Ṛgveda · Maṇḍala 7

Sūkta 35

Viśvedevās · Vasiṣṭha Maitrāvaruṇi · 15 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1-5, 11, 12); nicṛttriṣṭup (6, 8, 10, 15); virāṭtrisṭup (7, 9); bhurikpaṅkti (13, 14)

2nd set of styles triṣṭubh

  1. Ṛk 1

    शं न॑ इंद्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इंद्रा॒वरु॑णा रा॒तह॑व्या ।
    शमिंद्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इंद्रा॑पू॒षणा॒ वाज॑सातौ ॥

    शं न इन्द्राग्नी भवताम् अवोभिः शं न इन्द्रावरुणा रातहव्या |
    शम् इन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ||

    śám na indrāgnī́ bhavatāmávobhiḥ śám na índrāváruṇā rātáhavyā ǀ
    śámíndrāsómā suvitā́ya śám yóḥ śám na índrāpūṣáṇā vā́jasātau ǁ

    śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā |
    śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau ||

    शम् । नः॒ । इ॒न्द्रा॒ग्नी इति॑ । भ॒व॒ता॒म् । अवः॑ऽभिः । शम् । नः॒ । इन्द्रा॒वरु॑णा । रा॒तऽह॑व्या ।
    शम् । इन्द्रा॒सोमा॑ । सु॒वि॒ताय॑ । शम् । योः । शम् । नः॒ । इन्द्रा॑पू॒षणा॑ । वाज॑ऽसातौ ॥

    शम् । नः । इन्द्राग्नी इति । भवताम् । अवःऽभिः । शम् । नः । इन्द्रावरुणा । रातऽहव्या ।
    शम् । इन्द्रासोमा । सुविताय । शम् । योः । शम् । नः । इन्द्रापूषणा । वाजऽसातौ ॥

    śám ǀ naḥ ǀ indrāgnī́ íti ǀ bhavatām ǀ ávaḥ-bhiḥ ǀ śám ǀ naḥ ǀ índrāváruṇā ǀ rātá-havyā ǀ
    śám ǀ índrāsómā ǀ suvitā́ya ǀ śám ǀ yóḥ ǀ śám ǀ naḥ ǀ índrāpūṣáṇā ǀ vā́ja-sātau ǁ

    śam ǀ naḥ ǀ indrāgnī iti ǀ bhavatām ǀ avaḥ-bhiḥ ǀ śam ǀ naḥ ǀ indrāvaruṇā ǀ rāta-havyā ǀ
    śam ǀ indrāsomā ǀ suvitāya ǀ śam ǀ yoḥ ǀ śam ǀ naḥ ǀ indrāpūṣaṇā ǀ vāja-sātau ǁ

    7.35.1 Aṣṭaka 5.3.28.1Anuvāka 7.3.26

  2. Ṛk 2

    शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ संतु॒ रायः॑ ।
    शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥

    शं नो भगः शम् उ नः शंसो अस्तु शं नः पुरन्धिः शम् उ सन्तु रायः |
    शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ||

    śám no bhágaḥ śámu naḥ śáṃso astu śám naḥ púraṃdhiḥ śámu santu rā́yaḥ ǀ
    śám naḥ satyásya suyámasya śáṃsaḥ śám no aryamā́ purujātó astu ǁ

    śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ |
    śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu ||

    शम् । नः॒ । भगः॑ । शम् । ऊं॒ इति॑ । नः॒ । शंसः॑ । अ॒स्तु॒ । शम् । नः॒ । पुर॑म्ऽधिः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । रायः॑ ।
    शम् । नः॒ । स॒त्यस्य॑ । सु॒ऽयम॑स्य । शंसः॑ । शम् । नः॒ । अ॒र्य॒मा । पु॒रु॒ऽजा॒तः । अ॒स्तु॒ ॥

    शम् । नः । भगः । शम् । ऊं इति । नः । शंसः । अस्तु । शम् । नः । पुरम्ऽधिः । शम् । ऊं इति । सन्तु । रायः ।
    शम् । नः । सत्यस्य । सुऽयमस्य । शंसः । शम् । नः । अर्यमा । पुरुऽजातः । अस्तु ॥

    śám ǀ naḥ ǀ bhágaḥ ǀ śám ǀ ūṃ íti ǀ naḥ ǀ śáṃsaḥ ǀ astu ǀ śám ǀ naḥ ǀ púram-dhiḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ rā́yaḥ ǀ
    śám ǀ naḥ ǀ satyásya ǀ su-yámasya ǀ śáṃsaḥ ǀ śám ǀ naḥ ǀ aryamā́ ǀ puru-jātáḥ ǀ astu ǁ

    śam ǀ naḥ ǀ bhagaḥ ǀ śam ǀ ūṃ iti ǀ naḥ ǀ śaṃsaḥ ǀ astu ǀ śam ǀ naḥ ǀ puram-dhiḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ rāyaḥ ǀ
    śam ǀ naḥ ǀ satyasya ǀ su-yamasya ǀ śaṃsaḥ ǀ śam ǀ naḥ ǀ aryamā ǀ puru-jātaḥ ǀ astu ǁ

    7.35.2 Aṣṭaka 5.3.28.2Anuvāka 7.3.27

  3. Ṛk 3

    शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ ।
    शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि संतु ॥

    शं नो धाता शम् उ धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः |
    शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ||

    śám no dhātā́ śámu dhartā́ no astu śám na urūcī́ bhavatu svadhā́bhiḥ ǀ
    śám ródasī bṛhatī́ śám no ádriḥ śám no devā́nām suhávāni santu ǁ

    śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ |
    śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu ||

    शम् । नः॒ । धा॒ता । शम् । ऊं॒ इति॑ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः॑ ।
    शम् । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । शम् । नः॒ । अद्रिः॑ । शम् । नः॒ । दे॒वाना॑म् । सु॒ऽहवा॑नि । स॒न्तु॒ ॥

    शम् । नः । धाता । शम् । ऊं इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः ।
    शम् । रोदसी इति । बृहती इति । शम् । नः । अद्रिः । शम् । नः । देवानाम् । सुऽहवानि । सन्तु ॥

    śám ǀ naḥ ǀ dhātā́ ǀ śám ǀ ūṃ íti ǀ dhartā́ ǀ naḥ ǀ astu ǀ śám ǀ naḥ ǀ urūcī́ ǀ bhavatu ǀ svadhā́bhiḥ ǀ
    śám ǀ ródasī íti ǀ bṛhatī́ íti ǀ śám ǀ naḥ ǀ ádriḥ ǀ śám ǀ naḥ ǀ devā́nām ǀ su-hávāni ǀ santu ǁ

    śam ǀ naḥ ǀ dhātā ǀ śam ǀ ūṃ iti ǀ dhartā ǀ naḥ ǀ astu ǀ śam ǀ naḥ ǀ urūcī ǀ bhavatu ǀ svadhābhiḥ ǀ
    śam ǀ rodasī iti ǀ bṛhatī iti ǀ śam ǀ naḥ ǀ adriḥ ǀ śam ǀ naḥ ǀ devānām ǀ su-havāni ǀ santu ǁ

    7.35.3 Aṣṭaka 5.3.28.3Anuvāka 7.3.28

  4. Ṛk 4

    शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शं ।
    शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ संतु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥

    शं नो अग्निर् ज्योतिरनीको अस्तु शं नो मित्रावरुणाव् अश्विना शम् |
    शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ||

    śám no agnírjyótiranīko astu śám no mitrā́váruṇāvaśvínā śám ǀ
    śám naḥ sukṛ́tām sukṛtā́ni santu śám na iṣiró abhí vātu vā́taḥ ǁ

    śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam |
    śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ ||

    शम् । नः॒ । अ॒ग्निः । ज्योतिः॑ऽअनीकः । अ॒स्तु॒ । शम् । नः॒ । मि॒त्रावरु॑णौ । अ॒श्विना॑ । शम् ।
    शम् । नः॒ । सु॒ऽकृता॑म् । सु॒ऽकृ॒तानि॑ । स॒न्तु॒ । शम् । नः॒ । इ॒षि॒रः । अ॒भि । वा॒तु॒ । वातः॑ ॥

    शम् । नः । अग्निः । ज्योतिःऽअनीकः । अस्तु । शम् । नः । मित्रावरुणौ । अश्विना । शम् ।
    शम् । नः । सुऽकृताम् । सुऽकृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातु । वातः ॥

    śám ǀ naḥ ǀ agníḥ ǀ jyótiḥ-anīkaḥ ǀ astu ǀ śám ǀ naḥ ǀ mitrā́váruṇau ǀ aśvínā ǀ śám ǀ
    śám ǀ naḥ ǀ su-kṛ́tām ǀ su-kṛtā́ni ǀ santu ǀ śám ǀ naḥ ǀ iṣiráḥ ǀ abhí ǀ vātu ǀ vā́taḥ ǁ

    śam ǀ naḥ ǀ agniḥ ǀ jyotiḥ-anīkaḥ ǀ astu ǀ śam ǀ naḥ ǀ mitrāvaruṇau ǀ aśvinā ǀ śam ǀ
    śam ǀ naḥ ǀ su-kṛtām ǀ su-kṛtāni ǀ santu ǀ śam ǀ naḥ ǀ iṣiraḥ ǀ abhi ǀ vātu ǀ vātaḥ ǁ

    7.35.4 Aṣṭaka 5.3.28.4Anuvāka 7.3.29

  5. Ṛk 5

    शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शमं॒तरि॑क्षं दृ॒शये॑ नो अस्तु ।
    शं न॒ ओष॑धीर्व॒निनो॑ भवंतु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥

    शं नो द्यावापृथिवी पूर्वहूतौ शम् अन्तरिक्षं दृशये नो अस्तु |
    शं न ओषधीर् वनिनो भवन्तु शं नो रजसस् पतिर् अस्तु जिष्णुः ||

    śám no dyā́vāpṛthivī́ pūrváhūtau śámantárikṣam dṛśáye no astu ǀ
    śám na óṣadhīrvaníno bhavantu śám no rájasaspátirastu jiṣṇúḥ ǁ

    śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu |
    śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ ||

    शम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽहू॑तौ । शम् । अ॒न्तरि॑क्षम् । दृ॒शये॑ । नः॒ । अ॒स्तु॒ ।
    शम् । नः॒ । ओष॑धीः । व॒निनः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । रज॑सः । पतिः॑ । अ॒स्तु॒ । जि॒ष्णुः ॥

    शम् । नः । द्यावापृथिवी इति । पूर्वऽहूतौ । शम् । अन्तरिक्षम् । दृशये । नः । अस्तु ।
    शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥

    śám ǀ naḥ ǀ dyā́vāpṛthivī́ íti ǀ pūrvá-hūtau ǀ śám ǀ antárikṣam ǀ dṛśáye ǀ naḥ ǀ astu ǀ
    śám ǀ naḥ ǀ óṣadhīḥ ǀ vanínaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ rájasaḥ ǀ pátiḥ ǀ astu ǀ jiṣṇúḥ ǁ

    śam ǀ naḥ ǀ dyāvāpṛthivī iti ǀ pūrva-hūtau ǀ śam ǀ antarikṣam ǀ dṛśaye ǀ naḥ ǀ astu ǀ
    śam ǀ naḥ ǀ oṣadhīḥ ǀ vaninaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ rajasaḥ ǀ patiḥ ǀ astu ǀ jiṣṇuḥ ǁ

    7.35.5 Aṣṭaka 5.3.28.5Anuvāka 7.3.30

  6. Ṛk 6

    शं न॒ इंद्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ ।
    शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥

    शं न इन्द्रो वसुभिर् देवो अस्तु शम् आदित्येभिर् वरुणः सुशंसः |
    शं नो रुद्रो रुद्रेभिर् जलाषः शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ||

    śám na índro vásubhirdevó astu śámādityébhirváruṇaḥ suśáṃsaḥ ǀ
    śám no rudró rudrébhirjálāṣaḥ śám nastváṣṭā gnā́bhirihá śṛṇotu ǁ

    śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ |
    śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu ||

    शम् । नः॒ । इन्द्रः॑ । वसु॑ऽभिः । दे॒वः । अ॒स्तु॒ । शम् । आ॒दि॒त्येभिः॑ । वरु॑णः । सु॒ऽशंसः॑ ।
    शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः॑ । जला॑षः । शम् । नः॒ । त्वष्टा॑ । ग्नाभिः॑ । इ॒ह । शृ॒णो॒तु॒ ॥

    शम् । नः । इन्द्रः । व��ुऽभिः । देवः । अस्तु । शम् । आदित्येभिः । वरुणः । सुऽशंसः ।
    शम् । नः । रुद्रः । रुद्रेभिः । जलाषः । शम् । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु ॥

    śám ǀ naḥ ǀ índraḥ ǀ vásu-bhiḥ ǀ deváḥ ǀ astu ǀ śám ǀ ādityébhiḥ ǀ váruṇaḥ ǀ su-śáṃsaḥ ǀ
    śám ǀ naḥ ǀ rudráḥ ǀ rudrébhiḥ ǀ jálāṣaḥ ǀ śám ǀ naḥ ǀ tváṣṭā ǀ gnā́bhiḥ ǀ ihá ǀ śṛṇotu ǁ

    śam ǀ naḥ ǀ indraḥ ǀ vasu-bhiḥ ǀ devaḥ ǀ astu ǀ śam ǀ ādityebhiḥ ǀ varuṇaḥ ǀ su-śaṃsaḥ ǀ
    śam ǀ naḥ ǀ rudraḥ ǀ rudrebhiḥ ǀ jalāṣaḥ ǀ śam ǀ naḥ ǀ tvaṣṭā ǀ gnābhiḥ ǀ iha ǀ śṛṇotu ǁ

    7.35.6 Aṣṭaka 5.3.29.1Anuvāka 7.3.31

  7. Ṛk 7

    शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ संतु य॒ज्ञाः ।
    शं नः॒ स्वरू॑णां मि॒तयो॑ भवंतु॒ शं नः॑ प्र॒स्वः१॒॑ शम्व॑स्तु॒ वेदिः॑ ॥

    शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शम् उ सन्तु यज्ञाः |
    शं नः स्वरूणाम् मितयो भवन्तु शं नः प्रस्वः शम् व् अस्तु वेदिः ||

    śám naḥ sómo bhavatu bráhma śám naḥ śám no grā́vāṇaḥ śámu santu yajñā́ḥ ǀ
    śám naḥ svárūṇām mitáyo bhavantu śám naḥ prasváḥ śámvastu védiḥ ǁ

    śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ |
    śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ ||

    शम् । नः॒ । सोमः॑ । भ॒व॒तु॒ । ब्रह्म॑ । शम् । नः॒ । शम् । नः॒ । ग्रावा॑णः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । य॒ज्ञाः ।
    शम् । नः॒ । स्वरू॑णाम् । मि॒तयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । प्र॒ऽस्वः॑ । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वेदिः॑ ॥

    शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ऊं इति । सन्तु । यज्ञाः ।
    शम् । नः । स्वरूणाम् । मितयः । भवन्तु । शम् । नः । प्रऽस्वः । शम् । ऊं इति । अस्तु । वेदिः ॥

    śám ǀ naḥ ǀ sómaḥ ǀ bhavatu ǀ bráhma ǀ śám ǀ naḥ ǀ śám ǀ naḥ ǀ grā́vāṇaḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ yajñā́ḥ ǀ
    śám ǀ naḥ ǀ svárūṇām ǀ mitáyaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ pra-sváḥ ǀ śám ǀ ūṃ íti ǀ astu ǀ védiḥ ǁ

    śam ǀ naḥ ǀ somaḥ ǀ bhavatu ǀ brahma ǀ śam ǀ naḥ ǀ śam ǀ naḥ ǀ grāvāṇaḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ yajñāḥ ǀ
    śam ǀ naḥ ǀ svarūṇām ǀ mitayaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ pra-svaḥ ǀ śam ǀ ūṃ iti ǀ astu ǀ vediḥ ǁ

    7.35.7 Aṣṭaka 5.3.29.2Anuvāka 7.3.32

  8. Ṛk 8

    शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवंतु ।
    शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवंतु॒ शं नः॒ सिंध॑वः॒ शमु॑ सं॒त्वापः॑ ॥

    शं नः सूर्य उरुचक्षा उद् एतु शं नश् चतस्रः प्रदिशो भवन्तु |
    शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शम् उ सन्त्व् आपः ||

    śám naḥ sū́rya urucákṣā údetu śám naścátasraḥ pradíśo bhavantu ǀ
    śám naḥ párvatā dhruváyo bhavantu śám naḥ síndhavaḥ śámu santvā́paḥ ǁ

    śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu |
    śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ ||

    शम् । नः॒ । सूर्यः॑ । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒तु॒ । शम् । नः॒ । चत॑स्रः । प्र॒ऽदिशः॑ । भ॒व॒न्तु॒ ।
    शम् । नः॒ । पर्व॑ताः । ध्रु॒वयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । सिन्ध॑वः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आपः॑ ॥

    शम् । नः । सूर्यः । उरुऽचक्षाः । उत् । एतु । शम् । नः । चतस्रः । प्रऽदिशः । भवन्तु ।
    शम् । नः । पर्वताः । ध्रुवयः । भवन्तु । शम् । नः । सिन्धवः । शम् । ऊं इति । सन्तु । आपः ॥

    śám ǀ naḥ ǀ sū́ryaḥ ǀ uru-cákṣāḥ ǀ út ǀ etu ǀ śám ǀ naḥ ǀ cátasraḥ ǀ pra-díśaḥ ǀ bhavantu ǀ
    śám ǀ naḥ ǀ párvatāḥ ǀ dhruváyaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ síndhavaḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ ā́paḥ ǁ

    śam ǀ naḥ ǀ sūryaḥ ǀ uru-cakṣāḥ ǀ ut ǀ etu ǀ śam ǀ naḥ ǀ catasraḥ ǀ pra-diśaḥ ǀ bhavantu ǀ
    śam ǀ naḥ ǀ parvatāḥ ǀ dhruvayaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ sindhavaḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ āpaḥ ǁ

    7.35.8 Aṣṭaka 5.3.29.3Anuvāka 7.3.33

  9. Ṛk 9

    शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवंतु म॒रुतः॑ स्व॒र्काः ।
    शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥

    शं नो अदितिर् भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः |
    शं नो विष्णुः शम् उ पूषा नो अस्तु शं नो भवित्रं शम् व् अस्तु वायुः ||

    śám no áditirbhavatu vratébhiḥ śám no bhavantu marútaḥ svarkā́ḥ ǀ
    śám no víṣṇuḥ śámu pūṣā́ no astu śám no bhavítram śámvastu vāyúḥ ǁ

    śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ |
    śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ ||

    शम् । नः॒ । अदि॑तिः । भ॒व॒तु॒ । व्र॒तेभिः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । म॒रुतः॑ । सु॒ऽअ॒र्काः ।
    शम् । नः॒ । विष्णुः॑ । शम् । ऊं॒ इति॑ । पू॒षा । नः॒ । अ॒स्तु॒ । शम् । नः॒ । भ॒वित्र॑म् । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वा॒युः ॥

    शम् । नः । अदितिः । भवतु । व्रतेभिः । शम् । नः । भवन्तु । मरुतः । सुऽअर्काः ।
    शम् । नः । विष्णुः । शम् । ऊं इति । पूषा । नः । अस्तु । शम् । नः । भवित्रम् । शम् । ऊं इति । अस्तु । वायुः ॥

    śám ǀ naḥ ǀ áditiḥ ǀ bhavatu ǀ vratébhiḥ ǀ śám ǀ naḥ ǀ bhavantu ǀ marútaḥ ǀ su-arkā́ḥ ǀ
    śám ǀ naḥ ǀ víṣṇuḥ ǀ śám ǀ ūṃ íti ǀ pūṣā́ ǀ naḥ ǀ astu ǀ śám ǀ naḥ ǀ bhavítram ǀ śám ǀ ūṃ íti ǀ astu ǀ vāyúḥ ǁ

    śam ǀ naḥ ǀ aditiḥ ǀ bhavatu ǀ vratebhiḥ ǀ śam ǀ naḥ ǀ bhavantu ǀ marutaḥ ǀ su-arkāḥ ǀ
    śam ǀ naḥ ǀ viṣṇuḥ ǀ śam ǀ ūṃ iti ǀ pūṣā ǀ naḥ ǀ astu ǀ śam ǀ naḥ ǀ bhavitram ǀ śam ǀ ūṃ iti ǀ astu ǀ vāyuḥ ǁ

    7.35.9 Aṣṭaka 5.3.29.4Anuvāka 7.3.34

  10. Ṛk 10

    शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवंतू॒षसो॑ विभा॒तीः ।
    शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु शं॒भुः ॥

    शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः |
    शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ||

    śám no deváḥ savitā́ trā́yamāṇaḥ śám no bhavantūṣáso vibhātī́ḥ ǀ
    śám naḥ parjányo bhavatu prajā́bhyaḥ śám naḥ kṣétrasya pátirastu śambhúḥ ǁ

    śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ |
    śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ ||

    शम् । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । शम् । नः॒ । भ॒व॒न्तु॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ।
    शम् । नः॒ । प॒र्जन्यः॑ । भ॒व॒तु॒ । प्र॒ऽजाभ्यः॑ । शम् । नः॒ । क्षेत्र॑स्य । पतिः॑ । अ॒स्तु॒ । श॒म्ऽभुः ॥

    शम् । नः । देवः । सविता । त्रायमाणः । शम् । नः । भवन्तु । उषसः । विऽभातीः ।
    शम् । नः । पर्जन्यः । भवतु । प्रऽजाभ्यः । शम् । नः । क्षेत्रस्य । पतिः । अस्तु । शम्ऽभुः ॥

    śám ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ trā́yamāṇaḥ ǀ śám ǀ naḥ ǀ bhavantu ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ
    śám ǀ naḥ ǀ parjányaḥ ǀ bhavatu ǀ pra-jā́bhyaḥ ǀ śám ǀ naḥ ǀ kṣétrasya ǀ pátiḥ ǀ astu ǀ śam-bhúḥ ǁ

    śam ǀ naḥ ǀ devaḥ ǀ savitā ǀ trāyamāṇaḥ ǀ śam ǀ naḥ ǀ bhavantu ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ
    śam ǀ naḥ ǀ parjanyaḥ ǀ bhavatu ǀ pra-jābhyaḥ ǀ śam ǀ naḥ ǀ kṣetrasya ǀ patiḥ ǀ astu ǀ śam-bhuḥ ǁ

    7.35.10 Aṣṭaka 5.3.29.5Anuvāka 7.3.35

  11. Ṛk 11

    शं नो॑ दे॒वा वि॒श्वदे॑वा भवंतु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु ।
    शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ॥

    शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु |
    शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ||

    śám no devā́ viśvádevā bhavantu śám sárasvatī sahá dhībhírastu ǀ
    śámabhiṣā́caḥ śámu rātiṣā́caḥ śám no divyā́ḥ pā́rthivāḥ śám no ápyāḥ ǁ

    śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu |
    śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ ||

    शम् । नः॒ । दे॒वाः । वि॒श्वऽदे॑वाः । भ॒व॒न्तु॒ । शम् । सर॑स्वती । स॒ह । धी॒भिः । अ॒स्तु॒ ।
    शम् । अ॒भि॒ऽसाचः॑ । शम् । ऊं॒ इति॑ । रा॒ति॒ऽसाचः॑ । शम् । नः॒ । दि॒व्याः । पार्थि॑वाः । शम् । नः॒ । अप्याः॑ ॥

    शम् । नः । देवाः । विश्वऽदेवाः । भवन्तु । शम् । सरस्वती । सह । धीभिः । अस्तु ।
    शम् । अभिऽसाचः । शम् । ऊं इति । रातिऽसाचः । शम् । नः । दिव्याः । पार्थिवाः । शम् । नः । अप्याः ॥

    śám ǀ naḥ ǀ devā́ḥ ǀ viśvá-devāḥ ǀ bhavantu ǀ śám ǀ sárasvatī ǀ sahá ǀ dhībhíḥ ǀ astu ǀ
    śám ǀ abhi-sā́caḥ ǀ śám ǀ ūṃ íti ǀ rāti-sā́caḥ ǀ śám ǀ naḥ ǀ divyā́ḥ ǀ pā́rthivāḥ ǀ śám ǀ naḥ ǀ ápyāḥ ǁ

    śam ǀ naḥ ǀ devāḥ ǀ viśva-devāḥ ǀ bhavantu ǀ śam ǀ sarasvatī ǀ saha ǀ dhībhiḥ ǀ astu ǀ
    śam ǀ abhi-sācaḥ ǀ śam ǀ ūṃ iti ǀ rāti-sācaḥ ǀ śam ǀ naḥ ǀ divyāḥ ǀ pārthivāḥ ǀ śam ǀ naḥ ǀ apyāḥ ǁ

    7.35.11 Aṣṭaka 5.3.30.1Anuvāka 7.3.36

  12. Ṛk 12

    शं नः॑ स॒त्यस्य॒ पत॑यो भवंतु॒ शं नो॒ अर्वं॑तः॒ शमु॑ संतु॒ गावः॑ ।
    शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवंतु पि॒तरो॒ हवे॑षु ॥

    शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शम् उ सन्तु गावः |
    शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ||

    śám naḥ satyásya pátayo bhavantu śám no árvantaḥ śámu santu gā́vaḥ ǀ
    śám na ṛbhávaḥ sukṛ́taḥ suhástāḥ śám no bhavantu pitáro háveṣu ǁ

    śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ |
    śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu ||

    शम् । नः॒ । स॒त्यस्य॑ । पत॑यः । भ॒व॒न्तु॒ । शम् । नः॒ । अर्व॑न्तः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । गावः॑ ।
    शम् । नः॒ । ऋ॒भवः॑ । सु॒ऽकृतः॑ । सु॒ऽहस्ताः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥

    शम् । नः । सत्यस्य । पतयः । भवन्तु । शम् । नः । अर्वन्तः । शम् । ऊं इति । सन्तु । गावः ।
    शम् । नः । ऋभवः । सुऽकृतः । सुऽहस्ताः । शम् । नः । भवन्तु । पितरः । हवेषु ॥

    śám ǀ naḥ ǀ satyásya ǀ pátayaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ árvantaḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ gā́vaḥ ǀ
    śám ǀ naḥ ǀ ṛbhávaḥ ǀ su-kṛ́taḥ ǀ su-hástāḥ ǀ śám ǀ naḥ ǀ bhavantu ǀ pitáraḥ ǀ háveṣu ǁ

    śam ǀ naḥ ǀ satyasya ǀ patayaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ arvantaḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ gāvaḥ ǀ
    śam ǀ naḥ ǀ ṛbhavaḥ ǀ su-kṛtaḥ ǀ su-hastāḥ ǀ śam ǀ naḥ ǀ bhavantu ǀ pitaraḥ ǀ haveṣu ǁ

    7.35.12 Aṣṭaka 5.3.30.2Anuvāka 7.3.37

  13. Ṛk 13

    शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्यः१॒॑ शं स॑मु॒द्रः ।
    शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥

    शं नो अज एकपाद् देवो अस्तु शं नो ऽहिर् बुध्न्यः शं समुद्रः |
    शं नो अपां नपात् पेरुर् अस्तु शं नः पृश्निर् भवतु देवगोपा ||

    śám no ajá ékapāddevó astu śám nó’hirbudhnyáḥ śám samudráḥ ǀ
    śám no apā́m nápātperúrastu śám naḥ pṛ́śnirbhavatu devágopā ǁ

    śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ |
    śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā ||

    शम् । नः॒ । अ॒जः । एक॑ऽपात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शम् । स॒मु॒द्रः ।
    शम् । नः॒ । अ॒पाम् । नपा॑त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः॑ । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥

    शम् । नः । अजः । एकऽपात् । देवः । अस्तु । शम् । नः । अहिः । बुध्न्यः । शम् । समुद्रः ।
    शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भवतु । देवऽगोपा ॥

    śám ǀ naḥ ǀ ajáḥ ǀ éka-pāt ǀ deváḥ ǀ astu ǀ śám ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ śám ǀ samudráḥ ǀ
    śám ǀ naḥ ǀ apā́m ǀ nápāt ǀ perúḥ ǀ astu ǀ śám ǀ naḥ ǀ pṛ́śniḥ ǀ bhavatu ǀ devá-gopā ǁ

    śam ǀ naḥ ǀ ajaḥ ǀ eka-pāt ǀ devaḥ ǀ astu ǀ śam ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ śam ǀ samudraḥ ǀ
    śam ǀ naḥ ǀ apām ǀ napāt ǀ peruḥ ǀ astu ǀ śam ǀ naḥ ǀ pṛśniḥ ǀ bhavatu ǀ deva-gopā ǁ

    7.35.13 Aṣṭaka 5.3.30.3Anuvāka 7.3.38

  14. Ṛk 14

    आ॒दि॒त्या रु॒द्रा वस॑वो जुषंते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः ।
    शृ॒ण्वंतु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥

    आदित्या रुद्रा वसवो जुषन्तेदम् ब्रह्म क्रियमाणं नवीयः |
    शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ||

    ādityā́ rudrā́ vásavo juṣantedám bráhma kriyámāṇam návīyaḥ ǀ
    śṛṇvántu no divyā́ḥ pā́rthivāso gójātā utá yé yajñíyāsaḥ ǁ

    ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ |
    śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ ||

    आ॒दि॒त्याः । रु॒द्राः । वस॑वः । जु॒ष॒न्त॒ । इ॒दम् । ब्रह्म॑ । क्रि॒यमा॑णम् । नवी॑यः ।
    शृ॒ण्वन्तु॑ । नः॒ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ॥

    आदित्याः । रुद्राः । वसवः । जुषन्त । इदम् । ब्रह्म । क्रियमाणम् । नवीयः ।
    शृण्वन्तु । नः । दिव्याः । पार्थिवासः । गोऽजाताः । उत । ये । यज्ञियासः ॥

    ādityā́ḥ ǀ rudrā́ḥ ǀ vásavaḥ ǀ juṣanta ǀ idám ǀ bráhma ǀ kriyámāṇam ǀ návīyaḥ ǀ
    śṛṇvántu ǀ naḥ ǀ divyā́ḥ ǀ pā́rthivāsaḥ ǀ gó-jātāḥ ǀ utá ǀ yé ǀ yajñíyāsaḥ ǁ

    ādityāḥ ǀ rudrāḥ ǀ vasavaḥ ǀ juṣanta ǀ idam ǀ brahma ǀ kriyamāṇam ǀ navīyaḥ ǀ
    śṛṇvantu ǀ naḥ ǀ divyāḥ ǀ pārthivāsaḥ ǀ go-jātāḥ ǀ uta ǀ ye ǀ yajñiyāsaḥ ǁ

    7.35.14 Aṣṭaka 5.3.30.4Anuvāka 7.3.39

  15. Ṛk 15

    ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
    ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    ये देवानां यज्ञिया यज्ञियानाम् मनोर् यजत्रा अमृता ऋतज्ञाः |
    ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ||

    yé devā́nām yajñíyā yajñíyānām mánoryájatrā amṛ́tā ṛtajñā́ḥ ǀ
    té no rāsantāmurugāyámadyá yūyám pāta svastíbhiḥ sádā naḥ ǁ

    ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ |
    te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

    ये । दे॒वाना॑म् । य॒ज्ञियाः॑ । य॒ज्ञिया॑नाम् । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।
    ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

    ये । देवानाम् । यज्ञियाः । यज्ञियानाम् । मनोः । यजत्राः । अमृताः । ऋतऽज्ञाः ।
    ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

    yé ǀ devā́nām ǀ yajñíyāḥ ǀ yajñíyānām ǀ mánoḥ ǀ yájatrāḥ ǀ amṛ́tāḥ ǀ ṛta-jñā́ḥ ǀ
    té ǀ naḥ ǀ rāsantām ǀ uru-gāyám ǀ adyá ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

    ye ǀ devānām ǀ yajñiyāḥ ǀ yajñiyānām ǀ manoḥ ǀ yajatrāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ
    te ǀ naḥ ǀ rāsantām ǀ uru-gāyam ǀ adya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

    7.35.15 Aṣṭaka 5.3.30.5Anuvāka 7.3.40

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.35 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

BEFRIEND us with their aids Indra and Agni, Indra and Varuṇa who receive oblations! Indra and Soma give health, strength and comfort, Indra and Pūṣan be our help in battle.

Ṛk 2

Auspicious Friends to us be Bhaga, Sathsa, auspicious be Purandhi aid all Riches; The blessing of the true and well-conducted, and Aryaman in many forms apparent.

Ṛk 3

Kind unto us he Maker and Sustainer, and the far-reaching Pair with God-like natures. Auspicious unto us be Earth and Heaven, the Mountain, and the Gods’ fair invocations.

Ṛk 4

Favour us Agni with his face of splendour, and Varuva and Mitra and the Aśvins. Favour us noble actions of the pious, impetuous vita blow on us with favour.

Ṛk 5

Early invoked, may Heaven and Earth be friendly, and Air's mid-region good for us to look on. To us may Herbs and Forest-Trees be gracious, gracious the Lord Victorious of the region.

Ṛk 6

Be the God Indra with the Vasus friendly, and, with Ādityas, Varuṇa who blesseth. Kind, with the Rudras, be the Healer Rudra, and, with the Dames, may Tvaṣṭar kindly listen.

Ṛk 7

Blest unto us be Soma, and devotions, blest be the Sacrifice, the Stones for pressing. Blest be the fixing of the sacred Pillars, blest be the tender Grass and blest the Altar.

Ṛk 8

May the far-seeing Sun rise up to bless us: be the four Quarters of the sky auspicious. Auspicious be the firmly-seated Mountains, auspicious be the Rivers and the Waters.

Ṛk 9

May Adid through holy works be gracioas, and may the Maruts, loud in song, be friendly. May Viṣṇu give felicity, and Pūṣan, the Air that cherisheth our life, and Vāyu.

Ṛk 10

Prosper us Savitar, the God who rescues, and let the radiant Mornings be propitious. Auspicious to all creatures be Parjanya, auspicious be the field's benign Protector.

Ṛk 11

May all the fellowship of Gods befriend us, Sarasvatī, with Holy Thoughts, be gracious. Friendly be they, the Liberal Ones who seek us, yea, those who dwell in heaven, on earth, in waters.

Ṛk 12

May the great Lords of Truth protect and aid us: blest to us be our horses and our cattle. Kind be the pious skilful-handed Ṛbhus, kind be the Fathers at our invocations.

Ṛk 13

May Aja-Ekapād, the God, be gracious, gracious the Dragon of the Deep, and Ocean. Gracious be he the swelling Child of Waters, gracious be Pṛśni who hath Gods to guard her.

Ṛk 14

So may the Rudras, Vasus, and Ādityas accept the new hymn which we now are making. May all the Holy Ones of earth and heaven, and the Cow's offipring hear our invocation.