Ṛk 7.18.5
Saṃhitā
अर्णां॑सि चित्पप्रथा॒ना सु॒दास॒ इंद्रो॑ गा॒धान्य॑कृणोत्सुपा॒रा ।
शर्धं॑तं शि॒म्युमु॒चथ॑स्य॒ नव्यः॒ शापं॒ सिंधू॑नामकृणो॒दश॑स्तीः ॥
अर्णांसि चित् पप्रथाना सुदास इन्द्रो गाधान्य् अकृणोत् सुपारा |
शर्धन्तं शिम्युम् उचथस्य नव्यः शापं सिन्धूनाम् अकृणोद् अशस्तीः ||
árṇāṃsi citpaprathānā́ sudā́sa índro gādhā́nyakṛṇotsupārā́ ǀ
śárdhantam śimyúmucáthasya návyaḥ śā́pam síndhūnāmakṛṇodáśastīḥ ǁ
arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā |
śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ ||
Padapāṭha
अर्णां॑सि । चि॒त् । प॒प्र॒था॒ना । सु॒ऽदासे॑ । इन्द्रः॑ । गा॒धानि॑ । अ॒कृ॒णो॒त् । सु॒ऽपा॒रा ।
शर्ध॑न्तम् । शि॒म्युम् । उ॒चथ॑स्य । नव्यः॑ । शाप॑म् । सिन्धू॑नाम् । अ॒कृ॒णो॒त् । अश॑स्तीः ॥
अर्णांसि । चित् । पप्रथाना । सुऽदासे । इन्द्रः । गाधानि । अकृणोत् । सुऽपारा ।
शर्धन्तम् । शिम्युम् । उचथस्य । नव्यः । शापम् । सिन्धूनाम् । अकृणोत् । अशस्तीः ॥
árṇāṃsi ǀ cit ǀ paprathānā́ ǀ su-dā́se ǀ índraḥ ǀ gādhā́ni ǀ akṛṇot ǀ su-pārā́ ǀ
śárdhantam ǀ śimyúm ǀ ucáthasya ǀ návyaḥ ǀ śā́pam ǀ síndhūnām ǀ akṛṇot ǀ áśastīḥ ǁ
arṇāṃsi ǀ cit ǀ paprathānā ǀ su-dāse ǀ indraḥ ǀ gādhāni ǀ akṛṇot ǀ su-pārā ǀ
śardhantam ǀ śimyum ǀ ucathasya ǀ navyaḥ ǀ śāpam ǀ sindhūnām ǀ akṛṇot ǀ aśastīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.018.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.24.05
- Maṇḍala · Anuvāka · Ṛk
- 07.02.005
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.