Ṛgveda · Maṇḍala 7

Sūkta 18

Indra · Vasiṣṭha Maitrāvaruṇi · 25 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (6, 10, 15, 18, 23-25); nicṛttriṣṭup (5, 9, 11, 16, 19, 20); bhurikpaṅkti (2, 4, 12, 22); paṅktiḥ (1, 17, 21); svarāṭpaṅkti (8, 13, 14); virāṭtrisṭup (3, 7)

2nd set of styles triṣṭubh

  1. Ṛk 1

    त्वे ह॒ यत्पि॒तर॑श्चिन्न इंद्र॒ विश्वा॑ वा॒मा ज॑रि॒तारो॒ अस॑न्वन् ।
    त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ॥

    त्वे ह यत् पितरश् चिन् न इन्द्र विश्वा वामा जरितारो असन्वन् |
    त्वे गावः सुदुघास् त्वे ह्य् अश्वास् त्वं वसु देवयते वनिष्ठः ||

    tvé ha yátpitáraścinna indra víśvā vāmā́ jaritā́ro ásanvan ǀ
    tvé gā́vaḥ sudúghāstvé hyáśvāstvám vásu devayaté vániṣṭhaḥ ǁ

    tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan |
    tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ ||

    त्वे इति॑ । ह॒ । यत् । पि॒तरः॑ । चि॒त् । नः॒ । इ॒न्द्र॒ । विश्वा॑ । वा॒मा । ज॒रि॒तारः॑ । अस॑न्वन् ।
    त्वे इति॑ । गावः॑ । सु॒ऽदुघाः॑ । त्वे इति॑ । हि । अश्वाः॑ । त्वम् । वसु॑ । दे॒व॒ऽय॒ते । वनि॑ष्ठः ॥

    त्वे इति । ह । यत् । पितरः । चित् । नः । इन्द्र । विश्वा । वामा । जरितारः । असन्वन् ।
    त्वे इति । गावः । सुऽदुघाः । त्वे इति । हि । अश्वाः । त्वम् । वसु । देवऽयते । वनिष्ठः ॥

    tvé íti ǀ ha ǀ yát ǀ pitáraḥ ǀ cit ǀ naḥ ǀ indra ǀ víśvā ǀ vāmā́ ǀ jaritā́raḥ ǀ ásanvan ǀ
    tvé íti ǀ gā́vaḥ ǀ su-dúghāḥ ǀ tvé íti ǀ hí ǀ áśvāḥ ǀ tvám ǀ vásu ǀ deva-yaté ǀ vániṣṭhaḥ ǁ

    tve iti ǀ ha ǀ yat ǀ pitaraḥ ǀ cit ǀ naḥ ǀ indra ǀ viśvā ǀ vāmā ǀ jaritāraḥ ǀ asanvan ǀ
    tve iti ǀ gāvaḥ ǀ su-dughāḥ ǀ tve iti ǀ hi ǀ aśvāḥ ǀ tvam ǀ vasu ǀ deva-yate ǀ vaniṣṭhaḥ ǁ

    7.18.1 Aṣṭaka 5.2.24.1Anuvāka 7.2.1

  2. Ṛk 2

    राजे॑व॒ हि जनि॑भिः॒ क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् ।
    पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥

    राजेव हि जनिभिः क्षेष्य् एवाव द्युभिर् अभि विदुष् कविः सन् |
    पिशा गिरो मघवन् गोभिर् अश्वैस् त्वायतः शिशीहि राये अस्मान् ||

    rā́jeva hí jánibhiḥ kṣéṣyevā́va dyúbhirabhí vidúṣkavíḥ sán ǀ
    piśā́ gíro maghavangóbhiráśvaistvāyatáḥ śiśīhi rāyé asmā́n ǁ

    rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san |
    piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān ||

    राजा॑ऽइव । हि । जनि॑ऽभिः । क्षेषि॑ । ए॒व । अव॑ । द्युऽभिः॑ । अ॒भि । वि॒दुः । क॒विः । सन् ।
    पि॒शा । गिरः॑ । म॒घ॒ऽव॒न् । गोभिः॑ । अश्वैः॑ । त्वा॒ऽय॒तः । शि॒शी॒हि॒ । रा॒ये । अ॒स्मान् ॥

    राजाऽइव । हि । जनिऽभिः । क्षेषि । एव । अव । द्युऽभिः । अभि । विदुः । कविः । सन् ।
    पिशा । गिरः । मघऽवन् । गोभिः । अश्वैः । त्वाऽयतः । शिशीहि । राये । अस्मान् ॥

    rā́jā-iva ǀ hí ǀ jáni-bhiḥ ǀ kṣéṣi ǀ evá ǀ áva ǀ dyú-bhiḥ ǀ abhí ǀ vidúḥ ǀ kavíḥ ǀ sán ǀ
    piśā́ ǀ gíraḥ ǀ magha-van ǀ góbhiḥ ǀ áśvaiḥ ǀ tvā-yatáḥ ǀ śiśīhi ǀ rāyé ǀ asmā́n ǁ

    rājā-iva ǀ hi ǀ jani-bhiḥ ǀ kṣeṣi ǀ eva ǀ ava ǀ dyu-bhiḥ ǀ abhi ǀ viduḥ ǀ kaviḥ ǀ san ǀ
    piśā ǀ giraḥ ǀ magha-van ǀ gobhiḥ ǀ aśvaiḥ ǀ tvā-yataḥ ǀ śiśīhi ǀ rāye ǀ asmān ǁ

    7.18.2 Aṣṭaka 5.2.24.2Anuvāka 7.2.2

  3. Ṛk 3

    इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ मं॒द्रा गिरो॑ देव॒यंती॒रुप॑ स्थुः ।
    अ॒र्वाची॑ ते प॒थ्या॑ रा॒य ए॑तु॒ स्याम॑ ते सुम॒ताविं॑द्र॒ शर्म॑न् ॥

    इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीर् उप स्थुः |
    अर्वाची ते पथ्या राय एतु स्याम ते सुमताव् इन्द्र शर्मन् ||

    imā́ u tvā paspṛdhānā́so átra mandrā́ gíro devayántīrúpa sthuḥ ǀ
    arvā́cī te pathyā́ rāyá etu syā́ma te sumatā́vindra śárman ǁ

    imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ |
    arvācī te pathyā rāya etu syāma te sumatāv indra śarman ||

    इ॒माः । ऊं॒ इति॑ । त्वा॒ । प॒स्पृ॒धा॒नासः॑ । अत्र॑ । म॒न्द्राः । गिरः॑ । दे॒व॒ऽयन्तीः॑ । उप॑ । स्थुः॒ ।
    अ॒र्वाची॑ । ते॒ । प॒थ्या॑ । रा॒यः । ए॒तु॒ । स्याम॑ । ते॒ । सु॒ऽम॒तौ । इ॒न्द्र॒ । शर्म॑न् ॥

    इमाः । ऊं इति । त्वा । पस्पृधानासः । अत्र । मन्द्राः । गिरः । देवऽयन्तीः । उप । स्थुः ।
    अर्वाची । ते । पथ्या । रायः । एतु । स्याम । ते । सुऽमतौ । इन्द्र । शर्मन् ॥

    imā́ḥ ǀ ūṃ íti ǀ tvā ǀ paspṛdhānā́saḥ ǀ átra ǀ mandrā́ḥ ǀ gíraḥ ǀ deva-yántīḥ ǀ úpa ǀ sthuḥ ǀ
    arvā́cī ǀ te ǀ pathyā́ ǀ rāyáḥ ǀ etu ǀ syā́ma ǀ te ǀ su-matáu ǀ indra ǀ śárman ǁ

    imāḥ ǀ ūṃ iti ǀ tvā ǀ paspṛdhānāsaḥ ǀ atra ǀ mandrāḥ ǀ giraḥ ǀ deva-yantīḥ ǀ upa ǀ sthuḥ ǀ
    arvācī ǀ te ǀ pathyā ǀ rāyaḥ ǀ etu ǀ syāma ǀ te ǀ su-matau ǀ indra ǀ śarman ǁ

    7.18.3 Aṣṭaka 5.2.24.3Anuvāka 7.2.3

  4. Ṛk 4

    धे॒नुं न त्वा॑ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा॑णि ससृजे॒ वसि॑ष्ठः ।
    त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इंद्रः॑ सुम॒तिं गं॒त्वच्छ॑ ॥

    धेनुं न त्वा सूयवसे दुदुक्षन्न् उप ब्रह्माणि ससृजे वसिष्ठः |
    त्वाम् इन् मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्व् अच्छ ||

    dhenúm ná tvā sūyávase dúdukṣannúpa bráhmāṇi sasṛje vásiṣṭhaḥ ǀ
    tvā́mínme gópatim víśva āhā́ na índraḥ sumatím gantváccha ǁ

    dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ |
    tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha ||

    धे॒नुम् । न । त्वा॒ । सु॒ऽयव॑से । दुधु॑क्षन् । उप॑ । ब्रह्मा॑णि । स॒सृ॒जे॒ । वसि॑ष्ठः ।
    त्वाम् । इत् । मे॒ । गोऽप॑तिम् । विश्वः॑ । आ॒ह॒ । आ । नः॒ । इन्द्रः॑ । सु॒ऽम॒तिम् । ग॒न्तु॒ । अच्छ॑ ॥

    धेनुम् । न । त्वा । सुऽयवसे । दुधुक्षन् । उप । ब्रह्माणि । ससृजे । वसिष्ठः ।
    त्वाम् । इत् । मे । गोऽपतिम् । विश्वः । आह । आ । नः । इन्द्रः । सुऽमतिम् । गन्तु । अच्छ ॥

    dhenúm ǀ ná ǀ tvā ǀ su-yávase ǀ dúdhukṣan ǀ úpa ǀ bráhmāṇi ǀ sasṛje ǀ vásiṣṭhaḥ ǀ
    tvā́m ǀ ít ǀ me ǀ gó-patim ǀ víśvaḥ ǀ āha ǀ ā́ ǀ naḥ ǀ índraḥ ǀ su-matím ǀ gantu ǀ áccha ǁ

    dhenum ǀ na ǀ tvā ǀ su-yavase ǀ dudhukṣan ǀ upa ǀ brahmāṇi ǀ sasṛje ǀ vasiṣṭhaḥ ǀ
    tvām ǀ it ǀ me ǀ go-patim ǀ viśvaḥ ǀ āha ǀ ā ǀ naḥ ǀ indraḥ ǀ su-matim ǀ gantu ǀ accha ǁ

    7.18.4 Aṣṭaka 5.2.24.4Anuvāka 7.2.4

  5. Ṛk 5

    अर्णां॑सि चित्पप्रथा॒ना सु॒दास॒ इंद्रो॑ गा॒धान्य॑कृणोत्सुपा॒रा ।
    शर्धं॑तं शि॒म्युमु॒चथ॑स्य॒ नव्यः॒ शापं॒ सिंधू॑नामकृणो॒दश॑स्तीः ॥

    अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा |
    शर्धन्तं शिम्युम् उचथस्य नव्यः शापं सिन्धूनाम् अकृणोद् अशस्तीः ||

    árṇāṃsi citpaprathānā́ sudā́sa índro gādhā́nyakṛṇotsupārā́ ǀ
    śárdhantam śimyúmucáthasya návyaḥ śā́pam síndhūnāmakṛṇodáśastīḥ ǁ

    arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā |
    śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ ||

    अर्णां॑सि । चि॒त् । प॒प्र॒था॒ना । सु॒ऽदासे॑ । इन्द्रः॑ । गा॒धानि॑ । अ॒कृ॒णो॒त् । सु॒ऽपा॒रा ।
    शर्ध॑न्तम् । शि॒म्युम् । उ॒चथ॑स्य । नव्यः॑ । शाप॑म् । सिन्धू॑नाम् । अ॒कृ॒णो॒त् । अश॑स्तीः ॥

    अर्णांसि । चित् । पप्रथाना । सुऽदासे । इन्द्रः । गाधानि । अकृणोत् । सुऽपारा ।
    शर्धन्तम् । शिम्युम् । उचथस्य । नव्यः । शापम् । सिन्धूनाम् । अकृणोत् । अशस्तीः ॥

    árṇāṃsi ǀ cit ǀ paprathānā́ ǀ su-dā́se ǀ índraḥ ǀ gādhā́ni ǀ akṛṇot ǀ su-pārā́ ǀ
    śárdhantam ǀ śimyúm ǀ ucáthasya ǀ návyaḥ ǀ śā́pam ǀ síndhūnām ǀ akṛṇot ǀ áśastīḥ ǁ

    arṇāṃsi ǀ cit ǀ paprathānā ǀ su-dāse ǀ indraḥ ǀ gādhāni ǀ akṛṇot ǀ su-pārā ǀ
    śardhantam ǀ śimyum ǀ ucathasya ǀ navyaḥ ǀ śāpam ǀ sindhūnām ǀ akṛṇot ǀ aśastīḥ ǁ

    7.18.5 Aṣṭaka 5.2.24.5Anuvāka 7.2.5

  6. Ṛk 6

    पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या॑सो॒ निशि॑ता॒ अपी॑व ।
    श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा॑यमतर॒द्विषू॑चोः ॥

    पुरोऌआ इत् तुर्वशो यक्षुर् आसीद् राये मत्स्यासो निशिता अपीव |
    श्रुष्टिं चक्रुर् भृगवो द्रुह्यवश् च सखा सखायम् अतरद् विषूचोः ||

    puroḷā́ ítturváśo yákṣurāsīdrāyé mátsyāso níśitā ápīva ǀ
    śruṣṭím cakrurbhṛ́gavo druhyávaśca sákhā sákhāyamataradvíṣūcoḥ ǁ

    puroḷā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva |
    śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ ||

    पु॒रो॒ळाः । इत् । तु॒र्वशः॑ । यक्षुः॑ । आ॒सी॒त् । रा॒ये । मत्स्या॑सः । निऽशि॑ताः । अपि॑ऽइव ।
    श्रु॒ष्टिम् । च॒क्रुः॒ । भृग॑वः । द्रु॒ह्यवः॑ । च॒ । सखा॑ । सखा॑यम् । अ॒त॒र॒त् । विषू॑चोः ॥

    पुरोळाः । इत् । तुर्वशः । यक्षुः । आसीत् । राये । मत्स्यासः । निऽशिताः । अपिऽइव ।
    श्रुष्टिम् । चक्रुः । भृगवः । द्रुह्यवः । च । सखा । सखायम् । अतरत् । विषूचोः ॥

    puroḷā́ḥ ǀ ít ǀ turváśaḥ ǀ yákṣuḥ ǀ āsīt ǀ rāyé ǀ mátsyāsaḥ ǀ ní-śitāḥ ǀ ápi-iva ǀ
    śruṣṭím ǀ cakruḥ ǀ bhṛ́gavaḥ ǀ druhyávaḥ ǀ ca ǀ sákhā ǀ sákhāyam ǀ atarat ǀ víṣūcoḥ ǁ

    puroḷāḥ ǀ it ǀ turvaśaḥ ǀ yakṣuḥ ǀ āsīt ǀ rāye ǀ matsyāsaḥ ǀ ni-śitāḥ ǀ api-iva ǀ
    śruṣṭim ǀ cakruḥ ǀ bhṛgavaḥ ǀ druhyavaḥ ǀ ca ǀ sakhā ǀ sakhāyam ǀ atarat ǀ viṣūcoḥ ǁ

    7.18.6 Aṣṭaka 5.2.25.1Anuvāka 7.2.6

  7. Ṛk 7

    आ प॒क्थासो॑ भला॒नसो॑ भनं॒तालि॑नासो विषा॒णिनः॑ शि॒वासः॑ ।
    आ योऽन॑यत्सध॒मा आर्य॑स्य ग॒व्या तृत्सु॑भ्यो अजगन्यु॒धा नॄन् ॥

    आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः |
    आ यो ऽनयत् सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन् युधा नॄन् ||

    ā́ pakthā́so bhalānáso bhanantā́lināso viṣāṇínaḥ śivā́saḥ ǀ
    ā́ yó’nayatsadhamā́ ā́ryasya gavyā́ tṛ́tsubhyo ajaganyudhā́ nṝ́n ǁ

    ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ |
    ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn ||

    आ । प॒क्थासः॑ । भ॒ला॒नसः॑ । भ॒न॒न्त॒ । आ । अलि॑नासः । वि॒षा॒णिनः॑ । शि॒वासः॑ ।
    आ । यः । अन॑यत् । स॒ध॒ऽमाः । आर्य॑स्य । ग॒व्या । तृत्सु॑ऽभ्यः । अ॒ज॒ग॒न् । यु॒धा । नॄन् ॥

    आ । पक्थासः । भलानसः । भनन्त । आ । अलिनासः । विषाणिनः । शिवासः ।
    आ । यः । अनयत् । सधऽमाः । आर्यस्य । गव्या । तृत्सुऽभ्यः । अजगन् । युधा । नॄन् ॥

    ā́ ǀ pakthā́saḥ ǀ bhalānásaḥ ǀ bhananta ǀ ā́ ǀ álināsaḥ ǀ viṣāṇínaḥ ǀ śivā́saḥ ǀ
    ā́ ǀ yáḥ ǀ ánayat ǀ sadha-mā́ḥ ǀ ā́ryasya ǀ gavyā́ ǀ tṛ́tsu-bhyaḥ ǀ ajagan ǀ yudhā́ ǀ nṝ́n ǁ

    ā ǀ pakthāsaḥ ǀ bhalānasaḥ ǀ bhananta ǀ ā ǀ alināsaḥ ǀ viṣāṇinaḥ ǀ śivāsaḥ ǀ
    ā ǀ yaḥ ǀ anayat ǀ sadha-māḥ ǀ āryasya ǀ gavyā ǀ tṛtsu-bhyaḥ ǀ ajagan ǀ yudhā ǀ nṝn ǁ

    7.18.7 Aṣṭaka 5.2.25.2Anuvāka 7.2.7

  8. Ṛk 8

    दु॒रा॒ध्यो॒३॒॑ अदि॑तिं स्रे॒वयं॑तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीं ।
    म॒ह्नावि॑व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ॥

    दुराध्यो अदितिं स्रेवयन्तो ऽचेतसो वि जगृभ्रे परुष्णीम् |
    मह्नाविव्यक् पृथिवीम् पत्यमानः पशुष् कविर् अशयच् चायमानः ||

    durādhyo áditim sreváyanto’cetáso ví jagṛbhre páruṣṇīm ǀ
    mahnā́vivyakpṛthivī́m pátyamānaḥ paśúṣkavíraśayaccā́yamānaḥ ǁ

    durādhyo aditiṃ srevayanto 'cetaso vi jagṛbhre paruṣṇīm |
    mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ ||

    दुः॒ऽआ॒ध्यः॑ । अदि॑तिम् । स्रे॒वय॑न्तः । अ॒चे॒तसः॑ । वि । ज॒गृ॒भ्रे॒ । परु॑ष्णीम् ।
    म॒ह्ना । अ॒वि॒व्य॒क् । पृ॒थि॒वीम् । पत्य॑मानः । प॒शुः । क॒विः । अ॒श॒य॒त् । चाय॑मानः ॥

    दुःऽआध्यः । अदितिम् । स्रेवयन्तः । अचेतसः । वि । जगृभ्रे । परुष्णीम् ।
    मह्ना । अविव्यक् । पृथिवीम् । पत्यमानः । पशुः । कविः । अशयत् । चायमानः ॥

    duḥ-ādhyáḥ ǀ áditim ǀ sreváyantaḥ ǀ acetásaḥ ǀ ví ǀ jagṛbhre ǀ páruṣṇīm ǀ
    mahnā́ ǀ avivyak ǀ pṛthivī́m ǀ pátyamānaḥ ǀ paśúḥ ǀ kavíḥ ǀ aśayat ǀ cā́yamānaḥ ǁ

    duḥ-ādhyaḥ ǀ aditim ǀ srevayantaḥ ǀ acetasaḥ ǀ vi ǀ jagṛbhre ǀ paruṣṇīm ǀ
    mahnā ǀ avivyak ǀ pṛthivīm ǀ patyamānaḥ ǀ paśuḥ ǀ kaviḥ ǀ aśayat ǀ cāyamānaḥ ǁ

    7.18.8 Aṣṭaka 5.2.25.3Anuvāka 7.2.8

  9. Ṛk 9

    ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम ।
    सु॒दास॒ इंद्रः॑ सु॒तुकाँ॑ अ॒मित्रा॒नरं॑धय॒न्मानु॑षे॒ वध्रि॑वाचः ॥

    ईयुर् अर्थं न न्यर्थम् परुष्णीम् आशुश् चनेद् अभिपित्वं जगाम |
    सुदास इन्द्रः सुतुकां अमित्रान् अरन्धयन् मानुषे वध्रिवाचः ||

    īyúrártham ná nyarthám páruṣṇīmāśúścanédabhipitvám jagāma ǀ
    sudā́sa índraḥ sutúkām̐ amítrānárandhayanmā́nuṣe vádhrivācaḥ ǁ

    īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma |
    sudāsa indraḥ sutukāṃ amitrān arandhayan mānuṣe vadhrivācaḥ ||

    ई॒युः । अर्थ॑म् । न । नि॒ऽअ॒र्थम् । परु॑ष्णीम् । आ॒शुः । च॒न । इत् । अ॒भि॒ऽपि॒त्वम् । ज॒गा॒म॒ ।
    सु॒ऽदासे॑ । इन्द्रः॑ । सु॒ऽतुका॑न् । अ॒मित्रा॑न् । अर॑न्धयत् । मानु॑षे । वध्रि॑ऽवाचः ॥

    ईयुः । अर्थम् । न । निऽअर्थम् । परुष्णीम् । आशुः । चन । इत् । अभिऽपित्वम् । जगाम ।
    सुऽदासे । इन्द्रः । सुऽतुकान् । अमित्रान् । अरन्धयत् । मानुषे । वध्रिऽवाचः ॥

    īyúḥ ǀ ártham ǀ ná ǀ ni-arthám ǀ páruṣṇīm ǀ āśúḥ ǀ caná ǀ ít ǀ abhi-pitvám ǀ jagāma ǀ
    su-dā́se ǀ índraḥ ǀ su-túkān ǀ amítrān ǀ árandhayat ǀ mā́nuṣe ǀ vádhri-vācaḥ ǁ

    īyuḥ ǀ artham ǀ na ǀ ni-artham ǀ paruṣṇīm ǀ āśuḥ ǀ cana ǀ it ǀ abhi-pitvam ǀ jagāma ǀ
    su-dāse ǀ indraḥ ǀ su-tukān ǀ amitrān ǀ arandhayat ǀ mānuṣe ǀ vadhri-vācaḥ ǁ

    7.18.9 Aṣṭaka 5.2.25.4Anuvāka 7.2.9

  10. Ṛk 10

    ई॒युर्गावो॒ न यव॑सा॒दगो॑पा यथाकृ॒तम॒भि मि॒त्रं चि॒तासः॑ ।
    पृश्नि॑गावः॒ पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रंत॑यश्च ॥

    ईयुर् गावो न यवसाद् अगोपा यथाकृतम् अभि मित्रं चितासः |
    पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर् नियुतो रन्तयश् च ||

    īyúrgā́vo ná yávasādágopā yathākṛtámabhí mitrám citā́saḥ ǀ
    pṛ́śnigāvaḥ pṛ́śninipreṣitāsaḥ śruṣṭím cakrurniyúto rántayaśca ǁ

    īyur gāvo na yavasād agopā yathākṛtam abhi mitraṃ citāsaḥ |
    pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca ||

    ई॒युः । गावः॑ । न । यव॑सात् । अगो॑पाः । य॒था॒ऽकृ॒तम् । अ॒भि । मि॒त्रम् । चि॒तासः॑ ।
    पृश्नि॑ऽगावः । पृश्नि॑ऽनिप्रेषितासः । श्रु॒ष्टिम् । च॒क्रुः॒ । नि॒ऽयुतः॑ । रन्त॑यः । च॒ ॥

    ईयुः । गावः । न । यवसात् । अगोपाः । यथाऽकृतम् । अभि । मित्रम् । चितासः ।
    पृश्निऽगावः । पृश्निऽनिप्रेषितासः । श्रुष्टिम् । चक्रुः । निऽयुतः । रन्तयः । च ॥

    īyúḥ ǀ gā́vaḥ ǀ ná ǀ yávasāt ǀ ágopāḥ ǀ yathā-kṛtám ǀ abhí ǀ mitrám ǀ citā́saḥ ǀ
    pṛ́śni-gāvaḥ ǀ pṛ́śni-nipreṣitāsaḥ ǀ śruṣṭím ǀ cakruḥ ǀ ni-yútaḥ ǀ rántayaḥ ǀ ca ǁ

    īyuḥ ǀ gāvaḥ ǀ na ǀ yavasāt ǀ agopāḥ ǀ yathā-kṛtam ǀ abhi ǀ mitram ǀ citāsaḥ ǀ
    pṛśni-gāvaḥ ǀ pṛśni-nipreṣitāsaḥ ǀ śruṣṭim ǀ cakruḥ ǀ ni-yutaḥ ǀ rantayaḥ ǀ ca ǁ

    7.18.10 Aṣṭaka 5.2.25.5Anuvāka 7.2.10

  11. Ṛk 11

    एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्तः॑ ।
    द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूरः॒ सर्ग॑मकृणो॒दिंद्र॑ एषां ॥

    एकं च यो विंशतिं च श्रवस्या वैकर्णयोर् जनान् राजा न्य् अस्तः |
    दस्मो न सद्मन् नि शिशाति बर्हिः शूरः सर्गम् अकृणोद् इन्द्र एषाम् ||

    ékam ca yó viṃśatím ca śravasyā́ vaikarṇáyorjánānrā́jā nyástaḥ ǀ
    dasmó ná sádmanní śiśāti barhíḥ śū́raḥ sárgamakṛṇodíndra eṣām ǁ

    ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ |
    dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām ||

    एक॑म् । च॒ । यः । विं॒श॒तिम् । च॒ । श्र॒व॒स्या । वै॒क॒र्णयोः॑ । जना॑न् । राजा॑ । नि । अस्त॒रित्यस्तः॑ ।
    द॒स्मः । न । सद्म॑न् । नि । शि॒शा॒ति॒ । ब॒र्हिः । शूरः॑ । सर्ग॑म् । अ॒कृ॒णो॒त् । इन्द्रः॑ । ए॒षा॒म् ॥

    एकम् । च । यः । विंशतिम् । च । श्रवस्या । वैकर्णयोः । जनान् । राजा । नि । अस्तरित्यस्तः ।
    दस्मः । न । सद्मन् । नि । शिशाति । बर्हिः । शूरः । सर्गम् । अकृणोत् । इन्द्रः । एषाम् ॥

    ékam ǀ ca ǀ yáḥ ǀ viṃśatím ǀ ca ǀ śravasyā́ ǀ vaikarṇáyoḥ ǀ jánān ǀ rā́jā ǀ ní ǀ ástarityástaḥ ǀ
    dasmáḥ ǀ ná ǀ sádman ǀ ní ǀ śiśāti ǀ barhíḥ ǀ śū́raḥ ǀ sárgam ǀ akṛṇot ǀ índraḥ ǀ eṣām ǁ

    ekam ǀ ca ǀ yaḥ ǀ viṃśatim ǀ ca ǀ śravasyā ǀ vaikarṇayoḥ ǀ janān ǀ rājā ǀ ni ǀ astarityastaḥ ǀ
    dasmaḥ ǀ na ǀ sadman ǀ ni ǀ śiśāti ǀ barhiḥ ǀ śūraḥ ǀ sargam ǀ akṛṇot ǀ indraḥ ǀ eṣām ǁ

    7.18.11 Aṣṭaka 5.2.26.1Anuvāka 7.2.11

  12. Ṛk 12

    अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः ।
    वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यंतो॒ ये अम॑द॒न्ननु॑ त्वा ॥

    अध श्रुतं कवषं वृद्धम् अप्स्व् अनु द्रुह्युं नि वृणग् वज्रबाहुः |
    वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्न् अनु त्वा ||

    ádha śrutám kaváṣam vṛddhámapsvánu druhyúm ní vṛṇagvájrabāhuḥ ǀ
    vṛṇānā́ átra sakhyā́ya sakhyám tvāyánto yé ámadannánu tvā ǁ

    adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ |
    vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā ||

    अध॑ । श्रु॒तम् । क॒वष॑म् । वृ॒द्धम् । अ॒प्ऽसु । अनु॑ । द्रु॒ह्युम् । नि । वृ॒ण॒क् । वज्र॑ऽबाहुः ।
    वृ॒णा॒नाः । अत्र॑ । स॒ख्याय॑ । स॒ख्यम् । त्वा॒ऽयन्तः॑ । ये । अम॑दन् । अनु॑ । त्वा॒ ॥

    अध । श्रुतम् । कवषम् । वृद्धम् । अप्ऽसु । अनु । द्रुह्युम् । नि । वृणक् । वज्रऽबाहुः ।
    वृणानाः । अत्र । सख्याय । सख्यम् । त्वाऽयन्तः । ये । अमदन् । अनु । त्वा ॥

    ádha ǀ śrutám ǀ kaváṣam ǀ vṛddhám ǀ ap-sú ǀ ánu ǀ druhyúm ǀ ní ǀ vṛṇak ǀ vájra-bāhuḥ ǀ
    vṛṇānā́ḥ ǀ átra ǀ sakhyā́ya ǀ sakhyám ǀ tvā-yántaḥ ǀ yé ǀ ámadan ǀ ánu ǀ tvā ǁ

    adha ǀ śrutam ǀ kavaṣam ǀ vṛddham ǀ ap-su ǀ anu ǀ druhyum ǀ ni ǀ vṛṇak ǀ vajra-bāhuḥ ǀ
    vṛṇānāḥ ǀ atra ǀ sakhyāya ǀ sakhyam ǀ tvā-yantaḥ ǀ ye ǀ amadan ǀ anu ǀ tvā ǁ

    7.18.12 Aṣṭaka 5.2.26.2Anuvāka 7.2.12

  13. Ṛk 13

    वि स॒द्यो विश्वा॑ दृंहि॒तान्ये॑षा॒मिंद्रः॒ पुरः॒ सह॑सा स॒प्त द॑र्दः ।
    व्यान॑वस्य॒ तृत्स॑वे॒ गयं॑ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे॑ मृ॒ध्रवा॑चं ॥

    वि सद्यो विश्वा दृंहितान्य् एषाम् इन्द्रः पुरः सहसा सप्त दर्दः |
    व्य् आनवस्य तृत्सवे गयम् भाग् जेष्म पूरुं विदथे मृध्रवाचम् ||

    ví sadyó víśvā dṛṃhitā́nyeṣāmíndraḥ púraḥ sáhasā saptá dardaḥ ǀ
    vyā́navasya tṛ́tsave gáyam bhāgjéṣma pūrúm vidáthe mṛdhrávācam ǁ

    vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ |
    vy ānavasya tṛtsave gayam bhāg jeṣma pūruṃ vidathe mṛdhravācam ||

    वि । स॒द्यः । विश्वा॑ । दृं॒हि॒तानि॑ । ए॒षा॒म् । इन्द्रः॑ । पुरः॑ । सह॑सा । स॒प्त । द॒र्द॒रिति॑ दर्दः ।
    वि । आन॑वस्य । तृत्स॑वे । गय॑म् । भा॒क् । जेष्म॑ । पू॒रुम् । वि॒दथे॑ । मृ॒ध्रऽवा॑चम् ॥

    वि । सद्यः । विश्वा । दृंहितानि । एषाम् । इन्द्रः । पुरः । सहसा । सप्त । दर्दरिति दर्दः ।
    वि । आनवस्य । तृत्सवे । गयम् । भाक् । जेष्म । पूरुम् । विदथे । मृध्रऽवाचम् ॥

    ví ǀ sadyáḥ ǀ víśvā ǀ dṛṃhitā́ni ǀ eṣām ǀ índraḥ ǀ púraḥ ǀ sáhasā ǀ saptá ǀ dardaríti dardaḥ ǀ
    ví ǀ ā́navasya ǀ tṛ́tsave ǀ gáyam ǀ bhāk ǀ jéṣma ǀ pūrúm ǀ vidáthe ǀ mṛdhrá-vācam ǁ

    vi ǀ sadyaḥ ǀ viśvā ǀ dṛṃhitāni ǀ eṣām ǀ indraḥ ǀ puraḥ ǀ sahasā ǀ sapta ǀ dardariti dardaḥ ǀ
    vi ǀ ānavasya ǀ tṛtsave ǀ gayam ǀ bhāk ǀ jeṣma ǀ pūrum ǀ vidathe ǀ mṛdhra-vācam ǁ

    7.18.13 Aṣṭaka 5.2.26.3Anuvāka 7.2.13

  14. Ṛk 14

    नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपुः॒ षट् स॒हस्रा॑ ।
    ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिंद्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥

    नि गव्यवो ऽनवो द्रुह्यवश् च षष्टिः शता सुषुपुः षट् सहस्रा |
    षष्टिर् वीरासो अधि षड् दुवोयु विश्वेद् इन्द्रस्य वीर्या कृतानि ||

    ní gavyávó’navo druhyávaśca ṣaṣṭíḥ śatā́ suṣupuḥ ṣáṭ sahásrā ǀ
    ṣaṣṭírvīrā́so ádhi ṣáḍduvoyú víśvédíndrasya vīryā́ kṛtā́ni ǁ

    ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā |
    ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni ||

    नि । ग॒व्यवः॑ । अन॑वः । द्रु॒ह्यवः॑ । च॒ । ष॒ष्टिः । श॒ता । सु॒सु॒पुः॒ । षट् । स॒हस्रा॑ ।
    ष॒ष्टिः । वी॒रासः॑ । अधि॑ । षट् । दु॒वः॒ऽयु । विश्वा॑ । इत् । इन्द्र॑स्य । वी॒र्या॑ । कृ॒तानि॑ ॥

    नि । गव्यवः । अनवः । द्रुह्यवः । च । षष्टिः । शता । सुसुपुः । षट् । सहस्रा ।
    षष्टिः । वीरासः । अधि । षट् । दुवःऽयु । विश्वा । इत् । इन्द्रस्य । वीर्या । कृतानि ॥

    ní ǀ gavyávaḥ ǀ ánavaḥ ǀ druhyávaḥ ǀ ca ǀ ṣaṣṭíḥ ǀ śatā́ ǀ susupuḥ ǀ ṣáṭ ǀ sahásrā ǀ
    ṣaṣṭíḥ ǀ vīrā́saḥ ǀ ádhi ǀ ṣáṭ ǀ duvaḥ-yú ǀ víśvā ǀ ít ǀ índrasya ǀ vīryā́ ǀ kṛtā́ni ǁ

    ni ǀ gavyavaḥ ǀ anavaḥ ǀ druhyavaḥ ǀ ca ǀ ṣaṣṭiḥ ǀ śatā ǀ susupuḥ ǀ ṣaṭ ǀ sahasrā ǀ
    ṣaṣṭiḥ ǀ vīrāsaḥ ǀ adhi ǀ ṣaṭ ǀ duvaḥ-yu ǀ viśvā ǀ it ǀ indrasya ǀ vīryā ǀ kṛtāni ǁ

    7.18.14 Aṣṭaka 5.2.26.4Anuvāka 7.2.14

  15. Ṛk 15

    इंद्रे॑णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवंत॒ नीचीः॑ ।
    दु॒र्मि॒त्रासः॑ प्रकल॒विन्मिमा॑ना ज॒हुर्विश्वा॑नि॒ भोज॑ना सु॒दासे॑ ॥

    इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः |
    दुर्मित्रासः प्रकलविन् मिमाना जहुर् विश्वानि भोजना सुदासे ||

    índreṇaité tṛ́tsavo véviṣāṇā ā́po ná sṛṣṭā́ adhavanta nī́cīḥ ǀ
    durmitrā́saḥ prakalavínmímānā jahúrvíśvāni bhójanā sudā́se ǁ

    indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ |
    durmitrāsaḥ prakalavin mimānā jahur viśvāni bhojanā sudāse ||

    इन्द्रे॑ण । ए॒ते । तृत्स॑वः । वेवि॑षाणाः । आपः॑ । न । सृ॒ष्टाः । अ॒ध॒व॒न्त॒ । नीचीः॑ ।
    दुः॒ऽमि॒त्रासः॑ । प्र॒क॒ल॒ऽवित् । मिमा॑नाः । ज॒हुः । विश्वा॑नि । भोज॑ना । सु॒ऽदासे॑ ॥

    इन्द्रेण । एते । तृत्सवः । वेविषाणाः । आपः । न । सृष्टाः । अधवन्त । नीचीः ।
    दुःऽमित्रासः । प्रकलऽवित् । मिमानाः । जहुः । विश्वानि । भोजना । सुऽदासे ॥

    índreṇa ǀ eté ǀ tṛ́tsavaḥ ǀ véviṣāṇāḥ ǀ ā́paḥ ǀ ná ǀ sṛṣṭā́ḥ ǀ adhavanta ǀ nī́cīḥ ǀ
    duḥ-mitrā́saḥ ǀ prakala-vít ǀ mímānāḥ ǀ jahúḥ ǀ víśvāni ǀ bhójanā ǀ su-dā́se ǁ

    indreṇa ǀ ete ǀ tṛtsavaḥ ǀ veviṣāṇāḥ ǀ āpaḥ ǀ na ǀ sṛṣṭāḥ ǀ adhavanta ǀ nīcīḥ ǀ
    duḥ-mitrāsaḥ ǀ prakala-vit ǀ mimānāḥ ǀ jahuḥ ǀ viśvāni ǀ bhojanā ǀ su-dāse ǁ

    7.18.15 Aṣṭaka 5.2.26.5Anuvāka 7.2.15

  16. Ṛk 16

    अ॒र्धं वी॒रस्य॑ शृत॒पाम॑निं॒द्रं परा॒ शर्धं॑तं नुनुदे अ॒भि क्षां ।
    इंद्रो॑ म॒न्युं म॑न्यु॒म्यो॑ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ॥

    अर्धं वीरस्य शृतपाम् अनिन्द्रम् परा शर्धन्तं नुनुदे अभि क्षाम् |
    इन्द्रो मन्युम् मन्युम्यो मिमाय भेजे पथो वर्तनिम् पत्यमानः ||

    ardhám vīrásya śṛtapā́manindrám párā śárdhantam nunude abhí kṣā́m ǀ
    índro manyúm manyumyo mimāya bhejé pathó vartaním pátyamānaḥ ǁ

    ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām |
    indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ ||

    अ॒र्धम् । वी॒रस्य॑ । शृ॒त॒ऽपाम् । अ॒नि॒न्द्रम् । परा॑ । शर्ध॑न्तम् । नु॒नु॒दे॒ । अ॒भि । क्षाम् ।
    इन्द्रः॑ । म॒न्युम् । म॒न्यु॒ऽभ्यः॑ । मि॒मा॒य॒ । भे॒जे । प॒थः । व॒र्त॒निम् । पत्य॑मानः ॥

    अर्धम् । ��ीरस्य । शृतऽपाम् । अनिन्द्रम् । परा । शर्धन्तम् । नुनुदे । अभि । क्षाम् ।
    इन्द्रः । मन्युम् । मन्युऽभ्यः । मिमाय । भेजे । पथः । वर्तनिम् । पत्यमानः ॥

    ardhám ǀ vīrásya ǀ śṛta-pā́m ǀ anindrám ǀ párā ǀ śárdhantam ǀ nunude ǀ abhí ǀ kṣā́m ǀ
    índraḥ ǀ manyúm ǀ manyu-bhyáḥ ǀ mimāya ǀ bhejé ǀ patháḥ ǀ vartaním ǀ pátyamānaḥ ǁ

    ardham ǀ vīrasya ǀ śṛta-pām ǀ anindram ǀ parā ǀ śardhantam ǀ nunude ǀ abhi ǀ kṣām ǀ
    indraḥ ǀ manyum ǀ manyu-bhyaḥ ǀ mimāya ǀ bheje ǀ pathaḥ ǀ vartanim ǀ patyamānaḥ ǁ

    7.18.16 Aṣṭaka 5.2.27.1Anuvāka 7.2.16

  17. Ṛk 17

    आ॒ध्रेण॑ चि॒त्तद्वेकं॑ चकार सिं॒ह्यं॑ चि॒त्पेत्वे॑ना जघान ।
    अव॑ स्र॒क्तीर्वे॒श्या॑वृश्च॒दिंद्रः॒ प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे॑ ॥

    आध्रेण चित् तद् व् एकं चकार सिंह्यं चित् पेत्वेना जघान |
    अव स्रक्तीर् वेश्यावृश्चद् इन्द्रः प्रायच्छद् विश्वा भोजना सुदासे ||

    ādhréṇa cittádvékam cakāra siṃhyám citpétvenā jaghāna ǀ
    áva sraktī́rveśyā́vṛścadíndraḥ prā́yacchadvíśvā bhójanā sudā́se ǁ

    ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna |
    ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse ||

    आ॒ध्रेण॑ । चि॒त् । तत् । ऊं॒ इति॑ । एक॑म् । च॒का॒र॒ । सिं॒ह्य॑म् । चि॒त् । पेत्वे॑न । ज॒घा॒न॒ ।
    अव॑ । स्र॒क्तीः । वे॒श्या॑ । अ॒वृ॒श्च॒त् । इन्द्रः॑ । प्र । अ॒य॒च्छ॒त् । विश्वा॑ । भोज॑ना । सु॒ऽदासे॑ ॥

    आध्रेण । चित् । तत् । ऊं इति । एकम् । चकार । सिंह्यम् । चित् । पेत्वेन । जघान ।
    अव । स्रक्तीः । वेश्या । अवृश्चत् । इन्द्रः । प्र । अयच्छत् । विश्वा । भोजना । सुऽदासे ॥

    ādhréṇa ǀ cit ǀ tát ǀ ūṃ íti ǀ ékam ǀ cakāra ǀ siṃhyám ǀ cit ǀ pétvena ǀ jaghāna ǀ
    áva ǀ sraktī́ḥ ǀ veśyā́ ǀ avṛścat ǀ índraḥ ǀ prá ǀ ayacchat ǀ víśvā ǀ bhójanā ǀ su-dā́se ǁ

    ādhreṇa ǀ cit ǀ tat ǀ ūṃ iti ǀ ekam ǀ cakāra ǀ siṃhyam ǀ cit ǀ petvena ǀ jaghāna ǀ
    ava ǀ sraktīḥ ǀ veśyā ǀ avṛścat ǀ indraḥ ǀ pra ǀ ayacchat ǀ viśvā ǀ bhojanā ǀ su-dāse ǁ

    7.18.17 Aṣṭaka 5.2.27.2Anuvāka 7.2.17

  18. Ṛk 18

    शश्वं॑तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विंद॒ रंधिं॑ ।
    मर्ताँ॒ एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिंद्र ॥

    शश्वन्तो हि शत्रवो रारधुष् टे भेदस्य चिच् छर्धतो विन्द रन्धिम् |
    मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन् नि जहि वज्रम् इन्द्र ||

    śáśvanto hí śátravo rāradhúṣṭe bhedásya cicchárdhato vinda rándhim ǀ
    mártām̐ énaḥ stuvató yáḥ kṛṇóti tigmám tásminní jahi vájramindra ǁ

    śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cic chardhato vinda randhim |
    martāṃ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra ||

    शश्व॑न्तः । हि । शत्र॑वः । र॒र॒धुः । ते॒ । भे॒दस्य॑ । चि॒त् । शर्ध॑तः । वि॒न्द॒ । रन्धि॑म् ।
    मर्ता॑न् । एनः॑ । स्तु॒व॒तः । यः । कृ॒णोति॑ । ति॒ग्मम् । तस्मि॑न् । नि । ज॒हि॒ । वज्र॑म् । इ॒न्द्र॒ ॥

    शश्वन्तः । हि । शत्रवः । ररधुः । ते । भेदस्य । चित् । शर्धतः । विन्द । रन्धिम् ।
    मर्तान् । एनः । स्तुवतः । यः । कृणोति । तिग्मम् । तस्मिन् । नि । जहि । वज्रम् । इन्द्र ॥

    śáśvantaḥ ǀ hí ǀ śátravaḥ ǀ raradhúḥ ǀ te ǀ bhedásya ǀ cit ǀ śárdhataḥ ǀ vinda ǀ rándhim ǀ
    mártān ǀ énaḥ ǀ stuvatáḥ ǀ yáḥ ǀ kṛṇóti ǀ tigmám ǀ tásmin ǀ ní ǀ jahi ǀ vájram ǀ indra ǁ

    śaśvantaḥ ǀ hi ǀ śatravaḥ ǀ raradhuḥ ǀ te ǀ bhedasya ǀ cit ǀ śardhataḥ ǀ vinda ǀ randhim ǀ
    martān ǀ enaḥ ǀ stuvataḥ ǀ yaḥ ǀ kṛṇoti ǀ tigmam ǀ tasmin ǀ ni ǀ jahi ǀ vajram ǀ indra ǁ

    7.18.18 Aṣṭaka 5.2.27.3Anuvāka 7.2.18

  19. Ṛk 19

    आव॒दिंद्रं॑ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता॑ता मुषायत् ।
    अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या॑नि ॥

    आवद् इन्द्रं यमुना तृत्सवश् च प्रात्र भेदं सर्वताता मुषायत् |
    अजासश् च शिग्रवो यक्षवश् च बलिं शीर्षाणि जभ्रुर् अश्व्यानि ||

    ā́vadíndram yamúnā tṛ́tsavaśca prā́tra bhedám sarvátātā muṣāyat ǀ
    ajā́saśca śígravo yákṣavaśca balím śīrṣā́ṇi jabhruráśvyāni ǁ

    āvad indraṃ yamunā tṛtsavaś ca prātra bhedaṃ sarvatātā muṣāyat |
    ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni ||

    आव॑त् । इन्द्र॑म् । य॒मुना॑ । तृत्स॑वः । च॒ । प्र । अत्र॑ । भे॒दम् । स॒र्वऽता॑ता । मु॒षा॒य॒त् ।
    अ॒जासः॑ । च॒ । शिग्र॑वः । यक्ष॑वः । च॒ । ब॒लिम् । शी॒र्षाणि॑ । ज॒भ्रुः॒ । अश्व्या॑नि ॥

    आवत् । इन्द्रम् । यमुना । तृत्सवः । च । प्र । अत्र । भेदम् । सर्वऽताता । मुषायत् ।
    अजासः । च । शिग्रवः । यक्षवः । च । बलिम् । शीर्षाणि । जभ्रुः । अश्व्यानि ॥

    ā́vat ǀ índram ǀ yamúnā ǀ tṛ́tsavaḥ ǀ ca ǀ prá ǀ átra ǀ bhedám ǀ sarvá-tātā ǀ muṣāyat ǀ
    ajā́saḥ ǀ ca ǀ śígravaḥ ǀ yákṣavaḥ ǀ ca ǀ balím ǀ śīrṣā́ṇi ǀ jabhruḥ ǀ áśvyāni ǁ

    āvat ǀ indram ǀ yamunā ǀ tṛtsavaḥ ǀ ca ǀ pra ǀ atra ǀ bhedam ǀ sarva-tātā ǀ muṣāyat ǀ
    ajāsaḥ ǀ ca ǀ śigravaḥ ǀ yakṣavaḥ ǀ ca ǀ balim ǀ śīrṣāṇi ǀ jabhruḥ ǀ aśvyāni ǁ

    7.18.19 Aṣṭaka 5.2.27.4Anuvāka 7.2.19

  20. Ṛk 20

    न त॑ इंद्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्नाः॑ ।
    देव॑कं चिन्मान्यमा॒नं ज॑घं॒थाव॒ त्मना॑ बृह॒तः शंब॑रं भेत् ॥

    न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः |
    देवकं चिन् मान्यमानं जघन्थाव त्मना बृहतः शम्बरम् भेत् ||

    ná ta indra sumatáyo ná rā́yaḥ saṃcákṣe pū́rvā uṣáso ná nū́tnāḥ ǀ
    dévakam cinmānyamānám jaghanthā́va tmánā bṛhatáḥ śámbaram bhet ǁ

    na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ |
    devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet ||

    न । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तयः॑ । न । रायः॑ । स॒म्ऽचक्षे॑ । पूर्वाः॑ । उ॒षसः॑ । न । नूत्नाः॑ ।
    देव॑कम् । चि॒त् । मा॒न्य॒मा॒नम् । ज॒घ॒न्थ॒ । अव॑ । त्मना॑ । बृ॒ह॒तः । शम्ब॑रम् । भे॒त् ॥

    न । ते । इन्द्र । सुऽमतयः । न । रायः । सम्ऽचक्षे । पूर्वाः । उषसः । न । नूत्नाः ।
    देवकम् । चित् । मान्यमानम् । जघन्थ । अव । त्मना । बृहतः । शम्बरम् । भेत् ॥

    ná ǀ te ǀ indra ǀ su-matáyaḥ ǀ ná ǀ rā́yaḥ ǀ sam-cákṣe ǀ pū́rvāḥ ǀ uṣásaḥ ǀ ná ǀ nū́tnāḥ ǀ
    dévakam ǀ cit ǀ mānyamānám ǀ jaghantha ǀ áva ǀ tmánā ǀ bṛhatáḥ ǀ śámbaram ǀ bhet ǁ

    na ǀ te ǀ indra ǀ su-matayaḥ ǀ na ǀ rāyaḥ ǀ sam-cakṣe ǀ pūrvāḥ ǀ uṣasaḥ ǀ na ǀ nūtnāḥ ǀ
    devakam ǀ cit ǀ mānyamānam ǀ jaghantha ǀ ava ǀ tmanā ǀ bṛhataḥ ǀ śambaram ǀ bhet ǁ

    7.18.20 Aṣṭaka 5.2.27.5Anuvāka 7.2.20

  21. Ṛk 21

    प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया॑तु॒र्वसि॑ष्ठः ।
    न ते॑ भो॒जस्य॑ स॒ख्यं मृ॑षं॒ताधा॑ सू॒रिभ्यः॑ सु॒दिना॒ व्यु॑च्छान् ॥

    प्र ये गृहाद् अममदुस् त्वाया पराशरः शतयातुर् वसिष्ठः |
    न ते भोजस्य सख्यम् मृषन्ताधा सूरिभ्यः सुदिना व्य् उच्छान् ||

    prá yé gṛhā́dámamadustvāyā́ parāśaráḥ śatáyāturvásiṣṭhaḥ ǀ
    ná te bhojásya sakhyám mṛṣantā́dhā sūríbhyaḥ sudínā vyúcchān ǁ

    pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ |
    na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān ||

    प्र । ये । गृ॒हात् । अम॑मदुः । त्वा॒ऽया । प॒रा॒ऽश॒रः । श॒तऽया॑तुः । वसि॑ष्ठः ।
    न । ते॒ । भो॒जस्य॑ । स॒ख्यम् । मृ॒ष॒न्त॒ । अध॑ । सू॒रिऽभ्यः॑ । सु॒ऽदिना॑ । वि । उ॒च्छा॒न् ॥

    प्र । ये । गृहात् । अममदुः । त्वाऽया । पराऽशरः । शतऽयातुः । वसिष्ठः ।
    न । ते । भोजस्य । सख्यम् । मृषन्त । अध । सूरिऽभ्यः । सुऽदिना । वि । उच्छान् ॥

    prá ǀ yé ǀ gṛhā́t ǀ ámamaduḥ ǀ tvā-yā́ ǀ parā-śaráḥ ǀ śatá-yātuḥ ǀ vásiṣṭhaḥ ǀ
    ná ǀ te ǀ bhojásya ǀ sakhyám ǀ mṛṣanta ǀ ádha ǀ sūrí-bhyaḥ ǀ su-dínā ǀ ví ǀ ucchān ǁ

    pra ǀ ye ǀ gṛhāt ǀ amamaduḥ ǀ tvā-yā ǀ parā-śaraḥ ǀ śata-yātuḥ ǀ vasiṣṭhaḥ ǀ
    na ǀ te ǀ bhojasya ǀ sakhyam ǀ mṛṣanta ǀ adha ǀ sūri-bhyaḥ ǀ su-dinā ǀ vi ǀ ucchān ǁ

    7.18.21 Aṣṭaka 5.2.28.1Anuvāka 7.2.21

  22. Ṛk 22

    द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा॑ व॒धूमं॑ता सु॒दासः॑ ।
    अर्ह॑न्नग्ने पैजव॒नस्य॒ दानं॒ होते॑व॒ सद्म॒ पर्ये॑मि॒ रेभ॑न् ॥

    द्वे नप्तुर् देववतः शते गोर् द्वा रथा वधूमन्ता सुदासः |
    अर्हन्न् अग्ने पैजवनस्य दानं होतेव सद्म पर्य् एमि रेभन् ||

    dvé nápturdevávataḥ śaté górdvā́ ráthā vadhū́mantā sudā́saḥ ǀ
    árhannagne paijavanásya dā́nam hóteva sádma páryemi rébhan ǁ

    dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ |
    arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan ||

    द्वे इति॑ । नप्तुः॑ । दे॒वऽव॑तः । श॒ते इति॑ । गोः । द्वा । रथा॑ । व॒धूऽम॑न्ता । सु॒ऽदासः॑ ।
    अर्ह॑न् । अ॒ग्ने॒ । पै॒ज॒ऽव॒नस्य॑ । दान॑म् । होता॑ऽइव । सद्म॑ । परि॑ । ए॒मि॒ । रेभ॑न् ॥

    द्वे इति । नप्तुः । देवऽवतः । शते इति । गोः । द्वा । रथा । वधूऽमन्ता । सुऽदासः ।
    अर्हन् । अग्ने । पैजऽवनस्य । दानम् । होताऽइव । सद्म । परि । एमि । रेभन् ॥

    dvé íti ǀ náptuḥ ǀ devá-vataḥ ǀ śaté íti ǀ góḥ ǀ dvā́ ǀ ráthā ǀ vadhū́-mantā ǀ su-dā́saḥ ǀ
    árhan ǀ agne ǀ paija-vanásya ǀ dā́nam ǀ hótā-iva ǀ sádma ǀ pári ǀ emi ǀ rébhan ǁ

    dve iti ǀ naptuḥ ǀ deva-vataḥ ǀ śate iti ǀ goḥ ǀ dvā ǀ rathā ǀ vadhū-mantā ǀ su-dāsaḥ ǀ
    arhan ǀ agne ǀ paija-vanasya ǀ dānam ǀ hotā-iva ǀ sadma ǀ pari ǀ emi ǀ rebhan ǁ

    7.18.22 Aṣṭaka 5.2.28.2Anuvāka 7.2.22

  23. Ṛk 23

    च॒त्वारो॑ मा पैजव॒नस्य॒ दानाः॒ स्मद्दि॑ष्टयः कृश॒निनो॑ निरे॒के ।
    ऋ॒ज्रासो॑ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहंति ॥

    चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके |
    ऋज्रासो मा पृथिविष्ठाः सुदासस् तोकं तोकाय श्रवसे वहन्ति ||

    catvā́ro mā paijavanásya dā́nāḥ smáddiṣṭayaḥ kṛśaníno nireké ǀ
    ṛjrā́so mā pṛthiviṣṭhā́ḥ sudā́sastokám tokā́ya śrávase vahanti ǁ

    catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke |
    ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti ||

    च॒त्वारः॑ । मा॒ । पै॒ज॒ऽव॒नस्य॑ । दानाः॑ । स्मत्ऽदि॑ष्टयः । कृ॒श॒निनः॑ । नि॒रे॒के ।
    ऋ॒ज्रासः॑ । मा॒ । पृ॒थि॒वि॒ऽस्थाः । सु॒ऽदासः॑ । तो॒कम् । तो॒काय॑ । श्रव॑से । व॒ह॒न्ति॒ ॥

    चत्वारः । मा । पैजऽवनस्य । दानाः । स्मत्ऽदिष्टयः । कृशनिनः । निरेके ।
    ऋज्रासः । मा । पृथिविऽस्थाः । सुऽदासः । तोकम् । तोकाय । श्रवसे । वहन्ति ॥

    catvā́raḥ ǀ mā ǀ paija-vanásya ǀ dā́nāḥ ǀ smát-diṣṭayaḥ ǀ kṛśanínaḥ ǀ nireké ǀ
    ṛjrā́saḥ ǀ mā ǀ pṛthivi-sthā́ḥ ǀ su-dā́saḥ ǀ tokám ǀ tokā́ya ǀ śrávase ǀ vahanti ǁ

    catvāraḥ ǀ mā ǀ paija-vanasya ǀ dānāḥ ǀ smat-diṣṭayaḥ ǀ kṛśaninaḥ ǀ nireke ǀ
    ṛjrāsaḥ ǀ mā ǀ pṛthivi-sthāḥ ǀ su-dāsaḥ ǀ tokam ǀ tokāya ǀ śravase ǀ vahanti ǁ

    7.18.23 Aṣṭaka 5.2.28.3Anuvāka 7.2.23

  24. Ṛk 24

    यस्य॒ श्रवो॒ रोद॑सी अं॒तरु॒र्वी शी॒र्ष्णेशी॑र्ष्णे विब॒भाजा॑ विभ॒क्ता ।
    स॒प्तेदिंद्रं॒ न स्र॒वतो॑ गृणंति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके॑ ॥

    यस्य श्रवो रोदसी अन्तर् उर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता |
    सप्तेद् इन्द्रं न स्रवतो गृणन्ति नि युध्यामधिम् अशिशाद् अभीके ||

    yásya śrávo ródasī antárurvī́ śīrṣṇéśīrṣṇe vibabhā́jā vibhaktā́ ǀ
    saptédíndram ná sraváto gṛṇanti ní yudhyāmadhímaśiśādabhī́ke ǁ

    yasya śravo rodasī antar urvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā |
    sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke ||

    यस्य॑ । श्रवः॑ । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । शी॒र्ष्णेऽशी॑र्ष्णे । वि॒ऽब॒भाज॑ । वि॒ऽभ॒क्ता ।
    स॒प्त । इत् । इन्द्र॑म् । न । स्र॒वतः॑ । गृ॒ण॒न्ति॒ । नि । यु॒ध्या॒म॒धिम् । अ॒शि॒शा॒त् । अ॒भीके॑ ॥

    यस्य । श्रवः । रोदसी इति । अन्तः । उर्वी इति । शीर्ष्णेऽशीर्ष्णे । विऽबभाज । विऽभक्ता ।
    सप्त । इत् । इन्द्रम् । न । स्रवतः । गृणन्ति । नि । युध्यामधिम् । अशिशात् । अभीके ॥

    yásya ǀ śrávaḥ ǀ ródasī íti ǀ antáḥ ǀ urvī́ íti ǀ śīrṣṇé-śīrṣṇe ǀ vi-babhā́ja ǀ vi-bhaktā́ ǀ
    saptá ǀ ít ǀ índram ǀ ná ǀ sravátaḥ ǀ gṛṇanti ǀ ní ǀ yudhyāmadhím ǀ aśiśāt ǀ abhī́ke ǁ

    yasya ǀ śravaḥ ǀ rodasī iti ǀ antaḥ ǀ urvī iti ǀ śīrṣṇe-śīrṣṇe ǀ vi-babhāja ǀ vi-bhaktā ǀ
    sapta ǀ it ǀ indram ǀ na ǀ sravataḥ ǀ gṛṇanti ǀ ni ǀ yudhyāmadhim ǀ aśiśāt ǀ abhīke ǁ

    7.18.24 Aṣṭaka 5.2.28.4Anuvāka 7.2.24

  25. Ṛk 25

    इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो॑दासं॒ न पि॒तरं॑ सु॒दासः॑ ।
    अ॒वि॒ष्टना॑ पैजव॒नस्य॒ केतं॑ दू॒णाशं॑ क्ष॒त्रम॒जरं॑ दुवो॒यु ॥

    इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः |
    अविष्टना पैजवनस्य केतं दूणाशं क्षत्रम् अजरं दुवोयु ||

    imám naro marutaḥ saścatā́nu dívodāsam ná pitáram sudā́saḥ ǀ
    aviṣṭánā paijavanásya kétam dūṇā́śam kṣatrámajáram duvoyú ǁ

    imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ |
    aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatram ajaraṃ duvoyu ||

    इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । अनु॑ । दिवः॑ऽदासम् । न । पि॒तर॑म् । सु॒ऽदासः॑ ।
    अ॒वि॒ष्टन॑ । पै॒ज॒ऽव॒नस्य॑ । केत॑म् । दुः॒ऽनश॑म् । क्ष॒त्रम् । अ॒जर॑म् । दु॒वः॒ऽयु ॥

    इमम् । नरः । मरुतः । सश्चत । अनु । दिवःऽदासम् । न । पितरम् । सुऽदासः ।
    अविष्टन । पैजऽवनस्य । केतम् । दुःऽनशम् । क्षत्रम् । अजरम् । दुवःऽयु ॥

    imám ǀ naraḥ ǀ marutaḥ ǀ saścata ǀ ánu ǀ dívaḥ-dāsam ǀ ná ǀ pitáram ǀ su-dā́saḥ ǀ
    aviṣṭána ǀ paija-vanásya ǀ kétam ǀ duḥ-náśam ǀ kṣatrám ǀ ajáram ǀ duvaḥ-yú ǁ

    imam ǀ naraḥ ǀ marutaḥ ǀ saścata ǀ anu ǀ divaḥ-dāsam ǀ na ǀ pitaram ǀ su-dāsaḥ ǀ
    aviṣṭana ǀ paija-vanasya ǀ ketam ǀ duḥ-naśam ǀ kṣatram ǀ ajaram ǀ duvaḥ-yu ǁ

    7.18.25 Aṣṭaka 5.2.28.5Anuvāka 7.2.25

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.18 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

ALL is with thee, O Indra, all the treasures which erst our fathers won who sang thy praises. With thee are milch-kine good to milk, and horses: best winner thou of riches for the pious.

Ṛk 2

For like a King among his wives thou dwellest: with glories, as a Sage, surround and help us. Make us, thy servants, strong for wealth, and honour our songs wirth kine and steeds and decoration.

Ṛk 3

Here these our holy hymns with joy and gladness in pious emulation have approached thee. Hitherward come thy path that leads to riches: may we find shelter in thy favour, Indra.

Ṛk 4

Vasiṣṭha hath poured forth his prayers, desiring to milk thee like a cow in goodly pasture. All these my people call thee Lord of cattle: may Indra. come unto the prayer we offer.

Ṛk 5

What though the floods spread widely, Indra made them shallow and easy for Sudās to traverse. He, worthy of our praises, caused the Simyu, foe of our hymn, to curse the rivers' fury.

Ṛk 6

Eager for spoil was Turvaśa Purodas, fain to win wealth, like fishes urged by hunger. The Bhṛgus and the Druhyus quickly listened: friend rescued friend mid the two distant peoples.

Ṛk 7

Together came the Pakthas, the Bhalanas, the Alinas, the Sivas, the Visanins. Yet to the Trtsus came the Ārya's Comrade, through love of spoil and heroes' war, to lead them.

Ṛk 8

Fools, in their folly fain to waste her waters, they parted inexhaustible Paruṣṇī. Lord of the Earth, he with his might repressed them: still lay the herd and the affrighted herdsman.

Ṛk 9

As to their goal they sped to their destruetion: they sought Paruṣṇī; e’en the swift returned not. Indra abandoned, to Sudās the manly, the swiftly flying foes, unmanly babblers.

Ṛk 10

They went like kine unherded from the pasture, each clinging to a friend as chance directed. They who drive spotted steeds, sent down by Pṛśni, gave ear, the Warriors and the harnessed horses.

Ṛk 11

The King who scattered one-and-twenty people of both Vaikarna tribes through lust of glory- As the skilled priest clips grass within the chamber, so hath the Hero Indra, wrought their downfall.

Ṛk 12

Thou, thunder-armed, o’erwhelmedst in the waters famed ancient Kavasa and then the Druhyu. Others here claiming friendship to their friendship, devoted unto thee, in thee were joyful.

Ṛk 13

Indra at once with conquering might demolished all their strong places and their seven castles. The goods of Anu's son he gave to Trtsu. May we in sacrifice conquer scorned Pūru.

Ṛk 14

The Anavas and Druhyus, seeking booty, have slept, the sixty hundred, yea, six thousand, And six-and-sixty heroes. For the pious were all these mighty exploits done by Indra.

Ṛk 15

These Trtsus under Indra's careful guidance came speeding like loosed waters rushing downward. The foemen, measuring exceeding closely, abandoned to Sudās all their provisions.

Ṛk 16

The hero's side who drank the dressed oblation, Indra's denier, far o’er earth he scattered. Indra brought down the fierce destroyer's fury. He gave them various roads, the path's Controller.

Ṛk 17

E’en with the weak he wrought this matchless exploit: e’en with a goat he did to death a lion. He pared the pillar's angles with a needle. Thus to Sudās Indra gave all provisions.

Ṛk 18

To thee have all thine enemies submitted: e’en the fierce Bheda hast thou made thy subject. Cast down thy sharpened thunderbolt, O Indra, on him who harms the men who sing thy praises.

Ṛk 19

Yamuna and the Trtsus aided Indra. There he stripped Bheda bare of all his treasures. The Ajas and the Sigrus and the Yaksus brought in to him as tribute heads of horses.

Ṛk 20

Not to be scorned, but like Dawns past and recent, O Indra, are thy favours and thy riches. Devaka, Mānyamana's son, thou slewest, and smotest Śambara from the lofty mountain.

Ṛk 21

They who, from home, have gladdened thee, thy servants Parasara, Vasiṣṭha, Satayatu, Will not forget thy friendship, liberal Giver. So shall the days dawn prosperous for the princes.

Ṛk 22

Priest-like, with praise, I move around the altar, earning Paijavana's reward, O Agni, Two hundred cows from Devavan's descendant, two chariots from Sudās with mares to draw them.

Ṛk 23

Gift of Paijavana, four horses bear me in foremost place, trained steeds with pearl to deck them. Sudās's brown steeds, firmly-stepping, carry me and my son for progeny and glory.

Ṛk 24

Him whose fame spreads between wide earth and heaven, who, as dispenser, gives each chief his portion, Seven flowing Rivers glorify like Indra. He slew Yudhyamadhi in close encounter.