Sūkta 25
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛtpaṅkti (1); virāṭpaṅkti (2); virāṭtrisṭup (3); paṅktiḥ (4); nicṛttriṣṭup (5); svarāṭpaṅkti (6)
2nd set of styles triṣṭubh
-
Ṛk 1
आ ते॑ म॒ह इं॑द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मरं॑त॒ सेनाः॑ ।
पता॑ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो॑ विष्व॒द्र्य१॒॑ग्वि चा॑रीत् ॥आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः |
पताति दिद्युन् नर्यस्य बाह्वोर् मा ते मनो विष्वद्र्यग् वि चारीत् ||ā́ te mahá indrotyúgra sámanyavo yátsamáranta sénāḥ ǀ
pátāti didyúnnáryasya bāhvórmā́ te máno viṣvadryágví cārīt ǁā te maha indroty ugra samanyavo yat samaranta senāḥ |
patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt ||आ । ते॒ । म॒हः । इ॒न्द्र॒ । ऊ॒ती । उ॒ग्र॒ । सऽम॑न्यवः । यत् । स॒म्ऽअर॑न्त । सेनाः॑ ।
पता॑ति । दि॒द्युत् । नर्य॑स्य । बा॒ह्वोः । मा । ते॒ । मनः॑ । वि॒ष्व॒द्र्य॑क् । वि । चा॒री॒त् ॥आ । ते । महः । इन्द्र । ऊती । उग्र । सऽमन्यवः । यत् । सम्ऽअरन्त । सेनाः ।
पताति । दिद्युत् । नर्यस्य । बाह्वोः । मा । ते । मनः । विष्वद्र्यक् । वि । चारीत् ॥ā́ ǀ te ǀ maháḥ ǀ indra ǀ ūtī́ ǀ ugra ǀ sá-manyavaḥ ǀ yát ǀ sam-áranta ǀ sénāḥ ǀ
pátāti ǀ didyút ǀ náryasya ǀ bāhvóḥ ǀ mā́ ǀ te ǀ mánaḥ ǀ viṣvadryák ǀ ví ǀ cārīt ǁā ǀ te ǀ mahaḥ ǀ indra ǀ ūtī ǀ ugra ǀ sa-manyavaḥ ǀ yat ǀ sam-aranta ǀ senāḥ ǀ
patāti ǀ didyut ǀ naryasya ǀ bāhvoḥ ǀ mā ǀ te ǀ manaḥ ǀ viṣvadryak ǀ vi ǀ cārīt ǁ7.25.1 Aṣṭaka 5.3.9.1Anuvāka 7.2.78
-
Ṛk 2
नि दु॒र्ग इं॑द्र श्नथिह्य॒मित्रा॑न॒भि ये नो॒ मर्ता॑सो अ॒मंति॑ ।
आ॒रे तं शंसं॑ कृणुहि निनि॒त्सोरा नो॑ भर सं॒भर॑णं॒ वसू॑नां ॥नि दुर्ग इन्द्र श्नथिह्य् अमित्रां अभि ये नो मर्तासो अमन्ति |
आरे तं शंसं कृणुहि निनित्सोर् आ नो भर सम्भरणं वसूनाम् ||ní durgá indra śnathihyamítrānabhí yé no mártāso amánti ǀ
āré tám śáṃsam kṛṇuhi ninitsórā́ no bhara sambháraṇam vásūnām ǁni durga indra śnathihy amitrāṃ abhi ye no martāso amanti |
āre taṃ śaṃsaṃ kṛṇuhi ninitsor ā no bhara sambharaṇaṃ vasūnām ||नि । दुः॒ऽगे । इ॒न्द्र॒ । श्न॒थि॒हि॒ । अ॒मित्रा॑न् । अ॒भि । ये । नः॒ । मर्ता॑सः । अ॒मन्ति॑ ।
आ॒रे । तम् । शंस॑म् । कृ॒णु॒हि॒ । नि॒नि॒त्सोः । आ । नः॒ । भ॒र॒ । स॒म्ऽभर॑णम् । वसू॑नाम् ॥नि । दुःऽगे । इन्द्र । श्नथिहि । अमित्रान् । अभि । ये । नः । मर्तासः । अमन्ति ।
आरे । तम् । शंसम् । कृणुहि । निनित्सोः । आ । नः । भर । सम्ऽभरणम् । वसूनाम् ॥ní ǀ duḥ-gé ǀ indra ǀ śnathihi ǀ amítrān ǀ abhí ǀ yé ǀ naḥ ǀ mártāsaḥ ǀ amánti ǀ
āré ǀ tám ǀ śáṃsam ǀ kṛṇuhi ǀ ninitsóḥ ǀ ā́ ǀ naḥ ǀ bhara ǀ sam-bháraṇam ǀ vásūnām ǁni ǀ duḥ-ge ǀ indra ǀ śnathihi ǀ amitrān ǀ abhi ǀ ye ǀ naḥ ǀ martāsaḥ ǀ amanti ǀ
āre ǀ tam ǀ śaṃsam ǀ kṛṇuhi ǀ ninitsoḥ ǀ ā ǀ naḥ ǀ bhara ǀ sam-bharaṇam ǀ vasūnām ǁ7.25.2 Aṣṭaka 5.3.9.2Anuvāka 7.2.79
-
Ṛk 3
श॒तं ते॑ शिप्रिन्नू॒तयः॑ सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु ।
ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥शतं ते शिप्रिन्न् ऊतयः सुदासे सहस्रं शंसा उत रातिर् अस्तु |
जहि वधर् वनुषो मर्त्यस्यास्मे द्युम्नम् अधि रत्नं च धेहि ||śatám te śiprinnūtáyaḥ sudā́se sahásram śáṃsā utá rātírastu ǀ
jahí vádharvanúṣo mártyasyāsmé dyumnámádhi rátnam ca dhehi ǁśataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu |
jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi ||श॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः॑ । सु॒ऽदासे॑ । स॒हस्र॑म् । शंसाः॑ । उ॒त । रा॒तिः । अ॒स्तु॒ ।
ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य । अ॒स्मे इति॑ । द्यु॒म्नम् । अधि॑ । रत्न॑म् । च॒ । धे॒हि॒ ॥शतम् । ते । शिप्रिन् । ऊतयः । सुऽदासे । सहस्रम् । शंसाः । उत । रातिः । अस्तु ।
जहि । वधः । वनुषः । मर्त्यस्य । अस्मे इति । द्युम्नम् । अधि । रत्नम् । च । धेहि ॥śatám ǀ te ǀ śiprin ǀ ūtáyaḥ ǀ su-dā́se ǀ sahásram ǀ śáṃsāḥ ǀ utá ǀ rātíḥ ǀ astu ǀ
jahí ǀ vádhaḥ ǀ vanúṣaḥ ǀ mártyasya ǀ asmé íti ǀ dyumnám ǀ ádhi ǀ rátnam ǀ ca ǀ dhehi ǁśatam ǀ te ǀ śiprin ǀ ūtayaḥ ǀ su-dāse ǀ sahasram ǀ śaṃsāḥ ǀ uta ǀ rātiḥ ǀ astu ǀ
jahi ǀ vadhaḥ ǀ vanuṣaḥ ǀ martyasya ǀ asme iti ǀ dyumnam ǀ adhi ǀ ratnam ǀ ca ǀ dhehi ǁ7.25.3 Aṣṭaka 5.3.9.3Anuvāka 7.2.80
-
Ṛk 4
त्वाव॑तो॒ हीं॑द्र॒ क्रत्वे॒ अस्मि॒ त्वाव॑तोऽवि॒तुः शू॑र रा॒तौ ।
विश्वेदहा॑नि तविषीव उग्रँ॒ ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ॥त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतो ऽवितुः शूर रातौ |
विश्वेद् अहानि तविषीव उग्रं ओकः कृणुष्व हरिवो न मर्धीः ||tvā́vato hī́ndra krátve ásmi tvā́vato’vitúḥ śūra rātáu ǀ
víśvédáhāni taviṣīva ugram̐ ókaḥ kṛṇuṣva harivo ná mardhīḥ ǁtvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau |
viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ ||त्वाऽव॑तः । हि । इ॒न्द्र॒ । क्रत्वे॑ । अस्मि॑ । त्वाऽव॑तः । अ॒वि॒तुः । शू॒र॒ । रा॒तौ ।
विश्वा॑ । इत् । अहा॑नि । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । ओकः॑ । कृ॒णु॒ष्व॒ । ह॒रि॒ऽवः॒ । न । म॒र्धीः॒ ॥त्वाऽवतः । हि । इन्द्र । क्रत्वे । अस्मि । त्वाऽवतः । अवितुः । शूर । रातौ ।
विश्वा । इत् । अहानि । तविषीऽवः । उग्र । ओकः । कृणुष्व । हरिऽवः । न । मर्धीः ॥tvā́-vataḥ ǀ hí ǀ indra ǀ krátve ǀ ásmi ǀ tvā́-vataḥ ǀ avitúḥ ǀ śūra ǀ rātáu ǀ
víśvā ǀ ít ǀ áhāni ǀ taviṣī-vaḥ ǀ ugra ǀ ókaḥ ǀ kṛṇuṣva ǀ hari-vaḥ ǀ ná ǀ mardhīḥ ǁtvā-vataḥ ǀ hi ǀ indra ǀ kratve ǀ asmi ǀ tvā-vataḥ ǀ avituḥ ǀ śūra ǀ rātau ǀ
viśvā ǀ it ǀ ahāni ǀ taviṣī-vaḥ ǀ ugra ǀ okaḥ ǀ kṛṇuṣva ǀ hari-vaḥ ǀ na ǀ mardhīḥ ǁ7.25.4 Aṣṭaka 5.3.9.4Anuvāka 7.2.81
-
Ṛk 5
कुत्सा॑ ए॒ते हर्य॑श्वाय शू॒षमिंद्रे॒ सहो॑ दे॒वजू॑तमिया॒नाः ।
स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाजं॑ ॥कुत्सा एते हर्यश्वाय शूषम् इन्द्रे सहो देवजूतम् इयानाः |
सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ||kútsā eté háryaśvāya śūṣámíndre sáho devájūtamiyānā́ḥ ǀ
satrā́ kṛdhi suhánā śūra vṛtrā́ vayám tárutrāḥ sanuyāma vā́jam ǁkutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ |
satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam ||कुत्साः॑ । ए॒ते । हरि॑ऽअश्वाय । शू॒षम् । इन्द्रे॑ । सहः॑ । दे॒वऽजू॑तम् । इ॒या॒नाः ।
स॒त्रा । कृ॒धि॒ । सु॒ऽहना॑ । शू॒र॒ । वृ॒त्रा । व॒यम् । तरु॑त्राः । स॒नु॒या॒म॒ । वाज॑म् ॥कुत्साः । एते । हरिऽअश्वाय । शूषम् । इन्द्रे । सहः । देवऽजूतम् । इयानाः ।
सत्रा । कृधि । सुऽहना । शूर । वृत्रा । वयम् । तरुत्राः । सनुयाम । वाजम् ॥kútsāḥ ǀ eté ǀ hári-aśvāya ǀ śūṣám ǀ índre ǀ sáhaḥ ǀ devá-jūtam ǀ iyānā́ḥ ǀ
satrā́ ǀ kṛdhi ǀ su-hánā ǀ śūra ǀ vṛtrā́ ǀ vayám ǀ tárutrāḥ ǀ sanuyāma ǀ vā́jam ǁkutsāḥ ǀ ete ǀ hari-aśvāya ǀ śūṣam ǀ indre ǀ sahaḥ ǀ deva-jūtam ǀ iyānāḥ ǀ
satrā ǀ kṛdhi ǀ su-hanā ǀ śūra ǀ vṛtrā ǀ vayam ǀ tarutrāḥ ǀ sanuyāma ǀ vājam ǁ7.25.5 Aṣṭaka 5.3.9.5Anuvāka 7.2.82
-
Ṛk 6
ए॒वा न॑ इंद्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।
इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम |
इषम् पिन्व मघवद्भ्यः सुवीरां यूयम् पात स्वस्तिभिः सदा नः ||evā́ na indra vā́ryasya pūrdhi prá te mahī́m sumatím vevidāma ǀ
íṣam pinva maghávadbhyaḥ suvī́rām yūyám pāta svastíbhiḥ sádā naḥ ǁevā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma |
iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ ||ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ ।
इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । नः । इन्द्र । वार्यस्य । पूर्धि । प्र । ते । महीम् । सुऽमतिम् । वेविदाम ।
इषम् । पिन्व । मघवत्ऽभ्यः । सुऽवीराम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥evá ǀ naḥ ǀ indra ǀ vā́ryasya ǀ pūrdhi ǀ prá ǀ te ǀ mahī́m ǀ su-matím ǀ vevidāma ǀ
íṣam ǀ pinva ǀ maghávat-bhyaḥ ǀ su-vī́rām ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁeva ǀ naḥ ǀ indra ǀ vāryasya ǀ pūrdhi ǀ pra ǀ te ǀ mahīm ǀ su-matim ǀ vevidāma ǀ
iṣam ǀ pinva ǀ maghavat-bhyaḥ ǀ su-vīrām ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.25.6 Aṣṭaka 5.3.9.6Anuvāka 7.2.83
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.