Sūkta 37
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 3); nicṛttriṣṭup (2, 7); virāṭtrisṭup (5, 8); nicṛtpaṅkti (4); svarāṭpaṅkti (6)
2nd set of styles triṣṭubh
-
Ṛk 1
आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः ।
अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभिः॑ पृणध्वं ॥आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः |
अभि त्रिपृष्ठैः सवनेषु सोमैर् मदे सुशिप्रा महभिः पृणध्वम् ||ā́ vo vā́hiṣṭho vahatu stavádhyai rátho vājā ṛbhukṣaṇo ámṛktaḥ ǀ
abhí tripṛṣṭháiḥ sávaneṣu sómairmáde suśiprā mahábhiḥ pṛṇadhvam ǁā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ |
abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam ||आ । वः॒ । वाहि॑ष्ठः । व॒ह॒तु॒ । स्त॒वध्यै॑ । रथः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तः ।
अ॒भि । त्रि॑ऽपृ॒ष्ठैः । सव॑नेषु । सोमैः॑ । मदे॑ । सु॒ऽशि॒प्राः॒ । म॒हऽभिः॑ । पृ॒ण॒ध्व॒म् ॥आ । वः । वाहिष्ठः । वहतु । स्तवध्यै । रथः । वाजाः । ऋभुक्षणः । अमृक्तः ।
अभि । त्रिऽपृष्ठैः । सवनेषु । सोमैः । मदे । सुऽशिप्राः । महऽभिः । पृणध्वम् ॥ā́ ǀ vaḥ ǀ vā́hiṣṭhaḥ ǀ vahatu ǀ stavádhyai ǀ ráthaḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ ámṛktaḥ ǀ
abhí ǀ trí-pṛṣṭháiḥ ǀ sávaneṣu ǀ sómaiḥ ǀ máde ǀ su-śiprāḥ ǀ mahá-bhiḥ ǀ pṛṇadhvam ǁā ǀ vaḥ ǀ vāhiṣṭhaḥ ǀ vahatu ǀ stavadhyai ǀ rathaḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ amṛktaḥ ǀ
abhi ǀ tri-pṛṣṭhaiḥ ǀ savaneṣu ǀ somaiḥ ǀ made ǀ su-śiprāḥ ǀ maha-bhiḥ ǀ pṛṇadhvam ǁ7.37.1 Aṣṭaka 5.4.3.1Anuvāka 7.3.50
-
Ṛk 2
यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तं ।
सं य॒ज्ञेषु॑ स्वधावंतः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वं ॥यूयं ह रत्नम् मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् |
सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर् दयध्वम् ||yūyám ha rátnam maghávatsu dhattha svardṛ́śa ṛbhukṣaṇo ámṛktam ǀ
sám yajñéṣu svadhāvantaḥ pibadhvam ví no rā́dhāṃsi matíbhirdayadhvam ǁyūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam |
saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam ||यू॒यम् । ह॒ । रत्न॑म् । म॒घव॑त्ऽसु । ध॒त्थ॒ । स्वः॒ऽदृशः॑ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तम् ।
सम् । य॒ज्ञेषु॑ । स्व॒धा॒ऽव॒न्तः॒ । पि॒ब॒ध्व॒म् । वि । नः॒ । राधां॑सि । म॒तिऽभिः॑ । द॒य॒ध्व॒म् ॥यूयम् । ह । रत्नम् । मघवत्ऽसु । धत्थ । स्वःऽदृशः । ऋभुक्षणः । अमृक्तम् ।
सम् । यज्ञेषु । स्वधाऽवन्तः । पिबध्वम् । वि । नः । राधांसि । मतिऽभिः । दयध्वम् ॥yūyám ǀ ha ǀ rátnam ǀ maghávat-su ǀ dhattha ǀ svaḥ-dṛ́śaḥ ǀ ṛbhukṣaṇaḥ ǀ ámṛktam ǀ
sám ǀ yajñéṣu ǀ svadhā-vantaḥ ǀ pibadhvam ǀ ví ǀ naḥ ǀ rā́dhāṃsi ǀ matí-bhiḥ ǀ dayadhvam ǁyūyam ǀ ha ǀ ratnam ǀ maghavat-su ǀ dhattha ǀ svaḥ-dṛśaḥ ǀ ṛbhukṣaṇaḥ ǀ amṛktam ǀ
sam ǀ yajñeṣu ǀ svadhā-vantaḥ ǀ pibadhvam ǀ vi ǀ naḥ ǀ rādhāṃsi ǀ mati-bhiḥ ǀ dayadhvam ǁ7.37.2 Aṣṭaka 5.4.3.2Anuvāka 7.3.51
-
Ṛk 3
उ॒वोचि॑थ॒ हि म॑घवंदे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे ।
उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥उवोचिथ हि मघवन् देष्णम् महो अर्भस्य वसुनो विभागे |
उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ||uvócitha hí maghavandeṣṇám mahó árbhasya vásuno vibhāgé ǀ
ubhā́ te pūrṇā́ vásunā gábhastī ná sūnṛ́tā ní yamate vasavyā́ ǁuvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge |
ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā ||उ॒वोचि॑थ । हि । म॒घ॒ऽव॒न् । दे॒ष्णम् । म॒हः । अर्भ॑स्य । वसु॑नः । वि॒ऽभा॒गे ।
उ॒भा । ते॒ । पू॒र्णा । वसु॑ना । गभ॑स्ती॒ इति॑ । न । सू॒नृता॑ । नि । य॒म॒ते॒ । व॒स॒व्या॑ ॥उवोचिथ । हि । मघऽवन् । देष्णम् । महः । अर्भस्य । वसुनः । विऽभागे ।
उभा । ते । पूर्णा । वसुना । गभस्ती इति । न । सूनृता । नि । यमते । वसव्या ॥uvócitha ǀ hí ǀ magha-van ǀ deṣṇám ǀ maháḥ ǀ árbhasya ǀ vásunaḥ ǀ vi-bhāgé ǀ
ubhā́ ǀ te ǀ pūrṇā́ ǀ vásunā ǀ gábhastī íti ǀ ná ǀ sūnṛ́tā ǀ ní ǀ yamate ǀ vasavyā́ ǁuvocitha ǀ hi ǀ magha-van ǀ deṣṇam ǀ mahaḥ ǀ arbhasya ǀ vasunaḥ ǀ vi-bhāge ǀ
ubhā ǀ te ǀ pūrṇā ǀ vasunā ǀ gabhastī iti ǀ na ǀ sūnṛtā ǀ ni ǀ yamate ǀ vasavyā ǁ7.37.3 Aṣṭaka 5.4.3.3Anuvāka 7.3.52
-
Ṛk 4
त्वमिं॑द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा॑ ।
व॒यं नु ते॑ दा॒श्वांसः॑ स्याम॒ ब्रह्म॑ कृ॒ण्वंतो॑ हरिवो॒ वसि॑ष्ठाः ॥त्वम् इन्द्र स्वयशा ऋभुक्षा वाजो न साधुर् अस्तम् एष्य् ऋक्वा |
वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ||tvámindra sváyaśā ṛbhukṣā́ vā́jo ná sādhúrástameṣyṛ́kvā ǀ
vayám nú te dāśvā́ṃsaḥ syāma bráhma kṛṇvánto harivo vásiṣṭhāḥ ǁtvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā |
vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ ||त्वम् । इ॒न्द्र॒ । स्वऽय॑शाः । ऋ॒भु॒क्षाः । वाजः॑ । न । सा॒धुः । अस्त॑म् । ए॒षि॒ । ऋक्वा॑ ।
व॒यम् । नु । ते॒ । दा॒श्वांसः॑ । स्या॒म॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । ह॒रि॒ऽवः॒ । वसि॑ष्ठाः ॥त्वम् । इन्द्र । स्वऽयशाः । ऋभुक्षाः । वाजः । न । साधुः । अस्तम् । एषि । ऋक्वा ।
वयम् । नु । ते । दाश्वांसः । स्याम । ब्रह्म । कृण्वन्तः । हरिऽवः । वसिष्ठाः ॥tvám ǀ indra ǀ svá-yaśāḥ ǀ ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ ná ǀ sādhúḥ ǀ ástam ǀ eṣi ǀ ṛ́kvā ǀ
vayám ǀ nú ǀ te ǀ dāśvā́ṃsaḥ ǀ syāma ǀ bráhma ǀ kṛṇvántaḥ ǀ hari-vaḥ ǀ vásiṣṭhāḥ ǁtvam ǀ indra ǀ sva-yaśāḥ ǀ ṛbhukṣāḥ ǀ vājaḥ ǀ na ǀ sādhuḥ ǀ astam ǀ eṣi ǀ ṛkvā ǀ
vayam ǀ nu ǀ te ǀ dāśvāṃsaḥ ǀ syāma ǀ brahma ǀ kṛṇvantaḥ ǀ hari-vaḥ ǀ vasiṣṭhāḥ ǁ7.37.4 Aṣṭaka 5.4.3.4Anuvāka 7.3.53
-
Ṛk 5
सनि॑तासि प्र॒वतो॑ दा॒शुषे॑ चि॒द्याभि॒र्विवे॑षो हर्यश्व धी॒भिः ।
व॒व॒न्मा नु ते॒ युज्या॑भिरू॒ती क॒दा न॑ इंद्र रा॒य आ द॑शस्येः ॥सनितासि प्रवतो दाशुषे चिद् याभिर् विवेषो हर्यश्व धीभिः |
ववन्मा नु ते युज्याभिर् ऊती कदा न इन्द्र राय आ दशस्येः ||sánitāsi praváto dāśúṣe cidyā́bhirvíveṣo haryaśva dhībhíḥ ǀ
vavanmā́ nú te yújyābhirūtī́ kadā́ na indra rāyá ā́ daśasyeḥ ǁsanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ |
vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ ||सनि॑ता । अ॒सि॒ । प्र॒ऽवतः॑ । दा॒शुषे॑ । चि॒त् । याभिः॑ । विवे॑षः । ह॒रि॒ऽअ॒श्व॒ । धी॒भिः ।
व॒व॒न्म । नु । ते॒ । युज्या॑भिः । ऊ॒ती । क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ ॥सनिता । असि । प्रऽवतः । दाशुषे । चित् । याभिः । विवेषः । हरिऽअश्व । धीभिः ।
ववन्म । नु । ते । युज्याभिः । ऊती । कदा । नः । इन्द्र । रायः । आ । दशस्येः ॥sánitā ǀ asi ǀ pra-vátaḥ ǀ dāśúṣe ǀ cit ǀ yā́bhiḥ ǀ víveṣaḥ ǀ hari-aśva ǀ dhībhíḥ ǀ
vavanmá ǀ nú ǀ te ǀ yújyābhiḥ ǀ ūtī́ ǀ kadā́ ǀ naḥ ǀ indra ǀ rāyáḥ ǀ ā́ ǀ daśasyeḥ ǁsanitā ǀ asi ǀ pra-vataḥ ǀ dāśuṣe ǀ cit ǀ yābhiḥ ǀ viveṣaḥ ǀ hari-aśva ǀ dhībhiḥ ǀ
vavanma ǀ nu ǀ te ǀ yujyābhiḥ ǀ ūtī ǀ kadā ǀ naḥ ǀ indra ǀ rāyaḥ ǀ ā ǀ daśasyeḥ ǁ7.37.5 Aṣṭaka 5.4.3.5Anuvāka 7.3.54
-
Ṛk 6
वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इंद्र॒ वच॑सो बुबोधः ।
अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥वासयसीव वेधसस् त्वं नः कदा न इन्द्र वचसो बुबोधः |
अस्तं तात्या धिया रयिं सुवीरम् पृक्षो नो अर्वा न्य् उहीत वाजी ||vāsáyasīva vedhásastvám naḥ kadā́ na indra vácaso bubodhaḥ ǀ
ástam tātyā́ dhiyā́ rayím suvī́ram pṛkṣó no árvā nyúhīta vājī́ ǁvāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ |
astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī ||वा॒सय॑सिऽइव । वे॒धसः॑ । त्वम् । नः॒ । क॒दा । नः॒ । इ॒न्द्र॒ । वच॑सः । बु॒बो॒धः॒ ।
अस्त॑म् । ता॒त्या । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । पृ॒क्षः । नः॒ । अर्वा॑ । नि । उ॒ही॒त॒ । वा॒जी ॥वासयसिऽइव । वेधसः । त्वम् । नः । कदा । नः । इन्द्र । वचसः । बुबोधः ।
अस्तम् । तात्या । धिया । रयिम् । सुऽवीरम् । पृक्षः । नः । अर्वा । नि । उहीत । वाजी ॥vāsáyasi-iva ǀ vedhásaḥ ǀ tvám ǀ naḥ ǀ kadā́ ǀ naḥ ǀ indra ǀ vácasaḥ ǀ bubodhaḥ ǀ
ástam ǀ tātyā́ ǀ dhiyā́ ǀ rayím ǀ su-vī́ram ǀ pṛkṣáḥ ǀ naḥ ǀ árvā ǀ ní ǀ uhīta ǀ vājī́ ǁvāsayasi-iva ǀ vedhasaḥ ǀ tvam ǀ naḥ ǀ kadā ǀ naḥ ǀ indra ǀ vacasaḥ ǀ bubodhaḥ ǀ
astam ǀ tātyā ǀ dhiyā ǀ rayim ǀ su-vīram ǀ pṛkṣaḥ ǀ naḥ ǀ arvā ǀ ni ǀ uhīta ǀ vājī ǁ7.37.6 Aṣṭaka 5.4.4.1Anuvāka 7.3.55
-
Ṛk 7
अ॒भि यं दे॒वी निर्ऋ॑तिश्चि॒दीशे॒ नक्षं॑त॒ इंद्रं॑ श॒रदः॑ सु॒पृक्षः॑ ।
उप॑ त्रिबं॒धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णवं॑त॒ मर्ताः॑ ॥अभि यं देवी निरृतिश् चिद् ईशे नक्षन्त इन्द्रं शरदः सुपृक्षः |
उप त्रिबन्धुर् जरदष्टिम् एत्य् अस्ववेशं यं कृणवन्त मर्ताः ||abhí yám devī́ nírṛtiścidī́śe nákṣanta índram śarádaḥ supṛ́kṣaḥ ǀ
úpa tribandhúrjarádaṣṭimetyásvaveśam yám kṛṇávanta mártāḥ ǁabhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ |
upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ ||अ॒भि । यम् । दे॒वी । निःऽऋ॑तिः । चि॒त् । ईशे॑ । नक्ष॑न्ते । इन्द्र॑म् । श॒रदः॑ । सु॒ऽपृक्षः॑ ।
उप॑ । त्रि॒ऽब॒न्धुः । ज॒रत्ऽअ॑ष्टिम् । ए॒ति॒ । अस्व॑वेशम् । यम् । कृ॒णव॑न्त । मर्ताः॑ ॥अभि । यम् । देवी । निःऽऋतिः । चित् । ईशे । नक्षन्ते । इन्द्रम् । शरदः । सुऽपृक्षः ।
उप । त्रिऽबन्धुः । जरत्ऽअष्टिम् । एति । अस्ववेशम् । यम् । कृणवन्त । मर्ताः ॥abhí ǀ yám ǀ devī́ ǀ níḥ-ṛtiḥ ǀ cit ǀ ī́śe ǀ nákṣante ǀ índram ǀ śarádaḥ ǀ su-pṛ́kṣaḥ ǀ
úpa ǀ tri-bandhúḥ ǀ jarát-aṣṭim ǀ eti ǀ ásvaveśam ǀ yám ǀ kṛṇávanta ǀ mártāḥ ǁabhi ǀ yam ǀ devī ǀ niḥ-ṛtiḥ ǀ cit ǀ īśe ǀ nakṣante ǀ indram ǀ śaradaḥ ǀ su-pṛkṣaḥ ǀ
upa ǀ tri-bandhuḥ ǀ jarat-aṣṭim ǀ eti ǀ asvaveśam ǀ yam ǀ kṛṇavanta ǀ martāḥ ǁ7.37.7 Aṣṭaka 5.4.4.2Anuvāka 7.3.56
-
Ṛk 8
आ नो॒ राधां॑सि सवितः स्त॒वध्या॒ आ रायो॑ यंतु॒ पर्व॑तस्य रा॒तौ ।
सदा॑ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ |
सदा नो दिव्यः पायुः सिषक्तु यूयम् पात स्वस्तिभिः सदा नः ||ā́ no rā́dhāṃsi savitaḥ stavádhyā ā́ rā́yo yantu párvatasya rātáu ǀ
sádā no divyáḥ pāyúḥ siṣaktu yūyám pāta svastíbhiḥ sádā naḥ ǁā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau |
sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ ||आ । नः॒ । राधां॑सि । स॒वि॒त॒रिति॑ । स्त॒वध्यै॑ । आ । रायः॑ । य॒न्तु॒ । पर्व॑तस्य । रा॒तौ ।
सदा॑ । नः॒ । दि॒व्यः । पा॒युः । सि॒स॒क्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । नः । राधांसि । सवितरिति । स्तवध्यै । आ । रायः । यन्तु । पर्वतस्य । रातौ ।
सदा । नः । दिव्यः । पायुः । सिसक्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ā́ ǀ naḥ ǀ rā́dhāṃsi ǀ savitaríti ǀ stavádhyai ǀ ā́ ǀ rā́yaḥ ǀ yantu ǀ párvatasya ǀ rātáu ǀ
sádā ǀ naḥ ǀ divyáḥ ǀ pāyúḥ ǀ sisaktu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁā ǀ naḥ ǀ rādhāṃsi ǀ savitariti ǀ stavadhyai ǀ ā ǀ rāyaḥ ǀ yantu ǀ parvatasya ǀ rātau ǀ
sadā ǀ naḥ ǀ divyaḥ ǀ pāyuḥ ǀ sisaktu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.37.8 Aṣṭaka 5.4.4.3Anuvāka 7.3.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.