ
    nahi ǀ tvat ǀ anyat ǀ magha-van ǀ naḥ ǀ āpyam ǀ vasyaḥ ǀ asti ǀ pitā ǀ cana ǁ

    7.32.19 Aṣṭaka 5.3.20.4Anuvāka 7.2.139

  20. Ṛk 20

    त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं॑ध्या यु॒जा ।
    आ व॒ इंद्रं॑ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे॑व सु॒द्र्वं॑ ॥

    तरणिर् इत् सिषासति वाजम् पुरन्ध्या युजा |
    आ व इन्द्रम् पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ||

    taráṇirítsiṣāsati vā́jam púraṃdhyā yujā́ ǀ
    ā́ va índram puruhūtám name girā́ nemím táṣṭeva sudrvám ǁ

    taraṇir it siṣāsati vājam purandhyā yujā |
    ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam ||

    त॒रणिः॑ । इत् । सि॒सा॒स॒ति॒ । वाज॑म् । पुर॑म्ऽध्या । यु॒जा ।
    आ । वः॒ । इन्द्र॑म् । पु॒रु॒ऽहू॒तम् । न॒मे॒ । गि॒रा । ने॒मिम् । तष्टा॑ऽइव । सु॒ऽद्र्व॑म् ॥

    तरणिः । इत् । सिसासति । वाजम् । पुरम्ऽध्या । युजा ।
    आ । वः । इन्द्रम् । पुरुऽहूतम् । नमे । गिरा । नेमिम् । तष्टाऽइव । सुऽद्र्वम् ॥

    taráṇiḥ ǀ ít ǀ sisāsati ǀ vā́jam ǀ púram-dhyā ǀ yujā́ ǀ
    ā́ ǀ vaḥ ǀ índram ǀ puru-hūtám ǀ name ǀ girā́ ǀ nemím ǀ táṣṭā-iva ǀ su-drvám ǁ

    taraṇiḥ ǀ it ǀ sisāsati ǀ vājam ǀ puram-dhyā ǀ yujā ǀ
    ā ǀ vaḥ ǀ indram ǀ puru-hūtam ǀ name ǀ girā ǀ nemim ǀ taṣṭā-iva ǀ su-drvam ǁ

    7.32.20 Aṣṭaka 5.3.20.5Anuvāka 7.2.140

  21. Ṛk 21

    न दु॑ष्टु॒ती मर्त्यो॑ विंदते॒ वसु॒ न स्रेधं॑तं र॒यिर्न॑शत् ।
    सु॒शक्ति॒रिन्म॑घवं॒तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥

    न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर् नशत् |
    सुशक्तिर् इन् मघवन् तुभ्यम् मावते देष्णं यत् पार्ये दिवि ||

    ná duṣṭutī́ mártyo vindate vásu ná srédhantam rayírnaśat ǀ
    suśáktirínmaghavantúbhyam mā́vate deṣṇám yátpā́rye diví ǁ

    na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat |
    suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi ||

    न । दुः॒ऽस्तु॒ती । मर्त्यः॑ । वि॒न्द॒ते॒ । वसु॑ । न । स्रेध॑न्तम् । र॒यिः । न॒श॒त् ।
    सु॒ऽशक्तिः॑ । इत् । म॒घ॒ऽव॒न् । तुभ्य॑म् । माऽव॑ते । दे॒ष्णम् । यत् । पार्ये॑ । दि॒वि ॥

    न । दुःऽस्तुती । मर्त्यः । विन्दते । वसु । न । स्रेधन्तम् । रयिः । नशत् ।
    सुऽशक्तिः । इत् । मघऽवन् । तुभ्यम् । माऽवते । देष्णम् । यत् । पार्ये । दिवि ॥

    ná ǀ duḥ-stutī́ ǀ mártyaḥ ǀ vindate ǀ vásu ǀ ná ǀ srédhantam ǀ rayíḥ ǀ naśat ǀ
    su-śáktiḥ ǀ ít ǀ magha-van ǀ túbhyam ǀ mā́-vate ǀ deṣṇám ǀ yát ǀ pā́rye ǀ diví ǁ

    na ǀ duḥ-stutī ǀ martyaḥ ǀ vindate ǀ vasu ǀ na ǀ sredhantam ǀ rayiḥ ǀ naśat ǀ
    su-śaktiḥ ǀ it ǀ magha-van ǀ tubhyam ǀ mā-vate ǀ deṣṇam ǀ yat ǀ pārye ǀ divi ǁ

    7.32.21 Aṣṭaka 5.3.21.1Anuvāka 7.2.141

  22. Ṛk 22

    अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ ।
    ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिंद्र त॒स्थुषः॑ ॥

    अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः |
    ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ||

    abhí tvā śūra nonumó’dugdhā iva dhenávaḥ ǀ
    ī́śānamasyá jágataḥ svardṛ́śamī́śānamindra tasthúṣaḥ ǁ

    abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ |
    īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ ||

    अ॒भि । त्वा॒ । शू॒र॒ । नो॒नु॒मः॒ । अदु॑ग्धाःऽइव । धे॒नवः॑ ।
    ईशा॑नम् । अ॒स्य । जग॑तः । स्वः॒ऽदृश॑म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥

    अभि । त्वा । शूर । नोनुमः । अदुग्धाःऽइव । धेनवः ।
    ईशानम् । अस्य । जगतः । स्वःऽदृशम् । ईशानम् । इन्द्र । तस्थुषः ॥

    abhí ǀ tvā ǀ śūra ǀ nonumaḥ ǀ ádugdhāḥ-iva ǀ dhenávaḥ ǀ
    ī́śānam ǀ asyá ǀ jágataḥ ǀ svaḥ-dṛ́śam ǀ ī́śānam ǀ indra ǀ tasthúṣaḥ ǁ

    abhi ǀ tvā ǀ śūra ǀ nonumaḥ ǀ adugdhāḥ-iva ǀ dhenavaḥ ǀ
    īśānam ǀ asya ǀ jagataḥ ǀ svaḥ-dṛśam ǀ īśānam ǀ indra ǀ tasthuṣaḥ ǁ

    7.32.22 Aṣṭaka 5.3.21.2Anuvāka 7.2.142

  23. Ṛk 23

    न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।
    अ॒श्वा॒यंतो॑ मघवन्निंद्र वा॒जिनो॑ ग॒व्यंत॑स्त्वा हवामहे ॥

    न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते |
    अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ||

    ná tvā́vām̐ anyó divyó ná pā́rthivo ná jātó ná janiṣyate ǀ
    aśvāyánto maghavannindra vājíno gavyántastvā havāmahe ǁ

    na tvāvāṃ anyo divyo na pārthivo na jāto na janiṣyate |
    aśvāyanto maghavann indra vājino gavyantas tvā havāmahe ||

    न । त्वाऽवा॑न् । अ॒न्यः । दि॒व्यः । न । पार्थि॑वः । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ ।
    अ॒श्व॒ऽयन्तः॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिनः॑ । ग॒व्यन्तः॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥

    न । त्वाऽवान् । अन्यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिष्यते ।
    अश्वऽयन्तः । मघऽवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे ॥

    ná ǀ tvā́-vān ǀ anyáḥ ǀ divyáḥ ǀ ná ǀ pā́rthivaḥ ǀ ná ǀ jātáḥ ǀ ná ǀ janiṣyate ǀ
    aśva-yántaḥ ǀ magha-van ǀ indra ǀ vājínaḥ ǀ gavyántaḥ ǀ tvā ǀ havāmahe ǁ

    na ǀ tvā-vān ǀ anyaḥ ǀ divyaḥ ǀ na ǀ pārthivaḥ ǀ na ǀ jātaḥ ǀ na ǀ janiṣyate ǀ
    aśva-yantaḥ ǀ magha-van ǀ indra ǀ vājinaḥ ǀ gavyantaḥ ǀ tvā ǀ havāmahe ǁ

    7.32.23 Aṣṭaka 5.3.21.3Anuvāka 7.2.143

  24. Ṛk 24

    अ॒भी ष॒तस्तदा भ॒रेंद्र॒ ज्यायः॒ कनी॑यसः ।
    पु॒रू॒वसु॒र्हि म॑घवन्त्स॒नादसि॒ भरे॑भरे च॒ हव्यः॑ ॥

    अभी षतस् तद् आ भरेन्द्र ज्यायः कनीयसः |
    पुरूवसुर् हि मघवन् सनाद् असि भरे-भरे च हव्यः ||

    abhī́ ṣatástádā́ bharéndra jyā́yaḥ kánīyasaḥ ǀ
    purūvásurhí maghavantsanā́dási bhárebhare ca hávyaḥ ǁ

    abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ |
    purūvasur hi maghavan sanād asi bhare-bhare ca havyaḥ ||

    अ॒भि । स॒तः । तत् । आ । भ॒र॒ । इन्द्र॑ । ज्यायः॑ । कनी॑यसः ।
    पु॒रु॒ऽवसुः॑ । हि । म॒घ॒ऽव॒न् । स॒नात् । असि॑ । भरे॑ऽभरे । च॒ । हव्यः॑ ॥

    अभि । सतः । तत् । आ । भर । इन्द्र । ज्यायः । कनीयसः ।
    पुरुऽवसुः । हि । मघऽवन् । सनात् । असि । भरेऽभरे । च । हव्यः ॥

    abhí ǀ satáḥ ǀ tát ǀ ā́ ǀ bhara ǀ índra ǀ jyā́yaḥ ǀ kánīyasaḥ ǀ
    puru-vásuḥ ǀ hí ǀ magha-van ǀ sanā́t ǀ ási ǀ bháre-bhare ǀ ca ǀ hávyaḥ ǁ

    abhi ǀ sataḥ ǀ tat ǀ ā ǀ bhara ǀ indra ǀ jyāyaḥ ǀ kanīyasaḥ ǀ
    puru-vasuḥ ǀ hi ǀ magha-van ǀ sanāt ǀ asi ǀ bhare-bhare ǀ ca ǀ havyaḥ ǁ

    7.32.24 Aṣṭaka 5.3.21.4Anuvāka 7.2.144

  25. Ṛk 25

    परा॑ णुदस्व मघवन्न॒मित्रा॑न्त्सु॒वेदा॑ नो॒ वसू॑ कृधि ।
    अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नां ॥

    परा णुदस्व मघवन्न् अमित्रान् सुवेदा नो वसू कृधि |
    अस्माकम् बोध्य् अविता महाधने भवा वृधः सखीनाम् ||

    párā ṇudasva maghavannamítrāntsuvédā no vásū kṛdhi ǀ
    asmā́kam bodhyavitā́ mahādhané bhávā vṛdháḥ sákhīnām ǁ

    parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi |
    asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām ||

    परा॑ । नु॒द॒स्व॒ । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । कृ॒धि॒ ।
    अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । भव॑ । वृ॒धः । सखी॑नाम् ॥

    परा । नुदस्व । मघऽवन् । अमित्रान् । सुऽवेदा । नः । वसु । कृधि ।
    अस्माकम् । बोधि । अविता । महाऽधने । भव । वृधः । सखीनाम् ॥

    párā ǀ nudasva ǀ magha-van ǀ amítrān ǀ su-védā ǀ naḥ ǀ vásu ǀ kṛdhi ǀ
    asmā́kam ǀ bodhi ǀ avitā́ ǀ mahā-dhané ǀ bháva ǀ vṛdháḥ ǀ sákhīnām ǁ

    parā ǀ nudasva ǀ magha-van ǀ amitrān ǀ su-vedā ǀ naḥ ǀ vasu ǀ kṛdhi ǀ
    asmākam ǀ bodhi ǀ avitā ǀ mahā-dhane ǀ bhava ǀ vṛdhaḥ ǀ sakhīnām ǁ

    7.32.25 Aṣṭaka 5.3.21.5Anuvāka 7.2.145

  26. Ṛk 26

    इंद्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
    शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥

    इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा |
    शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ||

    índra krátum na ā́ bhara pitā́ putrébhyo yáthā ǀ
    śíkṣā ṇo asmínpuruhūta yā́mani jīvā́ jyótiraśīmahi ǁ

    indra kratuṃ na ā bhara pitā putrebhyo yathā |
    śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi ||

    इन्द्र॑ । क्रतु॑म् । नः॒ । आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्यः॑ । यथा॑ ।
    शिक्ष॑ । नः॒ । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वाः । ज्योतिः॑ । अ॒शी॒म॒हि॒ ॥

    इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । यथा ।
    शिक्ष । नः । अस्मिन् । पुरुऽहूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥

    índra ǀ krátum ǀ naḥ ǀ ā́ ǀ bhara ǀ pitā́ ǀ putrébhyaḥ ǀ yáthā ǀ
    śíkṣa ǀ naḥ ǀ asmín ǀ puru-hūta ǀ yā́mani ǀ jīvā́ḥ ǀ jyótiḥ ǀ aśīmahi ǁ

    indra ǀ kratum ǀ naḥ ǀ ā ǀ bhara ǀ pitā ǀ putrebhyaḥ ǀ yathā ǀ
    śikṣa ǀ naḥ ǀ asmin ǀ puru-hūta ǀ yāmani ǀ jīvāḥ ǀ jyotiḥ ǀ aśīmahi ǁ

    7.32.26 Aṣṭaka 5.3.21.6Anuvāka 7.2.146

  27. Ṛk 27

    मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒३॒॑ माशि॑वासो॒ अव॑ क्रमुः ।
    त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥

    मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः |
    त्वया वयम् प्रवतः शश्वतीर् अपो ऽति शूर तरामसि ||

    mā́ no ájñātā vṛjánā durādhyo mā́śivāso áva kramuḥ ǀ
    tváyā vayám pravátaḥ śáśvatīrapó’ti śūra tarāmasi ǁ

    mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ |
    tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi ||

    मा । नः॒ । अज्ञा॑ताः । वृ॒जनाः॑ । दुः॒ऽआ॒ध्यः॑ । मा । अशि॑वासः । अव॑ । क्र॒मुः॒ ।
    त्वया॑ । व॒यम् । प्र॒ऽवतः॑ । शश्व॑तीः । अ॒पः । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥

    मा । नः । अज्ञाताः । वृजनाः । दुःऽआध्यः । मा । अशिवासः । अव । क्रमुः ।
    त्वया । वयम् । प्रऽवतः । शश्वतीः । अपः । अति । शूर । तरामसि ॥

    mā́ ǀ naḥ ǀ ájñātāḥ ǀ vṛjánāḥ ǀ duḥ-ādhyáḥ ǀ mā́ ǀ áśivāsaḥ ǀ áva ǀ kramuḥ ǀ
    tváyā ǀ vayám ǀ pra-vátaḥ ǀ śáśvatīḥ ǀ apáḥ ǀ áti ǀ śūra ǀ tarāmasi ǁ

    mā ǀ naḥ ǀ ajñātāḥ ǀ vṛjanāḥ ǀ duḥ-ādhyaḥ ǀ mā ǀ aśivāsaḥ ǀ ava ǀ kramuḥ ǀ
    tvayā ǀ vayam ǀ pra-vataḥ ǀ śaśvatīḥ ǀ apaḥ ǀ ati ǀ śūra ǀ tarāmasi ǁ

    7.32.27 Aṣṭaka 5.3.21.7Anuvāka 7.2.147

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.32 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

LET none, no, not thy worshippers, delay thee far away from us. Even from far away come thou unto our feast, or listen if already here.

Ṛk 2

For here, like flies on honey, these who pray to thee sit by the juice that they have poured. Wealth-craving singers have on Indra set their hope, as men set foot upon a car.

Ṛk 3

Longing for wealth I call on him, the Thunderer with the strong right hand, As a son calleth on his sire.

Ṛk 4

These Soma juices, mixed with curd, have been expressed for Indra here. Come with thy Bay Steeds, Thunder-wielder, to our home, to drink them till they make thee glad.

Ṛk 5

May he whose ear is open hear us. He is asked for wealth: will he despise our prayer? Him who bestows at once a hundred thousand gifts none shall restrain when he would give.

Ṛk 6

The hero never checked by men hath gained his strength through Indra, he Who presses out and pours his deep libations forth, O Vṛtra-slayer, unto thee.

Ṛk 7

When thou dost drive the fighting men together be, thou Mighty One, the mighty's shield. May we divide the wealth of him whom thou hast slain: bring us, Unreachable, his goods.

Ṛk 8

For Indra, Soma-drinker, armed with thunder, press the Soma juice. Make ready your dressed meats: cause him to favour us. The Giver blesses him who gives.

Ṛk 9

Grudge not, ye Soma pourers; stir you, pay the rites, for wealth, to the great Conqueror. Only the active conquers dwells in peace, and thrives: not for the niggard are the Gods.

Ṛk 10

No one hath overturned or stayed the car of him who freely gives. The man whom Indra and the Marut host defend comes to a stable full of kine.

Ṛk 11

Indra, that man when fighting shall obtain the spoil, whose strong defender thou wilt be. Be thou the gracious helper, Hero I of our cars, be thou the helper of our men.

Ṛk 12

His portion is exceeding great like a victorious soldier's spoil. Him who is Indra, Lord of Bays, no foes subdue. He gives the Soma-pourer strength.

Ṛk 13

Make for the Holy Gods a hymn that is not mean, but well-arranged and fair of form. Even many snares and bonds subdue not him who dwells with Indra through his sacrifice.

Ṛk 14

Indra, what mortal will attack the man who hath his wealth in thee? The strong will win the spoil on the decisive day through faith in thee, O Maghavan.

Ṛk 15

In battles with the foe urge on our mighty ones who give the treasures dear to thee, And may we with our princes, Lord of Tawny Steeds! pass through all peril, led by thee.

Ṛk 16

Thine, Indra, is the lowest wealth, thou cherishest the mid-most wealth, Thou ever rulest all the highest: in the fray for cattle none resisteth thee.

Ṛk 17

Thou art renowned as giving wealth to every one in all the battles that are fought. Craving protection, all these people of the earth, O Much-invoked, implore thy name.

Ṛk 18

If I, O Indra, were the Lord of riches ample as thine own, I should support the singer, God. who givest wealth! and not abandon him to woe.

Ṛk 19

Each day would I enrich the man who sang my praise, in whatsoever place he were. No kinship is there better, Maghavan, than thine: a father even is no more.

Ṛk 20

With Plenty for his true ally the active man will gain the spoil. Your Indra, Much-invoked, I bend with song, as bends a wright his wheel of solid wood.

Ṛk 21

A moral wins no riches by unworthy praise: wealth comes not to the niggard churl. Light is the task to give, O Maghavan, to one like me on the decisive day.

Ṛk 22

Like kine unmilked we call aloud, Hero, to thee, and sing thy praise, Looker on heavenly light, Lord of this moving world, Lord, Indra, of what moveth not.

Ṛk 23

None other like to thee, of earth or of the heavens, hath been or ever will be born. Desiring horses, Indra Maghavan! and kine, as men of might we call on thee.

Ṛk 24

Bring, Indra, the Victorious Ones; bring, elder thou, the younger host. For, Maghavan, thou art rich in treasures from of old, and must be called in every fight.

Ṛk 25

Drive thou away our enemies, O Maghavan: make riches easy to be won. Be thou our good Protector in the strife for spoil: Cherisher of our friends be thou.

Ṛk 26

O Indra, give us wisdom as a sire gives wisdom to his sons. Guide us, O Much-invoked, in this our way may we still live and look upon the light.