Sūkta 36
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 4, 6); bhurikpaṅkti (1, 7); virāṭtrisṭup (8, 9); triṣṭup (2); paṅktiḥ (5)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः ।
वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥प्र ब्रह्मैतु सदनाद् ऋतस्य वि रश्मिभिः ससृजे सूर्यो गाः |
वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकम् अध्य् एधे अग्निः ||prá bráhmaitu sádanādṛtásya ví raśmíbhiḥ sasṛje sū́ryo gā́ḥ ǀ
ví sā́nunā pṛthivī́ sasra urvī́ pṛthú prátīkamádhyédhe agníḥ ǁpra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ |
vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ ||प्र । ब्रह्म॑ । ए॒तु॒ । सद॑नात् । ऋ॒तस्य॑ । वि । र॒श्मिऽभिः॑ । स॒सृ॒जे॒ । सूर्यः॑ । गाः ।
वि । सानु॑ना । पृ॒थि॒वी । स॒स्रे॒ । उ॒र्वी । पृ॒थु । प्रती॑कम् । अधि॑ । आ । ई॒धे॒ । अ॒ग्निः ॥प्र । ब्रह्म । एतु । सदनात् । ऋतस्य । वि । रश्मिऽभिः । ससृजे । सूर्यः । गाः ।
वि । सानुना । पृथिवी । सस्रे । उर्वी । पृथु । प्रतीकम् । अधि । आ । ईधे । अग्निः ॥prá ǀ bráhma ǀ etu ǀ sádanāt ǀ ṛtásya ǀ ví ǀ raśmí-bhiḥ ǀ sasṛje ǀ sū́ryaḥ ǀ gā́ḥ ǀ
ví ǀ sā́nunā ǀ pṛthivī́ ǀ sasre ǀ urvī́ ǀ pṛthú ǀ prátīkam ǀ ádhi ǀ ā́ ǀ īdhe ǀ agníḥ ǁpra ǀ brahma ǀ etu ǀ sadanāt ǀ ṛtasya ǀ vi ǀ raśmi-bhiḥ ǀ sasṛje ǀ sūryaḥ ǀ gāḥ ǀ
vi ǀ sānunā ǀ pṛthivī ǀ sasre ǀ urvī ǀ pṛthu ǀ pratīkam ǀ adhi ǀ ā ǀ īdhe ǀ agniḥ ǁ7.36.1 Aṣṭaka 5.4.1.1Anuvāka 7.3.41
-
Ṛk 2
इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः ।
इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥इमां वाम् मित्रावरुणा सुवृक्तिम् इषं न कृण्वे असुरा नवीयः |
इनो वाम् अन्यः पदवीर् अदब्धो जनं च मित्रो यतति ब्रुवाणः ||imā́m vām mitrāvaruṇā suvṛktímíṣam ná kṛṇve asurā návīyaḥ ǀ
inó vāmanyáḥ padavī́rádabdho jánam ca mitró yatati bruvāṇáḥ ǁimāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ |
ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ ||इ॒माम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिम् । इष॑म् । न । कृ॒ण्वे॒ । अ॒सु॒रा॒ । नवी॑यः ।
इ॒नः । वा॒म् । अ॒न्यः । प॒द॒ऽवीः । अद॑ब्धः । जन॑म् । च॒ । मि॒त्रः । य॒त॒ति॒ । ब्रु॒वा॒णः ॥इमाम् । वाम् । मित्रावरुणा । सुऽवृक्तिम् । इषम् । न । कृण्वे । असुरा । नवीयः ।
इनः । वाम् । अन्यः । पदऽवीः । अदब्धः । जनम् । च । मित्रः । यतति । ब्रुवाणः ॥imā́m ǀ vām ǀ mitrāvaruṇā ǀ su-vṛktím ǀ íṣam ǀ ná ǀ kṛṇve ǀ asurā ǀ návīyaḥ ǀ
ináḥ ǀ vām ǀ anyáḥ ǀ pada-vī́ḥ ǀ ádabdhaḥ ǀ jánam ǀ ca ǀ mitráḥ ǀ yatati ǀ bruvāṇáḥ ǁimām ǀ vām ǀ mitrāvaruṇā ǀ su-vṛktim ǀ iṣam ǀ na ǀ kṛṇve ǀ asurā ǀ navīyaḥ ǀ
inaḥ ǀ vām ǀ anyaḥ ǀ pada-vīḥ ǀ adabdhaḥ ǀ janam ǀ ca ǀ mitraḥ ǀ yatati ǀ bruvāṇaḥ ǁ7.36.2 Aṣṭaka 5.4.1.2Anuvāka 7.3.42
-
Ṛk 3
आ वात॑स्य॒ ध्रज॑तो रंत इ॒त्या अपी॑पयंत धे॒नवो॒ न सूदाः॑ ।
म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः |
महो दिवः सदने जायमानो ऽचिक्रदद् वृषभः सस्मिन्न् ऊधन् ||ā́ vā́tasya dhrájato ranta ityā́ ápīpayanta dhenávo ná sū́dāḥ ǀ
mahó diváḥ sádane jā́yamānó’cikradadvṛṣabháḥ sásminnū́dhan ǁā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ |
maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan ||आ । वात॑स्य । ध्रज॑तः । र॒न्ते॒ । इ॒त्याः । अपी॑पयन्त । धे॒नवः॑ । न । सूदाः॑ ।
म॒हः । दि॒वः । सद॑ने । जाय॑मानः । अचि॑क्रदत् । वृ॒ष॒भः । सस्मि॑न् । ऊध॑न् ॥आ । वातस्य । ध्रजतः । रन्ते । इत्याः । अपीपयन्त । धेनवः । न । सूदाः ।
महः । दिवः । सदने । जायमानः । अचिक्रदत् । वृषभः । सस्मिन् । ऊधन् ॥ā́ ǀ vā́tasya ǀ dhrájataḥ ǀ rante ǀ ityā́ḥ ǀ ápīpayanta ǀ dhenávaḥ ǀ ná ǀ sū́dāḥ ǀ
maháḥ ǀ diváḥ ǀ sádane ǀ jā́yamānaḥ ǀ ácikradat ǀ vṛṣabháḥ ǀ sásmin ǀ ū́dhan ǁā ǀ vātasya ǀ dhrajataḥ ǀ rante ǀ ityāḥ ǀ apīpayanta ǀ dhenavaḥ ǀ na ǀ sūdāḥ ǀ
mahaḥ ǀ divaḥ ǀ sadane ǀ jāyamānaḥ ǀ acikradat ǀ vṛṣabhaḥ ǀ sasmin ǀ ūdhan ǁ7.36.3 Aṣṭaka 5.4.1.3Anuvāka 7.3.43
-
Ṛk 4
गि॒रा य ए॒ता यु॒नज॒द्धरी॑ त॒ इंद्र॑ प्रि॒या सु॒रथा॑ शूर धा॒यू ।
प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं॑ ववृत्यां ॥गिरा य एता युनजद् धरी त इन्द्र प्रिया सुरथा शूर धायू |
प्र यो मन्युं रिरिक्षतो मिनात्य् आ सुक्रतुम् अर्यमणं ववृत्याम् ||girā́ yá etā́ yunájaddhárī ta índra priyā́ suráthā śūra dhāyū́ ǀ
prá yó manyúm rírikṣato minā́tyā́ sukrátumaryamáṇam vavṛtyām ǁgirā ya etā yunajad dharī ta indra priyā surathā śūra dhāyū |
pra yo manyuṃ ririkṣato mināty ā sukratum aryamaṇaṃ vavṛtyām ||गि॒रा । यः । ए॒ता । यु॒नज॑त् । हरी॒ इति॑ । ते॒ । इन्द्र॑ । प्रि॒या । सु॒ऽरथा॑ । शू॒र॒ । धा॒यू इति॑ ।
प्र । यः । म॒न्युम् । रिरि॑क्षतः । मि॒नाति॑ । आ । सु॒ऽक्रतु॑म् । अ॒र्य॒मण॑म् । व॒वृ॒त्या॒म् ॥गिरा । यः । एता । युनजत् । हरी इति । ते । इन्द्र । प्रिया । सुऽरथा । शूर । धायू इति ।
प्र । यः । मन्युम् । रिरिक्षतः । मिनाति । आ । सुऽक्रतुम् । अर्यमणम् । ववृत्याम् ॥girā́ ǀ yáḥ ǀ etā́ ǀ yunájat ǀ hárī íti ǀ te ǀ índra ǀ priyā́ ǀ su-ráthā ǀ śūra ǀ dhāyū́ íti ǀ
prá ǀ yáḥ ǀ manyúm ǀ rírikṣataḥ ǀ minā́ti ǀ ā́ ǀ su-krátum ǀ aryamáṇam ǀ vavṛtyām ǁgirā ǀ yaḥ ǀ etā ǀ yunajat ǀ harī iti ǀ te ǀ indra ǀ priyā ǀ su-rathā ǀ śūra ǀ dhāyū iti ǀ
pra ǀ yaḥ ǀ manyum ǀ ririkṣataḥ ǀ mināti ǀ ā ǀ su-kratum ǀ aryamaṇam ǀ vavṛtyām ǁ7.36.4 Aṣṭaka 5.4.1.4Anuvāka 7.3.44
-
Ṛk 5
यजं॑ते अस्य स॒ख्यं वय॑श्च नम॒स्विनः॒ स्व ऋ॒तस्य॒ धाम॑न् ।
वि पृक्षो॑ बाबधे॒ नृभिः॒ स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठं॑ ॥यजन्ते अस्य सख्यं वयश् च नमस्विनः स्व ऋतस्य धामन् |
वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ||yájante asya sakhyám váyaśca namasvínaḥ svá ṛtásya dhā́man ǀ
ví pṛ́kṣo bābadhe nṛ́bhiḥ stávāna idám námo rudrā́ya préṣṭham ǁyajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman |
vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham ||यज॑न्ते । अ॒स्य॒ । स॒ख्यम् । वयः॑ । च॒ । न॒म॒स्विनः॑ । स्वे । ऋ॒तस्य॑ । धाम॑न् ।
वि । पृक्षः॑ । बा॒ब॒धे॒ । नृऽभिः॑ । स्तवा॑नः । इ॒दम् । नमः॑ । रु॒द्राय॑ । प्रेष्ठ॑म् ॥यजन्ते । अस्य । सख्यम् । वयः । च । नमस्विनः । स्वे । ऋतस्य । धामन् ।
वि । पृक्षः । बाबधे । नृऽभिः । स्तवानः । इदम् । नमः । रुद्राय । प्रेष्ठम् ॥yájante ǀ asya ǀ sakhyám ǀ váyaḥ ǀ ca ǀ namasvínaḥ ǀ své ǀ ṛtásya ǀ dhā́man ǀ
ví ǀ pṛ́kṣaḥ ǀ bābadhe ǀ nṛ́-bhiḥ ǀ stávānaḥ ǀ idám ǀ námaḥ ǀ rudrā́ya ǀ préṣṭham ǁyajante ǀ asya ǀ sakhyam ǀ vayaḥ ǀ ca ǀ namasvinaḥ ǀ sve ǀ ṛtasya ǀ dhāman ǀ
vi ǀ pṛkṣaḥ ǀ bābadhe ǀ nṛ-bhiḥ ǀ stavānaḥ ǀ idam ǀ namaḥ ǀ rudrāya ǀ preṣṭham ǁ7.36.5 Aṣṭaka 5.4.1.5Anuvāka 7.3.45
-
Ṛk 6
आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिंधु॑माता ।
याः सु॒ष्वयं॑त सु॒दुघाः॑ सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥आ यत् साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता |
याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ||ā́ yátsākám yaśáso vāvaśānā́ḥ sárasvatī saptáthī síndhumātā ǀ
yā́ḥ suṣváyanta sudúghāḥ sudhārā́ abhí svéna páyasā pī́pyānāḥ ǁā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā |
yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ ||आ । यत् । सा॒कम् । य॒शसः॑ । वा॒व॒शा॒नाः । सर॑स्वती । स॒प्तथी॑ । सिन्धु॑ऽमाता ।
याः । सु॒स्वय॑न्त । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः । अ॒भि । स्वेन॑ । पय॑सा । पीप्या॑नाः ॥आ । यत् । साकम् । यशसः । वावशानाः । सरस्वती । सप्तथी । सिन्धुऽमाता ।
याः । सुस्वयन्त । सुऽदुघाः । सुऽधाराः । अभि । स्वेन । पयसा । पीप्यानाः ॥ā́ ǀ yát ǀ sākám ǀ yaśásaḥ ǀ vāvaśānā́ḥ ǀ sárasvatī ǀ saptáthī ǀ síndhu-mātā ǀ
yā́ḥ ǀ susváyanta ǀ su-dúghāḥ ǀ su-dhārā́ḥ ǀ abhí ǀ svéna ǀ páyasā ǀ pī́pyānāḥ ǁā ǀ yat ǀ sākam ǀ yaśasaḥ ǀ vāvaśānāḥ ǀ sarasvatī ǀ saptathī ǀ sindhu-mātā ǀ
yāḥ ǀ susvayanta ǀ su-dughāḥ ǀ su-dhārāḥ ǀ abhi ǀ svena ǀ payasā ǀ pīpyānāḥ ǁ7.36.6 Aṣṭaka 5.4.2.1Anuvāka 7.3.46
-
Ṛk 7
उ॒त त्ये नो॑ म॒रुतो॑ मंदसा॒ना धियं॑ तो॒कं च॑ वा॒जिनो॑ऽवंतु ।
मा नः॒ परि॑ ख्य॒दक्ष॑रा॒ चरं॒त्यवी॑वृध॒न्युज्यं॒ ते र॒यिं नः॑ ॥उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनो ऽवन्तु |
मा नः परि ख्यद् अक्षरा चरन्त्य् अवीवृधन् युज्यं ते रयिं नः ||utá tyé no marúto mandasānā́ dhíyam tokám ca vājíno’vantu ǀ
mā́ naḥ pári khyadákṣarā cárantyávīvṛdhanyújyam té rayím naḥ ǁuta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu |
mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ ||उ॒त । त्ये । नः॒ । म॒रुतः॑ । म॒न्द॒सा॒नाः । धिय॑म् । तो॒कम् । च॒ । वा॒जिनः॑ । अ॒व॒न्तु॒ ।
मा । नः॒ । परि॑ । ख्य॒त् । अक्ष॑रा । चर॑न्ती । अवी॑वृधन् । युज्य॑म् । ते । र॒यिम् । नः॒ ॥उत । त्ये । नः । मरुतः । मन्दसानाः । धियम् । तोकम् । च । वाजिनः । अवन्तु ।
मा । नः । परि । ख्यत् । अक्षरा । चरन्ती । अवीवृधन् । युज्यम् । ते । रयिम् । नः ॥utá ǀ tyé ǀ naḥ ǀ marútaḥ ǀ mandasānā́ḥ ǀ dhíyam ǀ tokám ǀ ca ǀ vājínaḥ ǀ avantu ǀ
mā́ ǀ naḥ ǀ pári ǀ khyat ǀ ákṣarā ǀ cárantī ǀ ávīvṛdhan ǀ yújyam ǀ té ǀ rayím ǀ naḥ ǁuta ǀ tye ǀ naḥ ǀ marutaḥ ǀ mandasānāḥ ǀ dhiyam ǀ tokam ǀ ca ǀ vājinaḥ ǀ avantu ǀ
mā ǀ naḥ ǀ pari ǀ khyat ǀ akṣarā ǀ carantī ǀ avīvṛdhan ǀ yujyam ǀ te ǀ rayim ǀ naḥ ǁ7.36.7 Aṣṭaka 5.4.2.2Anuvāka 7.3.47
-
Ṛk 8
प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रं ।
भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिं ॥प्र वो महीम् अरमतिं कृणुध्वम् प्र पूषणं विदथ्यं न वीरम् |
भगं धियो ऽवितारं नो अस्याः सातौ वाजं रातिषाचम् पुरन्धिम् ||prá vo mahī́marámatim kṛṇudhvam prá pūṣáṇam vidathyám ná vīrám ǀ
bhágam dhiyo’vitā́ram no asyā́ḥ sātáu vā́jam rātiṣā́cam púraṃdhim ǁpra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram |
bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim ||प्र । वः॒ । म॒हीम् । अ॒रम॑तिम् । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । वि॒द॒थ्य॑म् । न । वी॒रम् ।
भग॑म् । धि॒यः । अ॒वि॒तार॑म् । नः॒ । अ॒स्याः । सा॒तौ । वाज॑म् । रा॒ति॒ऽसाच॑म् । पुर॑म्ऽधिम् ॥प्र । वः । महीम् । अरमतिम् । कृणुध्वम् । प्र । पूषणम् । विदथ्यम् । न । वीरम् ।
भगम् । धियः । अवितारम् । नः । अस्याः । सातौ । वाजम् । रातिऽसाचम् । पुरम्ऽधिम् ॥prá ǀ vaḥ ǀ mahī́m ǀ arámatim ǀ kṛṇudhvam ǀ prá ǀ pūṣáṇam ǀ vidathyám ǀ ná ǀ vīrám ǀ
bhágam ǀ dhiyáḥ ǀ avitā́ram ǀ naḥ ǀ asyā́ḥ ǀ sātáu ǀ vā́jam ǀ rāti-sā́cam ǀ púram-dhim ǁpra ǀ vaḥ ǀ mahīm ǀ aramatim ǀ kṛṇudhvam ǀ pra ǀ pūṣaṇam ǀ vidathyam ǀ na ǀ vīram ǀ
bhagam ǀ dhiyaḥ ǀ avitāram ǀ naḥ ǀ asyāḥ ǀ sātau ǀ vājam ǀ rāti-sācam ǀ puram-dhim ǁ7.36.8 Aṣṭaka 5.4.2.3Anuvāka 7.3.48
-
Ṛk 9
अच्छा॒यं वो॑ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः ।
उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥अच्छायं वो मरुतः श्लोक एत्व् अच्छा विष्णुं निषिक्तपाम् अवोभिः |
उत प्रजायै गृणते वयो धुर् यूयम् पात स्वस्तिभिः सदा नः ||ácchāyám vo marutaḥ ślóka etvácchā víṣṇum niṣiktapā́mávobhiḥ ǀ
utá prajā́yai gṛṇaté váyo dhuryūyám pāta svastíbhiḥ sádā naḥ ǁacchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ |
uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ ||अच्छ॑ । अ॒यम् । वः॒ । म॒रु॒तः॒ । श्लोकः॑ । ए॒तु॒ । अच्छ॑ । विष्णु॑म् । नि॒सि॒क्त॒ऽपाम् । अवः॑ऽभिः ।
उ॒त । प्र॒ऽजायै॑ । गृ॒ण॒ते । वयः॑ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥अच्छ । अयम् । वः । मरुतः । श्लोकः । एतु । अच्छ । विष्णुम् । निसिक्तऽपाम् । अवःऽभिः ।
उत । प्रऽजायै । गृणते । वयः । धुः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥áccha ǀ ayám ǀ vaḥ ǀ marutaḥ ǀ ślókaḥ ǀ etu ǀ áccha ǀ víṣṇum ǀ nisikta-pā́m ǀ ávaḥ-bhiḥ ǀ
utá ǀ pra-jā́yai ǀ gṛṇaté ǀ váyaḥ ǀ dhuḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁaccha ǀ ayam ǀ vaḥ ǀ marutaḥ ǀ ślokaḥ ǀ etu ǀ accha ǀ viṣṇum ǀ nisikta-pām ǀ avaḥ-bhiḥ ǀ
uta ǀ pra-jāyai ǀ gṛṇate ǀ vayaḥ ǀ dhuḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.36.9 Aṣṭaka 5.4.2.4Anuvāka 7.3.49
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.