Ṛgveda · Maṇḍala 7 · Sūkta 35

Ṛk 7.35.15

Viśvedevās · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

ये देवानां यज्ञिया यज्ञियानाम् मनोर् यजत्रा अमृता ऋतज्ञाः |
ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ||

yé devā́nām yajñíyā yajñíyānām mánoryájatrā amṛ́tā ṛtajñā́ḥ ǀ
té no rāsantāmurugāyámadyá yūyám pāta svastíbhiḥ sádā naḥ ǁ

ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ |
te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

ये । दे॒वाना॑म् । य॒ज्ञियाः॑ । य॒ज्ञिया॑नाम् । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।
ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

ये । देवानाम् । यज्ञियाः । यज्ञियानाम् । मनोः । यजत्राः । अमृताः । ऋतऽज्ञाः ।
ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

yé ǀ devā́nām ǀ yajñíyāḥ ǀ yajñíyānām ǀ mánoḥ ǀ yájatrāḥ ǀ amṛ́tāḥ ǀ ṛta-jñā́ḥ ǀ
té ǀ naḥ ǀ rāsantām ǀ uru-gāyám ǀ adyá ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

ye ǀ devānām ǀ yajñiyāḥ ǀ yajñiyānām ǀ manoḥ ǀ yajatrāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ
te ǀ naḥ ǀ rāsantām ǀ uru-gāyam ǀ adya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
07.035.15
Aṣṭaka · Adhyāya · Varga · Ṛk
5.3.30.05
Maṇḍala · Anuvāka · Ṛk
07.03.040
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.35.15

Interpretations

Sāyaṇa

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पंचमाष्टके तृतीयोध्यायः समाप्तः ॥ ३ ॥