Sūkta 9
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (2, 3); nicṛttriṣṭup (4, 5); triṣṭup (1); svarāṭpaṅkti (6)
2nd set of styles triṣṭubh
-
Ṛk 1
अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ मं॒द्रः क॒वित॑मः पाव॒कः ।
दधा॑ति के॒तुमु॒भय॑स्य जं॒तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥अबोधि जार उषसाम् उपस्थाद् धोता मन्द्रः कवितमः पावकः |
दधाति केतुम् उभयस्य जन्तोर् हव्या देवेषु द्रविणं सुकृत्सु ||ábodhi jārá uṣásāmupásthāddhótā mandráḥ kavítamaḥ pāvakáḥ ǀ
dádhāti ketúmubháyasya jantórhavyā́ devéṣu dráviṇam sukṛ́tsu ǁabodhi jāra uṣasām upasthād dhotā mandraḥ kavitamaḥ pāvakaḥ |
dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu ||अबो॑धि । जा॒रः । उ॒षसा॑म् । उ॒पऽस्था॑त् । होता॑ । म॒न्द्रः । क॒विऽत॑मः । पा॒व॒कः ।
दधा॑ति । के॒तुम् । उ॒भय॑स्य । ज॒न्तोः । ह॒व्या । दे॒वेषु॑ । द्रवि॑णम् । सु॒कृत्ऽसु॑ ॥अबोधि । जारः । उषसाम् । उपऽस्थात् । होता । मन्द्रः । कविऽतमः । पावकः ।
दधाति । केतुम् । उभयस्य । जन्तोः । हव्या । देवेषु । द्रविणम् । सुकृत्ऽसु ॥ábodhi ǀ jāráḥ ǀ uṣásām ǀ upá-sthāt ǀ hótā ǀ mandráḥ ǀ kaví-tamaḥ ǀ pāvakáḥ ǀ
dádhāti ǀ ketúm ǀ ubháyasya ǀ jantóḥ ǀ havyā́ ǀ devéṣu ǀ dráviṇam ǀ sukṛ́t-su ǁabodhi ǀ jāraḥ ǀ uṣasām ǀ upa-sthāt ǀ hotā ǀ mandraḥ ǀ kavi-tamaḥ ǀ pāvakaḥ ǀ
dadhāti ǀ ketum ǀ ubhayasya ǀ jantoḥ ǀ havyā ǀ deveṣu ǀ draviṇam ǀ sukṛt-su ǁ7.9.1 Aṣṭaka 5.2.12.1Anuvāka 7.1.87
-
Ṛk 2
स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः ।
होता॑ मं॒द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणां॑ ॥स सुक्रतुर् यो वि दुरः पणीनाम् पुनानो अर्कम् पुरुभोजसं नः |
होता मन्द्रो विशां दमूनास् तिरस् तमो ददृशे राम्याणाम् ||sá sukráturyó ví dúraḥ paṇīnā́m punānó arkám purubhójasam naḥ ǀ
hótā mandró viśā́m dámūnāstirástámo dadṛśe rāmyā́ṇām ǁsa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ |
hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām ||सः । सु॒ऽक्रतुः॑ । यः । वि । दुरः॑ । प॒णी॒नाम् । पु॒ना॒नः । अ॒र्कम् । पु॒रु॒ऽभोज॑सम् । नः॒ ।
होता॑ । म॒न्द्रः । वि॒शाम् । दमू॑नाः । ति॒रः । तमः॑ । द॒दृ॒शे॒ । रा॒म्याणा॑म् ॥सः । सुऽक्रतुः । यः । वि । दुरः । पणीनाम् । पुनानः । अर्कम् । पुरुऽभोजसम् । नः ।
होता । मन्द्रः । विशाम् । दमूनाः । तिरः । तमः । ददृशे । राम्याणाम् ॥sáḥ ǀ su-krátuḥ ǀ yáḥ ǀ ví ǀ dúraḥ ǀ paṇīnā́m ǀ punānáḥ ǀ arkám ǀ puru-bhójasam ǀ naḥ ǀ
hótā ǀ mandráḥ ǀ viśā́m ǀ dámūnāḥ ǀ tiráḥ ǀ támaḥ ǀ dadṛśe ǀ rāmyā́ṇām ǁsaḥ ǀ su-kratuḥ ǀ yaḥ ǀ vi ǀ duraḥ ǀ paṇīnām ǀ punānaḥ ǀ arkam ǀ puru-bhojasam ǀ naḥ ǀ
hotā ǀ mandraḥ ǀ viśām ǀ damūnāḥ ǀ tiraḥ ǀ tamaḥ ǀ dadṛśe ǀ rāmyāṇām ǁ7.9.2 Aṣṭaka 5.2.12.2Anuvāka 7.1.88
-
Ṛk 3
अमू॑रः क॒विरदि॑तिर्वि॒वस्वा॑न्त्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो नः॑ ।
चि॒त्रभा॑नुरु॒षसां॑ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॒॑ आ वि॑वेश ॥अमूरः कविर् अदितिर् विवस्वान् सुसंसन् मित्रो अतिथिः शिवो नः |
चित्रभानुर् उषसाम् भात्य् अग्रे ऽपां गर्भः प्रस्व आ विवेश ||ámūraḥ kavíráditirvivásvāntsusaṃsánmitró átithiḥ śivó naḥ ǀ
citrábhānuruṣásām bhātyágre’pā́m gárbhaḥ prasvá ā́ viveśa ǁamūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ |
citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa ||अमू॑रः । क॒विः । अदि॑तिः । वि॒वस्वा॑न् । सु॒ऽसं॒सत् । मि॒त्रः । अति॑थिः । शि॒वः । नः॒ ।
चि॒त्रऽभा॑नुः । उ॒षसा॑म् । भा॒ति॒ । अग्रे॑ । अ॒पाम् । गर्भः॑ । प्र॒ऽस्वः॑ । आ । वि॒वे॒श॒ ॥अमूरः । कविः । अदितिः । विवस्वान् । सुऽसंसत् । मित्रः । अतिथिः । शिवः । नः ।
चित्रऽभानुः । उषसाम् । भाति । अग्रे । अपाम् । गर्भः । प्रऽस्वः । आ । विवेश ॥ámūraḥ ǀ kavíḥ ǀ áditiḥ ǀ vivásvān ǀ su-saṃsát ǀ mitráḥ ǀ átithiḥ ǀ śiváḥ ǀ naḥ ǀ
citrá-bhānuḥ ǀ uṣásām ǀ bhāti ǀ ágre ǀ apā́m ǀ gárbhaḥ ǀ pra-sváḥ ǀ ā́ ǀ viveśa ǁamūraḥ ǀ kaviḥ ǀ aditiḥ ǀ vivasvān ǀ su-saṃsat ǀ mitraḥ ǀ atithiḥ ǀ śivaḥ ǀ naḥ ǀ
citra-bhānuḥ ǀ uṣasām ǀ bhāti ǀ agre ǀ apām ǀ garbhaḥ ǀ pra-svaḥ ǀ ā ǀ viveśa ǁ7.9.3 Aṣṭaka 5.2.12.3Anuvāka 7.1.89
-
Ṛk 4
ई॒ळेन्यो॑ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे॑दाः ।
सु॒सं॒दृशा॑ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धंत ॥ईळेन्यो वो मनुषो युगेषु समनगा अशुचज् जातवेदाः |
सुसंदृशा भानुना यो विभाति प्रति गावः समिधानम् बुधन्त ||īḷényo vo mánuṣo yugéṣu samanagā́ aśucajjātávedāḥ ǀ
susaṃdṛ́śā bhānúnā yó vibhā́ti práti gā́vaḥ samidhānám budhanta ǁīḷenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ |
susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta ||ई॒ळेन्यः॑ । वः॒ । मनु॑षः । यु॒गेषु॑ । स॒म॒न॒ऽगाः । अ॒शु॒च॒त् । जा॒तऽवे॑दाः ।
सु॒ऽस॒न्दृशा॑ । भा॒नुना॑ । यः । वि॒ऽभाति॑ । प्रति॑ । गावः॑ । स॒म्ऽइ॒धा॒नम् । बु॒ध॒न्त॒ ॥ईळेन्यः । वः । मनुषः । युगेषु । समनऽगाः । अशुचत् । जातऽवेदाः ।
सुऽसन्दृशा । भानुना । यः । विऽभाति । प्रति । गावः । सम्ऽइधानम् । बुधन्त ॥īḷényaḥ ǀ vaḥ ǀ mánuṣaḥ ǀ yugéṣu ǀ samana-gā́ḥ ǀ aśucat ǀ jātá-vedāḥ ǀ
su-sandṛ́śā ǀ bhānúnā ǀ yáḥ ǀ vi-bhā́ti ǀ práti ǀ gā́vaḥ ǀ sam-idhānám ǀ budhanta ǁīḷenyaḥ ǀ vaḥ ǀ manuṣaḥ ǀ yugeṣu ǀ samana-gāḥ ǀ aśucat ǀ jāta-vedāḥ ǀ
su-sandṛśā ǀ bhānunā ǀ yaḥ ǀ vi-bhāti ǀ prati ǀ gāvaḥ ǀ sam-idhānam ǀ budhanta ǁ7.9.4 Aṣṭaka 5.2.12.4Anuvāka 7.1.90
-
Ṛk 5
अग्ने॑ या॒हि दू॒त्यं१॒॑ मा रि॑षण्यो दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ ।
सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पो यक्षि॑ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥अग्ने याहि दूत्यम् मा रिषण्यो देवां अच्छा ब्रह्मकृता गणेन |
सरस्वतीम् मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ||ágne yāhí dūtyám mā́ riṣaṇyo devā́m̐ ácchā brahmakṛ́tā gaṇéna ǀ
sárasvatīm marúto aśvínāpó yákṣi devā́nratnadhéyāya víśvān ǁagne yāhi dūtyam mā riṣaṇyo devāṃ acchā brahmakṛtā gaṇena |
sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān ||अग्ने॑ । या॒हि । दू॒त्य॑म् । मा । रि॒ष॒ण्यः॒ । दे॒वान् । अच्छ॑ । ब्र॒ह्म॒ऽकृता॑ । ग॒णेन॑ ।
सर॑स्वतीम् । म॒रुतः॑ । अ॒श्विना॑ । अ॒पः । यक्षि॑ । दे॒वान् । र॒त्न॒ऽधेया॑य । विश्वा॑न् ॥अग्ने । याहि । दूत्यम् । मा । रिषण्यः । देवान् । अच्छ । ब्रह्मऽकृता । गणेन ।
सरस्वतीम् । मरुतः । अश्विना । अपः । यक्षि । देवान् । रत्नऽधेयाय । विश्वान् ॥ágne ǀ yāhí ǀ dūtyám ǀ mā́ ǀ riṣaṇyaḥ ǀ devā́n ǀ áccha ǀ brahma-kṛ́tā ǀ gaṇéna ǀ
sárasvatīm ǀ marútaḥ ǀ aśvínā ǀ apáḥ ǀ yákṣi ǀ devā́n ǀ ratna-dhéyāya ǀ víśvān ǁagne ǀ yāhi ǀ dūtyam ǀ mā ǀ riṣaṇyaḥ ǀ devān ǀ accha ǀ brahma-kṛtā ǀ gaṇena ǀ
sarasvatīm ǀ marutaḥ ǀ aśvinā ǀ apaḥ ǀ yakṣi ǀ devān ǀ ratna-dheyāya ǀ viśvān ǁ7.9.5 Aṣṭaka 5.2.12.5Anuvāka 7.1.91
-
Ṛk 6
त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू॑थं ह॒न्यक्षि॑ रा॒ये पुरं॑धिं ।
पु॒रु॒णी॒था जा॑तवेदो जरस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥त्वाम् अग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये पुरन्धिम् |
पुरुणीथा जातवेदो जरस्व यूयम् पात स्वस्तिभिः सदा नः ||tvā́magne samidhānó vásiṣṭho járūtham hanyákṣi rāyé púraṃdhim ǀ
puruṇīthā́ jātavedo jarasva yūyám pāta svastíbhiḥ sádā naḥ ǁtvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim |
puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ ||त्वाम् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वसि॑ष्ठः । जरू॑थम् । ह॒न् । यक्षि॑ । रा॒ये । पुर॑म्ऽधिम् ।
पु॒रु॒ऽनी॒था । जा॒त॒ऽवे॒दः॒ । ज॒र॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥त्वाम् । अग्ने । सम्ऽइधानः । वसिष्ठः । जरूथम् । हन् । यक्षि । राये । पुरम्ऽधिम् ।
पुरुऽनीथा । जातऽवेदः । जरस्व । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥tvā́m ǀ agne ǀ sam-idhānáḥ ǀ vásiṣṭhaḥ ǀ járūtham ǀ han ǀ yákṣi ǀ rāyé ǀ púram-dhim ǀ
puru-nīthā́ ǀ jāta-vedaḥ ǀ jarasva ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁtvām ǀ agne ǀ sam-idhānaḥ ǀ vasiṣṭhaḥ ǀ jarūtham ǀ han ǀ yakṣi ǀ rāye ǀ puram-dhim ǀ
puru-nīthā ǀ jāta-vedaḥ ǀ jarasva ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.9.6 Aṣṭaka 5.2.12.6Anuvāka 7.1.92
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.