Sūkta 38
- Devatā देवता
- 1-6: Savitṛ; 7, 8: Vājinaḥ
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 8); svarāṭpaṅkti (2, 4, 6); virāṭtrisṭup (5); bhurikpaṅkti (7)
2nd set of styles triṣṭubh
-
Ṛk 1
उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥उद् उ ष्य देवः सविता ययाम हिरण्ययीम् अमतिं याम् अशिश्रेत् |
नूनम् भगो हव्यो मानुषेभिर् वि यो रत्ना पुरूवसुर् दधाति ||údu ṣyá deváḥ savitā́ yayāma hiraṇyáyīmamátim yā́máśiśret ǀ
nūnám bhágo hávyo mā́nuṣebhirví yó rátnā purūvásurdádhāti ǁud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret |
nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti ||उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् ।
नू॒नम् । भगः॑ । हव्यः॑ । मानु॑षेभिः । वि । यः । रत्ना॑ । पु॒रु॒ऽवसुः॑ । दधा॑ति ॥उत् । ऊं इति । स्यः । देवः । सविता । ययाम । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् ।
नूनम् । भगः । हव्यः । मानुषेभिः । वि । यः । रत्ना । पुरुऽवसुः । दधाति ॥út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ yayāma ǀ hiraṇyáyīm ǀ amátim ǀ yā́m ǀ áśiśret ǀ
nūnám ǀ bhágaḥ ǀ hávyaḥ ǀ mā́nuṣebhiḥ ǀ ví ǀ yáḥ ǀ rátnā ǀ puru-vásuḥ ǀ dádhāti ǁut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ yayāma ǀ hiraṇyayīm ǀ amatim ǀ yām ǀ aśiśret ǀ
nūnam ǀ bhagaḥ ǀ havyaḥ ǀ mānuṣebhiḥ ǀ vi ǀ yaḥ ǀ ratnā ǀ puru-vasuḥ ǀ dadhāti ǁ7.38.1 Aṣṭaka 5.4.5.1Anuvāka 7.3.58
-
Ṛk 2
उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ ।
व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥उद् उ तिष्ठ सवितः श्रुध्य् अस्य हिरण्यपाणे प्रभृताव् ऋतस्य |
व्य् उर्वीम् पृथ्वीम् अमतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ||údu tiṣṭha savitaḥ śrudhyásyá híraṇyapāṇe prábhṛtāvṛtásya ǀ
vyúrvī́m pṛthvī́mamátim sṛjāná ā́ nṛ́bhyo martabhójanam suvānáḥ ǁud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya |
vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ ||उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । स॒वि॒त॒रिति॑ । श्रु॒धि । अ॒स्य । हिर॑ण्यऽपाणे । प्रऽभृ॑तौ । ऋ॒तस्य॑ ।
वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति॑म् । सृ॒जा॒नः । आ । नृऽभ्यः॑ । म॒र्त॒ऽभोज॑नम् । सु॒वा॒नः ॥उत् । ऊं इति । तिष्ठ । सवितरिति । श्रुधि । अस्य । हिरण्यऽपाणे । प्रऽभृतौ । ऋतस्य ।
वि । उर्वीम् । पृथ्वीम् । अमतिम् । सृजानः । आ । नृऽभ्यः । मर्तऽभोजनम् । सुवानः ॥út ǀ ūṃ íti ǀ tiṣṭha ǀ savitaríti ǀ śrudhí ǀ asyá ǀ híraṇya-pāṇe ǀ prá-bhṛtau ǀ ṛtásya ǀ
ví ǀ urvī́m ǀ pṛthvī́m ǀ amátim ǀ sṛjānáḥ ǀ ā́ ǀ nṛ́-bhyaḥ ǀ marta-bhójanam ǀ suvānáḥ ǁut ǀ ūṃ iti ǀ tiṣṭha ǀ savitariti ǀ śrudhi ǀ asya ǀ hiraṇya-pāṇe ǀ pra-bhṛtau ǀ ṛtasya ǀ
vi ǀ urvīm ǀ pṛthvīm ǀ amatim ǀ sṛjānaḥ ǀ ā ǀ nṛ-bhyaḥ ǀ marta-bhojanam ǀ suvānaḥ ǁ7.38.2 Aṣṭaka 5.4.5.2Anuvāka 7.3.59
-
Ṛk 3
अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णंति॑ ।
स नः॒ स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥अपि ष्टुतः सविता देवो अस्तु यम् आ चिद् विश्वे वसवो गृणन्ति |
स न स्तोमान् नमस्यश् चनो धाद् विश्वेभिः पातु पायुभिर् नि सूरीन् ||ápi ṣṭutáḥ savitā́ devó astu yámā́ cidvíśve vásavo gṛṇánti ǀ
sá naḥ stómānnamasyáścáno dhādvíśvebhiḥ pātu pāyúbhirní sūrī́n ǁapi ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti |
sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn ||अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ ।
सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥अपि । स्तुतः । सविता । देवः । अस्तु । यम् । आ । चित् । विश्वे । वसवः । गृणन्ति ।
सः । नः । स्तोमान् । नमस्यः । चनः । धात् । विश्वेभिः । पातु । पायुऽभिः । नि । सूरीन् ॥ápi ǀ stutáḥ ǀ savitā́ ǀ deváḥ ǀ astu ǀ yám ǀ ā́ ǀ cit ǀ víśve ǀ vásavaḥ ǀ gṛṇánti ǀ
sáḥ ǀ naḥ ǀ stómān ǀ namasyáḥ ǀ cánaḥ ǀ dhāt ǀ víśvebhiḥ ǀ pātu ǀ pāyú-bhiḥ ǀ ní ǀ sūrī́n ǁapi ǀ stutaḥ ǀ savitā ǀ devaḥ ǀ astu ǀ yam ǀ ā ǀ cit ǀ viśve ǀ vasavaḥ ǀ gṛṇanti ǀ
saḥ ǀ naḥ ǀ stomān ǀ namasyaḥ ǀ canaḥ ǀ dhāt ǀ viśvebhiḥ ǀ pātu ǀ pāyu-bhiḥ ǀ ni ǀ sūrīn ǁ7.38.3 Aṣṭaka 5.4.5.3Anuvāka 7.3.60
-
Ṛk 4
अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा ।
अ॒भि स॒म्राजो॒ वरु॑णो गृणंत्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषाः॑ ॥अभि यं देव्य् अदितिर् गृणाति सवं देवस्य सवितुर् जुषाणा |
अभि सम्राजो वरुणो गृणन्त्य् अभि मित्रासो अर्यमा सजोषाः ||abhí yám devyáditirgṛṇā́ti savám devásya savitúrjuṣāṇā́ ǀ
abhí samrā́jo váruṇo gṛṇantyabhí mitrā́so aryamā́ sajóṣāḥ ǁabhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā |
abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ ||अ॒भि । यम् । दे॒वी । अदि॑तिः । गृ॒णाति॑ । स॒वम् । दे॒वस्य॑ । स॒वि॒तुः । जु॒षा॒णा ।
अ॒भि । स॒म्ऽराजः॑ । वरु॑णः । गृ॒ण॒न्ति॒ । अ॒भि । मि॒त्रासः॑ । अ॒र्य॒मा । स॒ऽजोषाः॑ ॥अभि । यम् । देवी । अदितिः । गृणाति । सवम् । देवस्य । सवितुः । जुषाणा ।
अभि । सम्ऽराजः । वरुणः । गृणन्ति । अभि । मित्रासः । अर्यमा । सऽजोषाः ॥abhí ǀ yám ǀ devī́ ǀ áditiḥ ǀ gṛṇā́ti ǀ savám ǀ devásya ǀ savitúḥ ǀ juṣāṇā́ ǀ
abhí ǀ sam-rā́jaḥ ǀ váruṇaḥ ǀ gṛṇanti ǀ abhí ǀ mitrā́saḥ ǀ aryamā́ ǀ sa-jóṣāḥ ǁabhi ǀ yam ǀ devī ǀ aditiḥ ǀ gṛṇāti ǀ savam ǀ devasya ǀ savituḥ ǀ juṣāṇā ǀ
abhi ǀ sam-rājaḥ ǀ varuṇaḥ ǀ gṛṇanti ǀ abhi ǀ mitrāsaḥ ǀ aryamā ǀ sa-joṣāḥ ǁ7.38.4 Aṣṭaka 5.4.5.4Anuvāka 7.3.61
-
Ṛk 5
अ॒भि ये मि॒थो व॒नुषः॒ सपं॑ते रा॒तिं दि॒वो रा॑ति॒षाचः॑ पृथि॒व्याः ।
अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः |
अहिर् बुध्न्य उत नः शृणोतु वरूत्र्य् एकधेनुभिर् नि पातु ||abhí yé mithó vanúṣaḥ sápante rātím divó rātiṣā́caḥ pṛthivyā́ḥ ǀ
áhirbudhnyá utá naḥ śṛṇotu várūtryékadhenubhirní pātu ǁabhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ |
ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu ||अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् । दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः ।
अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥अभि । ये । मिथः । वनुषः । सपन्ते । रातिम् । दिवः । रातिऽसाचः । पृथिव्याः ।
अहिः । बुध्न्यः । उत । नः । शृणोतु । वरूत्री । एकधेनुऽभिः । नि । पातु ॥abhí ǀ yé ǀ mitháḥ ǀ vanúṣaḥ ǀ sápante ǀ rātím ǀ diváḥ ǀ rāti-sā́caḥ ǀ pṛthivyā́ḥ ǀ
áhiḥ ǀ budhnyáḥ ǀ utá ǀ naḥ ǀ śṛṇotu ǀ várūtrī ǀ ékadhenu-bhiḥ ǀ ní ǀ pātu ǁabhi ǀ ye ǀ mithaḥ ǀ vanuṣaḥ ǀ sapante ǀ rātim ǀ divaḥ ǀ rāti-sācaḥ ǀ pṛthivyāḥ ǀ
ahiḥ ǀ budhnyaḥ ǀ uta ǀ naḥ ǀ śṛṇotu ǀ varūtrī ǀ ekadhenu-bhiḥ ǀ ni ǀ pātu ǁ7.38.5 Aṣṭaka 5.4.5.5Anuvāka 7.3.62
-
Ṛk 6
अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः ।
भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्नं॑ ॥अनु तन् नो जास्पतिर् मंसीष्ट रत्नं देवस्य सवितुर् इयानः |
भगम् उग्रो ऽवसे जोहवीति भगम् अनुग्रो अध याति रत्नम् ||ánu tánno jā́spátirmaṃsīṣṭa rátnam devásya savitúriyānáḥ ǀ
bhágamugró’vase jóhavīti bhágamánugro ádha yāti rátnam ǁanu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ |
bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam ||अनु॑ । तत् । नः॒ । जाःऽपतिः॑ । मं॒सी॒ष्ट॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नः ।
भग॑म् । उ॒ग्रः । अव॑से । जोह॑वीति । भग॑म् । अनु॑ग्रः । अध॑ । या॒ति॒ । रत्न॑म् ॥अनु । तत् । नः । जाःऽपतिः । मंसीष्ट । रत्नम् । देवस्य । सवितुः । इयानः ।
भगम् । उग्रः । अवसे । जोहवीति । भगम् । अनुग्रः । अध । याति । रत्नम् ॥ánu ǀ tát ǀ naḥ ǀ jā́ḥ-pátiḥ ǀ maṃsīṣṭa ǀ rátnam ǀ devásya ǀ savitúḥ ǀ iyānáḥ ǀ
bhágam ǀ ugráḥ ǀ ávase ǀ jóhavīti ǀ bhágam ǀ ánugraḥ ǀ ádha ǀ yāti ǀ rátnam ǁanu ǀ tat ǀ naḥ ǀ jāḥ-patiḥ ǀ maṃsīṣṭa ǀ ratnam ǀ devasya ǀ savituḥ ǀ iyānaḥ ǀ
bhagam ǀ ugraḥ ǀ avase ǀ johavīti ǀ bhagam ǀ anugraḥ ǀ adha ǀ yāti ǀ ratnam ǁ7.38.6 Aṣṭaka 5.4.5.6Anuvāka 7.3.63
-
Ṛk 7
शं नो॑ भवंतु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
जं॒भयं॒तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः |
जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ||śám no bhavantu vājíno háveṣu devátātā mitádravaḥ svarkā́ḥ ǀ
jambháyantó’him vṛ́kam rákṣāṃsi sánemyasmádyuyavannámīvāḥ ǁśaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ |
jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ ||शम् । नः॒ । भ॒व॒न्तु॒ । वा॒जिनः॑ । हवे॑षु । दे॒वऽता॑ता । मि॒तऽद्र॑वः । सु॒ऽअ॒र्काः ।
ज॒म्भय॑न्तः । अहि॑म् । वृक॑म् । रक्षां॑सि । सने॑मि । अ॒स्मत् । यु॒य॒व॒न् । अमी॑वाः ॥शम् । नः । भवन्तु । वाजिनः । हवेषु । देवऽताता । मितऽद्रवः । सुऽअर्काः ।
जम्भयन्तः । अहिम् । वृकम् । रक्षांसि । सनेमि । अस्मत् । युयवन् । अमीवाः ॥śám ǀ naḥ ǀ bhavantu ǀ vājínaḥ ǀ háveṣu ǀ devá-tātā ǀ mitá-dravaḥ ǀ su-arkā́ḥ ǀ
jambháyantaḥ ǀ áhim ǀ vṛ́kam ǀ rákṣāṃsi ǀ sánemi ǀ asmát ǀ yuyavan ǀ ámīvāḥ ǁśam ǀ naḥ ǀ bhavantu ǀ vājinaḥ ǀ haveṣu ǀ deva-tātā ǀ mita-dravaḥ ǀ su-arkāḥ ǀ
jambhayantaḥ ǀ ahim ǀ vṛkam ǀ rakṣāṃsi ǀ sanemi ǀ asmat ǀ yuyavan ǀ amīvāḥ ǁ7.38.7 Aṣṭaka 5.4.5.7Anuvāka 7.3.64
-
Ṛk 8
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः |
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ||vā́jevāje’vata vājino no dháneṣu viprā amṛtā ṛtajñāḥ ǀ
asyá mádhvaḥ pibata mādáyadhvam tṛptā́ yāta pathíbhirdevayā́naiḥ ǁvāje-vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ |
asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ ||वाजे॑ऽवाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ऽज्ञाः॒ ।
अ॒स्य । मध्वः॑ । पि॒ब॒त॒ । मा॒दय॑ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥वाजेऽवाजे । अवत । वाजिनः । नः । धनेषु । विप्राः । अमृताः । ऋतऽज्ञाः ।
अस्य । मध्वः । पिबत । मादयध्वम् । तृप्ताः । यात । पथिऽभिः । देवऽयानैः ॥vā́je-vāje ǀ avata ǀ vājinaḥ ǀ naḥ ǀ dháneṣu ǀ viprāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ
asyá ǀ mádhvaḥ ǀ pibata ǀ mādáyadhvam ǀ tṛptā́ḥ ǀ yāta ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǁvāje-vāje ǀ avata ǀ vājinaḥ ǀ naḥ ǀ dhaneṣu ǀ viprāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ
asya ǀ madhvaḥ ǀ pibata ǀ mādayadhvam ǀ tṛptāḥ ǀ yāta ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǁ7.38.8 Aṣṭaka 5.4.5.8Anuvāka 7.3.65
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.