Ṛgveda · Maṇḍala 7

Sūkta 103

Maṇḍūkāḥ · Vasiṣṭha Maitrāvaruṇi · 10 ṛks

Link
Devatā देवता
Maṇḍūkāḥ
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Metres by ṛk

1st set of styles ārṣītriṣṭup (2, 6-8, 10); nicṛttriṣṭup (3, 4); virāṭtrisṭup (5, 9); ārṣyanuṣṭup (1)

2nd set of styles triṣṭubh (2-10); anuṣṭubh (1)

  1. Ṛk 1

    सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ ।
    वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र मं॒डूका॑ अवादिषुः ॥

    संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः |
    वाचम् पर्जन्यजिन्विताम् प्र मण्डूका अवादिषुः ||

    saṃvatsarám śaśayānā́ brāhmaṇā́ vratacāríṇaḥ ǀ
    vā́cam parjányajinvitām prá maṇḍū́kā avādiṣuḥ ǁ

    saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ |
    vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ ||

    सं॒व॒त्स॒रम् । श॒श॒या॒नाः । ब्रा॒ह्म॒णाः । व्र॒त॒ऽचा॒रिणः॑ ।
    वाच॑म् । प॒र्जन्य॑ऽजिन्विताम् । प्र । म॒ण्डूकाः॑ । अ॒वा॒दि॒षुः॒ ॥

    संवत्सरम् । शशयानाः । ब्राह्मणाः । व्रतऽचारिणः ।
    वाचम् । पर्जन्यऽजिन्विताम् । प्र । मण्डूकाः । अवादिषुः ॥

    saṃvatsarám ǀ śaśayānā́ḥ ǀ brāhmaṇā́ḥ ǀ vrata-cāríṇaḥ ǀ
    vā́cam ǀ parjánya-jinvitām ǀ prá ǀ maṇḍū́kāḥ ǀ avādiṣuḥ ǁ

    saṃvatsaram ǀ śaśayānāḥ ǀ brāhmaṇāḥ ǀ vrata-cāriṇaḥ ǀ
    vācam ǀ parjanya-jinvitām ǀ pra ǀ maṇḍūkāḥ ǀ avādiṣuḥ ǁ

    7.103.1 Aṣṭaka 5.7.3.1Anuvāka 7.6.92

  2. Ṛk 2

    दि॒व्या आपो॑ अ॒भि यदे॑न॒मायं॒दृतिं॒ न शुष्कं॑ सर॒सी शया॑नं ।
    गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां मं॒डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥

    दिव्या आपो अभि यद् एनम् आयन् दृतिं न शुष्कं सरसी शयानम् |
    गवाम् अह न मायुर् वत्सिनीनाम् मण्डूकानां वग्नुर् अत्रा सम् एति ||

    divyā́ ā́po abhí yádenamā́yandṛ́tim ná śúṣkam sarasī́ śáyānam ǀ
    gávāmáha ná māyúrvatsínīnām maṇḍū́kānām vagnúrátrā sámeti ǁ

    divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam |
    gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti ||

    दि॒व्याः । आपः॑ । अ॒भि । यत् । ए॒न॒म् । आय॑न् । दृति॑म् । न । शुष्क॑म् । स॒र॒सी इति॑ । शया॑नम् ।
    गवा॑म् । अह॑ । न । मा॒युः । व॒त्सिनी॑नाम् । म॒ण्डूका॑नाम् । व॒ग्नुः । अत्र॑ । सम् । ए॒ति॒ ॥

    दिव्याः । आपः । अभि । यत् । एनम् । आयन् । दृतिम् । न । शुष्कम् । सरसी इति । शयानम् ।
    गवाम् । अह । न । मायुः । वत्सिनीनाम् । मण्डूकानाम् । वग्नुः । अत्र । सम् । एति ॥

    divyā́ḥ ǀ ā́paḥ ǀ abhí ǀ yát ǀ enam ǀ ā́yan ǀ dṛ́tim ǀ ná ǀ śúṣkam ǀ sarasī́ íti ǀ śáyānam ǀ
    gávām ǀ áha ǀ ná ǀ māyúḥ ǀ vatsínīnām ǀ maṇḍū́kānām ǀ vagnúḥ ǀ átra ǀ sám ǀ eti ǁ

    divyāḥ ǀ āpaḥ ǀ abhi ǀ yat ǀ enam ǀ āyan ǀ dṛtim ǀ na ǀ śuṣkam ǀ sarasī iti ǀ śayānam ǀ
    gavām ǀ aha ǀ na ǀ māyuḥ ǀ vatsinīnām ǀ maṇḍūkānām ǀ vagnuḥ ǀ atra ǀ sam ǀ eti ǁ

    7.103.2 Aṣṭaka 5.7.3.2Anuvāka 7.6.93

  3. Ṛk 3

    यदी॑मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायां ।
    अ॒ख्ख॒ली॒कृत्या॑ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वदं॑तमेति ॥

    यद् ईम् एनां उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम् |
    अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यम् उप वदन्तम् एति ||

    yádīmenām̐ uśató abhyávarṣīttṛṣyā́vataḥ prāvṛ́ṣyā́gatāyām ǀ
    akhkhalīkṛ́tyā pitáram ná putró anyó anyámúpa vádantameti ǁ

    yad īm enāṃ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām |
    akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti ||

    यत् । ई॒म् । ए॒ना॒न् । उ॒श॒तः । अ॒भि । अव॑र्षीत् । तृ॒ष्याऽव॑तः । प्रा॒वृषि॑ । आऽग॑तायाम् ।
    अ॒ख्ख॒ली॒कृत्य॑ । पि॒तर॑म् । न । पु॒त्रः । अ॒न्यः । अ॒न्यम् । उप॑ । वद॑न्तम् । ए॒ति॒ ॥

    यत् । ईम् । एनान् । उशतः । अभि । अवर्षीत् । तृष्याऽवतः । प्रावृषि । आऽगतायाम् ।
    अख्खलीकृत्य । पितरम् । न । पुत्रः । अन्यः । अन्यम् । उप । वदन्तम् । एति ॥

    yát ǀ īm ǀ enān ǀ uśatáḥ ǀ abhí ǀ ávarṣīt ǀ tṛṣyā́-vataḥ ǀ prāvṛ́ṣi ǀ ā́-gatāyām ǀ
    akhkhalīkṛ́tya ǀ pitáram ǀ ná ǀ putráḥ ǀ anyáḥ ǀ anyám ǀ úpa ǀ vádantam ǀ eti ǁ

    yat ǀ īm ǀ enān ǀ uśataḥ ǀ abhi ǀ avarṣīt ǀ tṛṣyā-vataḥ ǀ prāvṛṣi ǀ ā-gatāyām ǀ
    akhkhalīkṛtya ǀ pitaram ǀ na ǀ putraḥ ǀ anyaḥ ǀ anyam ǀ upa ǀ vadantam ǀ eti ǁ

    7.103.3 Aṣṭaka 5.7.3.3Anuvāka 7.6.94

  4. Ṛk 4

    अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदमं॑दिषातां ।
    मं॒डूको॒ यद॒भिवृ॑ष्टः॒ कनि॑ष्क॒न्पृश्निः॑ संपृं॒क्ते हरि॑तेन॒ वाचं॑ ॥

    अन्यो अन्यम् अनु गृभ्णात्य् एनोर् अपाम् प्रसर्गे यद् अमन्दिषाताम् |
    मण्डूको यद् अभिवृष्टः कनिष्कन् पृश्निः सम्पृङ्क्ते हरितेन वाचम् ||

    anyó anyámánu gṛbhṇātyenorapā́m prasargé yádámandiṣātām ǀ
    maṇḍū́ko yádabhívṛṣṭaḥ kániṣkanpṛ́śniḥ sampṛṅkté háritena vā́cam ǁ

    anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām |
    maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ sampṛṅkte haritena vācam ||

    अ॒न्यः । अ॒न्यम् । अनु॑ । गृ॒भ्णा॒ति॒ । ए॒नोः॒ । अ॒पाम् । प्र॒ऽस॒र्गे । यत् । अम॑न्दिषाताम् ।
    म॒ण्डूकः॑ । यत् । अ॒भिऽवृ॑ष्टः । कनि॑स्कन् । पृश्निः॑ । स॒म्ऽपृ॒ङ्क्ते । हरि॑तेन । वाच॑म् ॥

    अन्यः । अन्यम् । अनु । गृभ्णाति । एनोः । अपाम् । प्रऽसर्गे । यत् । अमन्दिषाताम् ।
    मण्डूकः । यत् । अभिऽवृष्टः । कनिस्कन् । पृश्निः । सम्ऽपृङ्क्ते । हरितेन । वाचम् ॥

    anyáḥ ǀ anyám ǀ ánu ǀ gṛbhṇāti ǀ enoḥ ǀ apā́m ǀ pra-sargé ǀ yát ǀ ámandiṣātām ǀ
    maṇḍū́kaḥ ǀ yát ǀ abhí-vṛṣṭaḥ ǀ kániskan ǀ pṛ́śniḥ ǀ sam-pṛṅkté ǀ háritena ǀ vā́cam ǁ

    anyaḥ ǀ anyam ǀ anu ǀ gṛbhṇāti ǀ enoḥ ǀ apām ǀ pra-sarge ǀ yat ǀ amandiṣātām ǀ
    maṇḍūkaḥ ǀ yat ǀ abhi-vṛṣṭaḥ ǀ kaniskan ǀ pṛśniḥ ǀ sam-pṛṅkte ǀ haritena ǀ vācam ǁ

    7.103.4 Aṣṭaka 5.7.3.4Anuvāka 7.6.95

  5. Ṛk 5

    यदे॑षाम॒न्यो अ॒न्यस्य॒ वाचं॑ शा॒क्तस्ये॑व॒ वद॑ति॒ शिक्ष॑माणः ।
    सर्वं॒ तदे॑षां स॒मृधे॑व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥

    यद् एषाम् अन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः |
    सर्वं तद् एषां समृधेव पर्व यत् सुवाचो वदथनाध्य् अप्सु ||

    yádeṣāmanyó anyásya vā́cam śāktásyeva vádati śíkṣamāṇaḥ ǀ
    sárvam tádeṣām samṛ́dheva párva yátsuvā́co vádathanā́dhyapsú ǁ

    yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ |
    sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu ||

    यत् । ए॒षा॒म् । अ॒न्यः । अ॒न्यस्य॑ । वाच॑म् । शा॒क्तस्य॑ऽइव । वद॑ति । शिक्ष॑माणः ।
    सर्व॑म् । तत् । ए॒षा॒म् । स॒मृधा॑ऽइव । पर्व॑ । यत् । सु॒ऽवाचः॑ । वद॑थन । अधि॑ । अ॒प्ऽसु ॥

    यत् । एषाम् । अन्यः । अन्यस्य । वाचम् । शाक्तस्यऽइव । वदति । शिक्षमाणः ।
    सर्वम् । तत् । एषाम् । समृधाऽइव । पर्व । यत् । सुऽवाचः । वदथन । अधि । अप्ऽसु ॥

    yát ǀ eṣām ǀ anyáḥ ǀ anyásya ǀ vā́cam ǀ śāktásya-iva ǀ vádati ǀ śíkṣamāṇaḥ ǀ
    sárvam ǀ tát ǀ eṣām ǀ samṛ́dhā-iva ǀ párva ǀ yát ǀ su-vā́caḥ ǀ vádathana ǀ ádhi ǀ ap-sú ǁ

    yat ǀ eṣām ǀ anyaḥ ǀ anyasya ǀ vācam ǀ śāktasya-iva ǀ vadati ǀ śikṣamāṇaḥ ǀ
    sarvam ǀ tat ǀ eṣām ǀ samṛdhā-iva ǀ parva ǀ yat ǀ su-vācaḥ ǀ vadathana ǀ adhi ǀ ap-su ǁ

    7.103.5 Aṣṭaka 5.7.3.5Anuvāka 7.6.96

  6. Ṛk 6

    गोमा॑यु॒रेको॑ अ॒जमा॑यु॒रेकः॒ पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषां ।
    स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू॑पाः पुरु॒त्रा वाचं॑ पिपिशु॒र्वदं॑तः ॥

    गोमायुर् एको अजमायुर् एकः पृश्निर् एको हरित एक एषाम् |
    समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचम् पिपिशुर् वदन्तः ||

    gómāyuréko ajámāyurékaḥ pṛ́śniréko hárita éka eṣām ǀ
    samānám nā́ma bíbhrato vírūpāḥ purutrā́ vā́cam pipiśurvádantaḥ ǁ

    gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām |
    samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ ||

    गोऽमा॑युः । एकः॑ । अ॒जऽमा॑युः । एकः॑ । पृश्निः॑ । एकः॑ । हरि॑तः । एकः॑ । ए॒षा॒म् ।
    स॒मा॒नम् । नाम॑ । बिभ्र॑तः । विऽरू॑पाः । पु॒रु॒ऽत्रा । वाच॑म् । पि॒पि॒शुः॒ । वद॑न्तः ॥

    गोऽमायुः । एकः । अजऽमायुः । एकः । पृश्निः । एकः । हरितः । एकः । एषाम् ।
    समानम् । नाम । बिभ्रतः । विऽरूपाः । पुरुऽत्रा । वाचम् । पिपिशुः । वदन्तः ॥

    gó-māyuḥ ǀ ékaḥ ǀ ajá-māyuḥ ǀ ékaḥ ǀ pṛ́śniḥ ǀ ékaḥ ǀ háritaḥ ǀ ékaḥ ǀ eṣām ǀ
    samānám ǀ nā́ma ǀ bíbhrataḥ ǀ ví-rūpāḥ ǀ puru-trā́ ǀ vā́cam ǀ pipiśuḥ ǀ vádantaḥ ǁ

    go-māyuḥ ǀ ekaḥ ǀ aja-māyuḥ ǀ ekaḥ ǀ pṛśniḥ ǀ ekaḥ ǀ haritaḥ ǀ ekaḥ ǀ eṣām ǀ
    samānam ǀ nāma ǀ bibhrataḥ ǀ vi-rūpāḥ ǀ puru-trā ǀ vācam ǀ pipiśuḥ ǀ vadantaḥ ǁ

    7.103.6 Aṣṭaka 5.7.4.1Anuvāka 7.6.97

  7. Ṛk 7

    ब्रा॒ह्म॒णासो॑ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वदं॑तः ।
    सं॒व॒त्स॒रस्य॒ तदहः॒ परि॑ ष्ठ॒ यन्मं॑डूकाः प्रावृ॒षीणं॑ ब॒भूव॑ ॥

    ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णम् अभितो वदन्तः |
    संवत्सरस्य तद् अहः परि ष्ठ यन् मण्डूकाः प्रावृषीणम् बभूव ||

    brāhmaṇā́so atirātré ná sóme sáro ná pūrṇámabhíto vádantaḥ ǀ
    saṃvatsarásya tádáhaḥ pári ṣṭha yánmaṇḍūkāḥ prāvṛṣī́ṇam babhū́va ǁ

    brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ |
    saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva ||

    ब्रा॒ह्म॒णासः॑ । अ॒ति॒ऽरा॒त्रे । न । सोमे॑ । सरः॑ । न । पू॒र्णम् । अ॒भितः॑ । वद॑न्तः ।
    सं॒व॒त्स॒रस्य॑ । तत् । अह॒रिति॑ । परि॑ । स्थ॒ । यत् । म॒ण्डू॒काः॒ । प्रा॒वृ॒षीण॑म् । ब॒भूव॑ ॥

    ब्राह्मणासः । अतिऽरात्रे । न । सोमे । सरः । न । पूर्णम् । अभितः । वदन्तः ।
    संवत्सरस्य । तत् । अहरिति । परि । स्थ । यत् । मण्डूकाः । प्रावृषीणम् । बभूव ॥

    brāhmaṇā́saḥ ǀ ati-rātré ǀ ná ǀ sóme ǀ sáraḥ ǀ ná ǀ pūrṇám ǀ abhítaḥ ǀ vádantaḥ ǀ
    saṃvatsarásya ǀ tát ǀ áharíti ǀ pári ǀ stha ǀ yát ǀ maṇḍūkāḥ ǀ prāvṛṣī́ṇam ǀ babhū́va ǁ

    brāhmaṇāsaḥ ǀ ati-rātre ǀ na ǀ some ǀ saraḥ ǀ na ǀ pūrṇam ǀ abhitaḥ ǀ vadantaḥ ǀ
    saṃvatsarasya ǀ tat ǀ ahariti ǀ pari ǀ stha ǀ yat ǀ maṇḍūkāḥ ǀ prāvṛṣīṇam ǀ babhūva ǁ

    7.103.7 Aṣṭaka 5.7.4.2Anuvāka 7.6.98

  8. Ṛk 8

    ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वंतः॑ परिवत्स॒रीणं॑ ।
    अ॒ध्व॒र्यवो॑ घ॒र्मिणः॑ सिष्विदा॒ना आ॒विर्भ॑वंति॒ गुह्या॒ न के चि॑त् ॥

    ब्राह्मणासः सोमिनो वाचम् अक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् |
    अध्वर्यवो घर्मिणः सिष्विदाना आविर् भवन्ति गुह्या न के चित् ||

    brāhmaṇā́saḥ somíno vā́camakrata bráhma kṛṇvántaḥ parivatsarī́ṇam ǀ
    adhvaryávo gharmíṇaḥ siṣvidānā́ āvírbhavanti gúhyā ná ké cit ǁ

    brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam |
    adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit ||

    ब्रा॒ह्म॒णासः॑ । सो॒मिनः॑ । वाच॑म् । अ॒क्र॒त॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । प॒रि॒व॒त्स॒रीण॑म् ।
    अ॒ध्व॒र्यवः॑ । घ॒र्मिणः॑ । सि॒स्वि॒दा॒नाः । आ॒विः । भ॒व॒न्ति॒ । गुह्याः॑ । न । के । चि॒त् ॥

    ब्राह्मणासः । सोमिनः । वाचम् । अक्रत । ब्रह्म । कृण्वन्तः । परिवत्सरीणम् ।
    अध्वर्यवः । घर्मिणः । सिस्विदानाः । आविः । भवन्ति । गुह्याः । न । के । चित् ॥

    brāhmaṇā́saḥ ǀ somínaḥ ǀ vā́cam ǀ akrata ǀ bráhma ǀ kṛṇvántaḥ ǀ parivatsarī́ṇam ǀ
    adhvaryávaḥ ǀ gharmíṇaḥ ǀ sisvidānā́ḥ ǀ āvíḥ ǀ bhavanti ǀ gúhyāḥ ǀ ná ǀ ké ǀ cit ǁ

    brāhmaṇāsaḥ ǀ sominaḥ ǀ vācam ǀ akrata ǀ brahma ǀ kṛṇvantaḥ ǀ parivatsarīṇam ǀ
    adhvaryavaḥ ǀ gharmiṇaḥ ǀ sisvidānāḥ ǀ āviḥ ǀ bhavanti ǀ guhyāḥ ǀ na ǀ ke ǀ cit ǁ

    7.103.8 Aṣṭaka 5.7.4.3Anuvāka 7.6.99

  9. Ṛk 9

    दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नंत्ये॒ते ।
    सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा अ॑श्नुवते विस॒र्गं ॥

    देवहितिं जुगुपुर् द्वादशस्य ऋतुं नरो न प्र मिनन्त्य् एते |
    संवत्सरे प्रावृष्य् आगतायां तप्ता घर्मा अश्नुवते विसर्गम् ||

    deváhitim jugupurdvādaśásya ṛtúm náro ná prá minantyeté ǀ
    saṃvatsaré prāvṛ́ṣyā́gatāyām taptā́ gharmā́ aśnuvate visargám ǁ

    devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete |
    saṃvatsare prāvṛṣy āgatāyāṃ taptā gharmā aśnuvate visargam ||

    दे॒वऽहि॑तिम् । जु॒गु॒पुः॒ । द्वा॒द॒शस्य॑ । ऋ॒तुम् । नरः॑ । न । प्र । मि॒न॒न्ति॒ । ए॒ते ।
    सं॒व॒त्स॒रे । प्रा॒वृषि॑ । आऽग॑तायाम् । त॒प्ताः । घ॒र्माः । अ॒श्नु॒व॒ते॒ । वि॒ऽस॒र्गम् ॥

    देवऽहितिम् । जुगुपुः । द्वादशस्य । ऋतुम् । नरः । न । प्र । मिनन्ति । एते ।
    संवत्सरे । प्रावृषि । आऽगतायाम् । तप्ताः । घर्माः । अश्नुवते । विऽसर्गम् ॥

    devá-hitim ǀ jugupuḥ ǀ dvādaśásya ǀ ṛtúm ǀ náraḥ ǀ ná ǀ prá ǀ minanti ǀ eté ǀ
    saṃvatsaré ǀ prāvṛ́ṣi ǀ ā́-gatāyām ǀ taptā́ḥ ǀ gharmā́ḥ ǀ aśnuvate ǀ vi-sargám ǁ

    deva-hitim ǀ jugupuḥ ǀ dvādaśasya ǀ ṛtum ǀ naraḥ ǀ na ǀ pra ǀ minanti ǀ ete ǀ
    saṃvatsare ǀ prāvṛṣi ǀ ā-gatāyām ǀ taptāḥ ǀ gharmāḥ ǀ aśnuvate ǀ vi-sargam ǁ

    7.103.9 Aṣṭaka 5.7.4.4Anuvāka 7.6.100

  10. Ṛk 10

    गोमा॑युरदाद॒जमा॑युरदा॒त्पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू॑नि ।
    गवां॑ मं॒डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥

    गोमायुर् अदाद् अजमायुर् अदात् पृश्निर् अदाद् धरितो नो वसूनि |
    गवाम् मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ||

    gómāyuradādajámāyuradātpṛ́śniradāddhárito no vásūni ǀ
    gávām maṇḍū́kā dádataḥ śatā́ni sahasrasāvé prá tiranta ā́yuḥ ǁ

    gomāyur adād ajamāyur adāt pṛśnir adād dharito no vasūni |
    gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ ||

    गोऽमा॑युः । अ॒दा॒त् । अ॒जऽमा॑युः । अ॒दा॒त् । पृश्निः॑ । अ॒दा॒त् । हरि॑तः । नः॒ । वसू॑नि ।
    गवा॑म् । म॒ण्डूकाः॑ । दद॑तः । श॒तानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

    गोऽमायुः । अदात् । अजऽमायुः । अदात् । पृश्निः । अदात् । हरितः । नः । वसूनि ।
    गवाम् । मण्डूकाः । ददतः । शतानि । सहस्रऽसावे । प्र । तिरन्ते । आयुः ॥

    gó-māyuḥ ǀ adāt ǀ ajá-māyuḥ ǀ adāt ǀ pṛ́śniḥ ǀ adāt ǀ háritaḥ ǀ naḥ ǀ vásūni ǀ
    gávām ǀ maṇḍū́kāḥ ǀ dádataḥ ǀ śatā́ni ǀ sahasra-sāvé ǀ prá ǀ tirante ǀ ā́yuḥ ǁ

    go-māyuḥ ǀ adāt ǀ aja-māyuḥ ǀ adāt ǀ pṛśniḥ ǀ adāt ǀ haritaḥ ǀ naḥ ǀ vasūni ǀ
    gavām ǀ maṇḍūkāḥ ǀ dadataḥ ǀ śatāni ǀ sahasra-sāve ǀ pra ǀ tirante ǀ āyuḥ ǁ

    7.103.10 Aṣṭaka 5.7.4.5Anuvāka 7.6.101

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.103 · Maṇḍūkāḥ

Interpretations

Ralph T. H. Griffith

Ṛk 1

THEY who lay quiet for a year, the Brahmans who fulfil their vows, The Frogs have lifted up their voice, the voice Parjanya hath inspired.

Ṛk 2

What time on these, as on a dry skin lying in the pool's bed, the floods of heaven descended, The music of the Frogs comes forth in concert like the cows lowing with their calves beside them.

Ṛk 3

When at the coming of the Rains the water has poured upon them as they yearned and thirsted, One seeks another as he talks and greets him with cries of pleasure as a son his father.

Ṛk 4

Each of these twain receives the other kindly, while they are revelling in the flow of waters, When the Frog moistened by the rain springs forward, and Green and Spotty both combine their voices.

Ṛk 5

When one of these repeats the other's language, as he who learns the lesson of the teacher, Your every limb seems to be growing larger as ye converse with eloquence on the waters.

Ṛk 6

Onc is Cow-bellow and Goat-bleat the other, one Frog is Green and one of them is Spotty. They bear one common name, and yet they vary, and, talking, modulate the voice diversely.

Ṛk 7

As Brahmans, sitting round the brimful vessel, talk at the Soma-rite of Atiratra, So, Frogs, ye gather round the pool to honour this day of all the year, the first of Rain-time.

Ṛk 8

These Brahmans with the Soma juice, performing their year-long rite, have lifted up their voices; And these Adhvaryus, sweating with their kettles, come forth and show themselves, and none are hidden.

Ṛk 9

They keep the twelve month's God-appointed order, and never do the men neglect the season. Soon as the Rain-time in the year returneth, these who were heated kettles gain their freedom.