Ṛgveda · Maṇḍala 7

Sūkta 82

Indra, Varuṇa · Vasiṣṭha Maitrāvaruṇi · 10 ṛks

Link
Devatā देवता
Indra, Varuṇa
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles nicṛjjagatī (1, 2, 6, 7, 9); ārṣījagatī (4, 5, 10); bhurigārcījagatī (3); virāḍjagatī (8)

2nd set of styles jagatī

  1. Ṛk 1

    इंद्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतं ।
    दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥

    इन्द्रावरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यच्छतम् |
    दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ||

    índrāvaruṇā yuvámadhvarā́ya no viśé jánāya máhi śárma yacchatam ǀ
    dīrgháprayajyumáti yó vanuṣyáti vayám jayema pṛ́tanāsu dūḍhyáḥ ǁ

    indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam |
    dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ ||

    इन्द्रा॑वरुणा । यु॒वम् । अ॒ध्व॒राय॑ । नः॒ । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ।
    दी॒र्घऽप्र॑यज्युम् । अति॑ । यः । व॒नु॒ष्यति॑ । व॒यम् । ज॒ये॒म॒ । पृत॑नासु । दुः॒ऽध्यः॑ ॥

    इन्द्रावरुणा । युवम् । अध्वराय । नः । विशे । जनाय । महि । शर्म । यच्छतम् ।
    दीर्घऽप्रयज्युम् । अति । यः । वनुष्यति । वयम् । जयेम । पृतनासु । दुःऽध्यः ॥

    índrāvaruṇā ǀ yuvám ǀ adhvarā́ya ǀ naḥ ǀ viśé ǀ jánāya ǀ máhi ǀ śárma ǀ yacchatam ǀ
    dīrghá-prayajyum ǀ áti ǀ yáḥ ǀ vanuṣyáti ǀ vayám ǀ jayema ǀ pṛ́tanāsu ǀ duḥ-dhyáḥ ǁ

    indrāvaruṇā ǀ yuvam ǀ adhvarāya ǀ naḥ ǀ viśe ǀ janāya ǀ mahi ǀ śarma ǀ yacchatam ǀ
    dīrgha-prayajyum ǀ ati ǀ yaḥ ǀ vanuṣyati ǀ vayam ǀ jayema ǀ pṛtanāsu ǀ duḥ-dhyaḥ ǁ

    7.82.1 Aṣṭaka 5.6.2.1Anuvāka 7.5.63

  2. Ṛk 2

    स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हांता॒विंद्रा॒वरु॑णा म॒हाव॑सू ।
    विश्वे॑ दे॒वासः॑ पर॒मे व्यो॑मनि॒ सं वा॒मोजो॑ वृषणा॒ सं बलं॑ दधुः ॥

    सम्राऌ अन्यः स्वराऌ अन्य उच्यते वाम् महान्ताव् इन्द्रावरुणा महावसू |
    विश्वे देवासः परमे व्योमनि सं वाम् ओजो वृषणा सम् बलं दधुः ||

    samrā́ḷanyáḥ svarā́ḷanyá ucyate vām mahā́ntāvíndrāváruṇā mahā́vasū ǀ
    víśve devā́saḥ paramé vyomani sám vāmójo vṛṣaṇā sám bálam dadhuḥ ǁ

    samrāḷ anyaḥ svarāḷ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū |
    viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ ||

    स॒म्ऽराट् । अ॒न्यः । स्व॒ऽराट् । अ॒न्यः । उ॒च्य॒ते॒ । वा॒म् । म॒हान्तौ॑ । इन्द्रा॒वरु॑णा । म॒हाव॑सू॒ इति॑ म॒हाऽव॑सू ।
    विश्वे॑ । दे॒वासः॑ । प॒र॒मे । विऽओ॑मनि । सम् । वा॒म् । ओजः॑ । वृ॒ष॒णा॒ । सम् । बल॑म् । द॒धुः॒ ॥

    सम्ऽराट् । अन्यः । स्वऽराट् । अन्यः । उच्यते । वाम् । महान्तौ । इन्द्रावरुणा । महावसू इति महाऽवसू ।
    विश्वे । देवासः । परमे । विऽओमनि । सम् । वाम् । ओजः । वृषणा । सम् । बलम् । दधुः ॥

    sam-rā́ṭ ǀ anyáḥ ǀ sva-rā́ṭ ǀ anyáḥ ǀ ucyate ǀ vām ǀ mahā́ntau ǀ índrāváruṇā ǀ mahā́vasū íti mahā́-vasū ǀ
    víśve ǀ devā́saḥ ǀ paramé ǀ ví-omani ǀ sám ǀ vām ǀ ójaḥ ǀ vṛṣaṇā ǀ sám ǀ bálam ǀ dadhuḥ ǁ

    sam-rāṭ ǀ anyaḥ ǀ sva-rāṭ ǀ anyaḥ ǀ ucyate ǀ vām ǀ mahāntau ǀ indrāvaruṇā ǀ mahāvasū iti mahā-vasū ǀ
    viśve ǀ devāsaḥ ǀ parame ǀ vi-omani ǀ sam ǀ vām ǀ ojaḥ ǀ vṛṣaṇā ǀ sam ǀ balam ǀ dadhuḥ ǁ

    7.82.2 Aṣṭaka 5.6.2.2Anuvāka 7.5.64

  3. Ṛk 3

    अन्व॒पां खान्य॑तृंत॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुं ।
    इंद्रा॑वरुणा॒ मदे॑ अस्य मा॒यिनोऽपि॑न्वतम॒पितः॒ पिन्व॑तं॒ धियः॑ ॥

    अन्व् अपां खान्य् अतृन्तम् ओजसा सूर्यम् ऐरयतं दिवि प्रभुम् |
    इन्द्रावरुणा मदे अस्य मायिनो ऽपिन्वतम् अपितः पिन्वतं धियः ||

    ánvapā́m khā́nyatṛntamójasā́ sū́ryamairayatam diví prabhúm ǀ
    índrāvaruṇā máde asya māyínó’pinvatamapítaḥ pínvatam dhíyaḥ ǁ

    anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum |
    indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṃ dhiyaḥ ||

    अनु॑ । अ॒पाम् । खानि॑ । अ॒तृ॒न्त॒म् । ओज॑सा । आ । सूर्य॑म् । ऐ॒र॒य॒त॒म् । दि॒वि । प्र॒ऽभुम् ।
    इन्द्रा॑वरुणा । मदे॑ । अ॒स्य॒ । मा॒यिनः॑ । अपि॑न्वतम् । अ॒पितः॑ । पिन्व॑तम् । धियः॑ ॥

    अनु । अपाम् । खानि । अतृन्तम् । ओजसा । आ । सूर्यम् । ऐरयतम् । दिवि । प्रऽभुम् ।
    इन्द्रावरुणा । मदे । अस्य । मायिनः । अपिन्वतम् । अपितः । पिन्वतम् । धियः ॥

    ánu ǀ apā́m ǀ khā́ni ǀ atṛntam ǀ ójasā ǀ ā́ ǀ sū́ryam ǀ airayatam ǀ diví ǀ pra-bhúm ǀ
    índrāvaruṇā ǀ máde ǀ asya ǀ māyínaḥ ǀ ápinvatam ǀ apítaḥ ǀ pínvatam ǀ dhíyaḥ ǁ

    anu ǀ apām ǀ khāni ǀ atṛntam ǀ ojasā ǀ ā ǀ sūryam ǀ airayatam ǀ divi ǀ pra-bhum ǀ
    indrāvaruṇā ǀ made ǀ asya ǀ māyinaḥ ǀ apinvatam ǀ apitaḥ ǀ pinvatam ǀ dhiyaḥ ǁ

    7.82.3 Aṣṭaka 5.6.2.3Anuvāka 7.5.65

  4. Ṛk 4

    यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः ।
    ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इंद्रा॑वरुणा सु॒हवा॑ हवामहे ॥

    युवाम् इद् युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः |
    ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ||

    yuvā́mídyutsú pṛ́tanāsu váhnayo yuvā́m kṣémasya prasavé mitájñavaḥ ǀ
    īśānā́ vásva ubháyasya kāráva índrāvaruṇā suhávā havāmahe ǁ

    yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ |
    īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe ||

    यु॒वाम् । इत् । यु॒त्ऽसु । पृत॑नासु । वह्न॑यः । यु॒वाम् । क्षेम॑स्य । प्र॒ऽस॒वे । मि॒तऽज्ञ॑वः ।
    ई॒शा॒ना । वस्वः॑ । उ॒भय॑स्य । का॒रवः॑ । इन्द्रा॑वरुणा । सु॒ऽहवा॑ । ह॒वा॒म॒हे॒ ॥

    युवाम् । इत् । युत्ऽसु । पृतनासु । वह्नयः । युवाम् । क्षेमस्य । प्रऽसवे । मितऽज्ञवः ।
    ईशाना । वस्वः । उभयस्य । कारवः । इन्द्रावरुणा । सुऽहवा । हवामहे ॥

    yuvā́m ǀ ít ǀ yut-sú ǀ pṛ́tanāsu ǀ váhnayaḥ ǀ yuvā́m ǀ kṣémasya ǀ pra-savé ǀ mitá-jñavaḥ ǀ
    īśānā́ ǀ vásvaḥ ǀ ubháyasya ǀ kārávaḥ ǀ índrāvaruṇā ǀ su-hávā ǀ havāmahe ǁ

    yuvām ǀ it ǀ yut-su ǀ pṛtanāsu ǀ vahnayaḥ ǀ yuvām ǀ kṣemasya ǀ pra-save ǀ mita-jñavaḥ ǀ
    īśānā ǀ vasvaḥ ǀ ubhayasya ǀ kāravaḥ ǀ indrāvaruṇā ǀ su-havā ǀ havāmahe ǁ

    7.82.4 Aṣṭaka 5.6.2.4Anuvāka 7.5.66

  5. Ṛk 5

    इंद्रा॑वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा॑ जा॒तानि॒ भुव॑नस्य म॒ज्मना॑ ।
    क्षेमे॑ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई॑यते ॥

    इन्द्रावरुणा यद् इमानि चक्रथुर् विश्वा जातानि भुवनस्य मज्मना |
    क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिर् उग्रः शुभम् अन्य ईयते ||

    índrāvaruṇā yádimā́ni cakráthurvíśvā jātā́ni bhúvanasya majmánā ǀ
    kṣémeṇa mitró váruṇam duvasyáti marúdbhirugráḥ śúbhamanyá īyate ǁ

    indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā |
    kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate ||

    इन्द्रा॑वरुणा । यत् । इ॒मानि॑ । च॒क्रथुः॑ । विश्वा॑ । जा॒तानि॑ । भुव॑नस्य । म॒ज्मना॑ ।
    क्षेमे॑ण । मि॒त्रः । वरु॑णम् । दु॒व॒स्यति॑ । म॒रुत्ऽभिः॑ । उ॒ग्रः । शुभ॑म् । अ॒न्यः । ई॒य॒ते॒ ॥

    इन्द्रावरुणा । यत् । इमानि । चक्रथुः । विश्वा । जातानि । भुवनस्य । मज्मना ।
    क्षेमेण । मित्रः । वरुणम् । दुवस्यति । मरुत्ऽभिः । उग्रः । शुभम् । अन्यः । ईयते ॥

    índrāvaruṇā ǀ yát ǀ imā́ni ǀ cakráthuḥ ǀ víśvā ǀ jātā́ni ǀ bhúvanasya ǀ majmánā ǀ
    kṣémeṇa ǀ mitráḥ ǀ váruṇam ǀ duvasyáti ǀ marút-bhiḥ ǀ ugráḥ ǀ śúbham ǀ anyáḥ ǀ īyate ǁ

    indrāvaruṇā ǀ yat ǀ imāni ǀ cakrathuḥ ǀ viśvā ǀ jātāni ǀ bhuvanasya ǀ majmanā ǀ
    kṣemeṇa ǀ mitraḥ ǀ varuṇam ǀ duvasyati ǀ marut-bhiḥ ǀ ugraḥ ǀ śubham ǀ anyaḥ ǀ īyate ǁ

    7.82.5 Aṣṭaka 5.6.2.5Anuvāka 7.5.67

  6. Ṛk 6

    म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो॑ मिमाते ध्रु॒वम॑स्य॒ यत्स्वं ।
    अजा॑मिम॒न्यः श्न॒थयं॑त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ॥

    महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवम् अस्य यत् स्वम् |
    अजामिम् अन्यः श्नथयन्तम् आतिरद् दभ्रेभिर् अन्यः प्र वृणोति भूयसः ||

    mahé śulkā́ya váruṇasya nú tviṣá ójo mimāte dhruvámasya yátsvám ǀ
    ájāmimanyáḥ śnatháyantamā́tiraddabhrébhiranyáḥ prá vṛṇoti bhū́yasaḥ ǁ

    mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam |
    ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ ||

    म॒हे । शु॒ल्काय॑ । वरु॑णस्य । नु । त्वि॒षे । ओजः॑ । मि॒मा॒ते॒ इति॑ । ध्रु॒वम् । अ॒स्य॒ । यत् । स्वम् ।
    अजा॑मिम् । अ॒न्यः । श्न॒थय॑न्तम् । आ । अति॑रत् । द॒भ्रेभिः॑ । अ॒न्यः । प्र । वृ॒णो॒ति॒ । भूय॑सः ॥

    महे । शुल्काय । वरुणस्य । नु । त्विषे । ओजः । मिमाते इति । ध्रुवम् । अस्य । यत् । स्वम् ।
    अजामिम् । अन्यः । श्नथयन्तम् । आ । अतिरत् । दभ्रेभिः । अन्यः । प्र । वृणोति । भूयसः ॥

    mahé ǀ śulkā́ya ǀ váruṇasya ǀ nú ǀ tviṣé ǀ ójaḥ ǀ mimāte íti ǀ dhruvám ǀ asya ǀ yát ǀ svám ǀ
    ájāmim ǀ anyáḥ ǀ śnatháyantam ǀ ā́ ǀ átirat ǀ dabhrébhiḥ ǀ anyáḥ ǀ prá ǀ vṛṇoti ǀ bhū́yasaḥ ǁ

    mahe ǀ śulkāya ǀ varuṇasya ǀ nu ǀ tviṣe ǀ ojaḥ ǀ mimāte iti ǀ dhruvam ǀ asya ǀ yat ǀ svam ǀ
    ajāmim ǀ anyaḥ ǀ śnathayantam ǀ ā ǀ atirat ǀ dabhrebhiḥ ǀ anyaḥ ǀ pra ǀ vṛṇoti ǀ bhūyasaḥ ǁ

    7.82.6 Aṣṭaka 5.6.3.1Anuvāka 7.5.68

  7. Ṛk 7

    न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिंद्रा॑वरुणा॒ न तपः॒ कुत॑श्च॒न ।
    यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ॥

    न तम् अंहो न दुरितानि मर्त्यम् इन्द्रावरुणा न तपः कुतश् चन |
    यस्य देवा गच्छथो वीथो अध्वरं न तम् मर्तस्य नशते परिह्वृतिः ||

    ná támáṃho ná duritā́ni mártyamíndrāvaruṇā ná tápaḥ kútaścaná ǀ
    yásya devā gácchatho vīthó adhvarám ná tám mártasya naśate párihvṛtiḥ ǁ

    na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana |
    yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ ||

    न । तम् । अंहः॑ । न । दुः॒ऽइ॒तानि॑ । मर्त्य॑म् । इन्द्रा॑वरुणा । न । तपः॑ । कुतः॑ । च॒न ।
    यस्य॑ । दे॒वा॒ । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । न । तम् । मर्त॑स्य । न॒श॒ते॒ । परि॑ऽह्वृतिः ॥

    न । तम् । अंहः । न । दुःऽइतानि । मर्त्यम् । इन्द्रावरुणा । न । तपः । कुतः । चन ।
    यस्य । देवा । गच्छथः । वीथः । अध्वरम् । न । तम् । मर्तस्य । नशते । परिऽह्वृतिः ॥

    ná ǀ tám ǀ áṃhaḥ ǀ ná ǀ duḥ-itā́ni ǀ mártyam ǀ índrāvaruṇā ǀ ná ǀ tápaḥ ǀ kútaḥ ǀ caná ǀ
    yásya ǀ devā ǀ gácchathaḥ ǀ vītháḥ ǀ adhvarám ǀ ná ǀ tám ǀ mártasya ǀ naśate ǀ pári-hvṛtiḥ ǁ

    na ǀ tam ǀ aṃhaḥ ǀ na ǀ duḥ-itāni ǀ martyam ǀ indrāvaruṇā ǀ na ǀ tapaḥ ǀ kutaḥ ǀ cana ǀ
    yasya ǀ devā ǀ gacchathaḥ ǀ vīthaḥ ǀ adhvaram ǀ na ǀ tam ǀ martasya ǀ naśate ǀ pari-hvṛtiḥ ǁ

    7.82.7 Aṣṭaka 5.6.3.2Anuvāka 7.5.69

  8. Ṛk 8

    अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः ।
    यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमिं॑द्रावरुणा॒ नि य॑च्छतं ॥

    अर्वाङ् नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः |
    युवोर् हि सख्यम् उत वा यद् आप्यम् मार्डीकम् इन्द्रावरुणा नि यच्छतम् ||

    arvā́ṅnarā dáivyenā́vasā́ gatam śṛṇutám hávam yádi me jújoṣathaḥ ǀ
    yuvórhí sakhyámutá vā yádā́pyam mārḍīkámindrāvaruṇā ní yacchatam ǁ

    arvāṅ narā daivyenāvasā gataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ |
    yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam ||

    अ॒र्वाक् । न॒रा॒ । दैव्ये॑न । अव॑सा । आ । ग॒त॒म् । शृ॒णु॒तम् । हव॑म् । यदि॑ । मे॒ । जुजो॑षथः ।
    यु॒वोः । हि । स॒ख्यम् । उ॒त । वा॒ । यत् । आप्य॑म् । मा॒र्डी॒कम् । इ॒न्द्रा॒व॒रु॒णा॒ । नि । य॒च्छ॒त॒म् ॥

    अर्वाक् । नरा । दैव्येन । अवसा । आ । गतम् । शृणुतम् । हवम् । यदि । मे । जुजोषथः ।
    युवोः । हि । सख्यम् । उत । वा । यत् । आप्यम् । मार्डीकम् । इन्द्रावरुणा । नि । यच्छतम् ॥

    arvā́k ǀ narā ǀ dáivyena ǀ ávasā ǀ ā́ ǀ gatam ǀ śṛṇutám ǀ hávam ǀ yádi ǀ me ǀ jújoṣathaḥ ǀ
    yuvóḥ ǀ hí ǀ sakhyám ǀ utá ǀ vā ǀ yát ǀ ā́pyam ǀ mārḍīkám ǀ indrāvaruṇā ǀ ní ǀ yacchatam ǁ

    arvāk ǀ narā ǀ daivyena ǀ avasā ǀ ā ǀ gatam ǀ śṛṇutam ǀ havam ǀ yadi ǀ me ǀ jujoṣathaḥ ǀ
    yuvoḥ ǀ hi ǀ sakhyam ǀ uta ǀ vā ǀ yat ǀ āpyam ǀ mārḍīkam ǀ indrāvaruṇā ǀ ni ǀ yacchatam ǁ

    7.82.8 Aṣṭaka 5.6.3.3Anuvāka 7.5.70

  9. Ṛk 9

    अ॒स्माक॑मिंद्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा ।
    यद्वां॒ हवं॑त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥

    अस्माकम् इन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कृष्ट्योजसा |
    यद् वां हवन्त उभये अध स्पृधि नरस् तोकस्य तनयस्य सातिषु ||

    asmā́kamindrāvaruṇā bhárebhare puroyodhā́ bhavatam kṛṣṭyojasā ǀ
    yádvām hávanta ubháye ádha spṛdhí nárastokásya tánayasya sātíṣu ǁ

    asmākam indrāvaruṇā bhare-bhare puroyodhā bhavataṃ kṛṣṭyojasā |
    yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu ||

    अ॒स्माक॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । भरे॑ऽभरे । पु॒रः॒ऽयो॒धा । भ॒व॒त॒म् । कृ॒ष्टि॒ऽओ॒ज॒सा॒ ।
    यत् । वा॒म् । हव॑न्ते । उ॒भये॑ । अध॑ । स्पृ॒धि । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तिषु॑ ॥

    अस्माकम् । इन्द्रावरुणा । भरेऽभरे । पुरःऽयोधा । भवतम् । कृष्टिऽओजसा ।
    यत् । वाम् । हवन्ते । उभये । अध । स्पृधि । नरः । तोकस्य । तनयस्य । सातिषु ॥

    asmā́kam ǀ indrāvaruṇā ǀ bháre-bhare ǀ puraḥ-yodhā́ ǀ bhavatam ǀ kṛṣṭi-ojasā ǀ
    yát ǀ vām ǀ hávante ǀ ubháye ǀ ádha ǀ spṛdhí ǀ náraḥ ǀ tokásya ǀ tánayasya ǀ sātíṣu ǁ

    asmākam ǀ indrāvaruṇā ǀ bhare-bhare ǀ puraḥ-yodhā ǀ bhavatam ǀ kṛṣṭi-ojasā ǀ
    yat ǀ vām ǀ havante ǀ ubhaye ǀ adha ǀ spṛdhi ǀ naraḥ ǀ tokasya ǀ tanayasya ǀ sātiṣu ǁ

    7.82.9 Aṣṭaka 5.6.3.4Anuvāka 7.5.71

  10. Ṛk 10

    अ॒स्मे इंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छंतु॒ महि॒ शर्म॑ स॒प्रथः॑ ।
    अ॒व॒ध्रं ज्योति॒रदि॑तेर्ऋता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥

    अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः |
    अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ||

    asmé índro váruṇo mitró aryamā́ dyumnám yacchantu máhi śárma sapráthaḥ ǀ
    avadhrám jyótiráditerṛtāvṛ́dho devásya ślókam savitúrmanāmahe ǁ

    asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ |
    avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe ||

    अ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।
    अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥

    अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । सऽप्रथः ।
    अवध्रम् । ज्योतिः । अदितेः । ऋतऽवृधः । देवस्य । श्लोकम् । सवितुः । मनामहे ॥

    asmé íti ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ dyumnám ǀ yacchantu ǀ máhi ǀ śárma ǀ sa-práthaḥ ǀ
    avadhrám ǀ jyótiḥ ǀ áditeḥ ǀ ṛta-vṛ́dhaḥ ǀ devásya ǀ ślókam ǀ savitúḥ ǀ manāmahe ǁ

    asme iti ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ dyumnam ǀ yacchantu ǀ mahi ǀ śarma ǀ sa-prathaḥ ǀ
    avadhram ǀ jyotiḥ ǀ aditeḥ ǀ ṛta-vṛdhaḥ ǀ devasya ǀ ślokam ǀ savituḥ ǀ manāmahe ǁ

    7.82.10 Aṣṭaka 5.6.3.5Anuvāka 7.5.72

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.82 · Indra, Varuṇa

Interpretations

Ralph T. H. Griffith

Ṛk 1

GRANT us your strong protection, IndraVaruṇa, our people, and our family, for sacrifice. May we subdue in fight our evil-hearted foes, him who attacks the man steadfast in lengthened rites.

Ṛk 2

O Indra-Varuṇa, mighty and very rich One of you is called Monarch and One Autocrat. All Gods in the most lofty region of the air have, O ye Steers, combined all power and might in you.

Ṛk 3

Ye with your strength have pierced the fountains of the floods: the Sun have ye brought forward as the Lord in heaven. Cheered by this magic draught ye, Indra-Varuṇa, made the dry places stream, made songs of praise flow forth.

Ṛk 4

In battels and in frays we ministering priests, kneeling upon our knees for furtherance of our weal, Invoke you, only you, the Lords of twofold wealth, you prompt to hear, we bards, O Indra-Varuṇa.

Ṛk 5

O Indra-Varuṇa, as ye created all these creatures of the world by your surpassing might, In peace and quiet Mitra waits on Varuṇa, the Other, awful, with the Maruis seeks renown.

Ṛk 6

That Varuṇa's high worth may shine preeminent, these Twain have measured each his proper power and might. The One subdueth the destructive enemy; the Other with a few furthereth many a man.

Ṛk 7

No trouble, no misfortune, Indra-Varuṇa, no woe from any side assails the mortal man Whose sacrifice, O Gods, ye visit and enjoy: ne’er doth the crafty guile of mortal injure him.

Ṛk 8

With your divine protection, Heroes, come to us: mine invncation hear, if ye be pleased therewith. Bestow ye upon us, O Indra-Varuṇa, your friendship and your kinship and your favouring grace.

Ṛk 9

In battle after battle, Indra-Varuṇa, be ye our Champions, ye who are the peoples' strength, When both opposing bands invoke you for the fight, and men that they may gain offspring and progeny.