Sūkta 19
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (7, 9, 10); triṣṭup (1, 5); nicṛttriṣṭup (3, 6); bhurikpaṅkti (8, 11); nicṛtpaṅkti (2); paṅktiḥ (4)
2nd set of styles triṣṭubh
-
Ṛk 1
यस्ति॒ग्मशृं॑गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑ ।
यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रयं॒तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥यस् तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश् च्यावयति प्र विश्वाः |
यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ||yástigmáśṛṅgo vṛṣabhó ná bhīmá ékaḥ kṛṣṭī́ścyāváyati prá víśvāḥ ǀ
yáḥ śáśvato ádāśuṣo gáyasya prayantā́si súṣvitarāya védaḥ ǁyas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ |
yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ ||यः । ति॒ग्मऽशृ॑ङ्गः । वृ॒ष॒भः । न । भी॒मः । एकः॑ । कृ॒ष्टीः । च्य॒वय॑ति । प्र । विश्वाः॑ ।
यः । शश्व॑तः । अदा॑शुषः । गय॑स्य । प्र॒ऽय॒न्ता । अ॒सि॒ । सु॒स्वि॑ऽतराय । वेदः॑ ॥यः । तिग्मऽशृङ्गः । वृषभः । न । भीमः । एकः । कृष्टीः । च्यवयति । प्र । विश्वाः ।
यः । शश्वतः । अदाशुषः । गयस्य । प्रऽयन्ता । असि । सुस्विऽतराय । वेदः ॥yáḥ ǀ tigmá-śṛṅgaḥ ǀ vṛṣabháḥ ǀ ná ǀ bhīmáḥ ǀ ékaḥ ǀ kṛṣṭī́ḥ ǀ cyaváyati ǀ prá ǀ víśvāḥ ǀ
yáḥ ǀ śáśvataḥ ǀ ádāśuṣaḥ ǀ gáyasya ǀ pra-yantā́ ǀ asi ǀ susví-tarāya ǀ védaḥ ǁyaḥ ǀ tigma-śṛṅgaḥ ǀ vṛṣabhaḥ ǀ na ǀ bhīmaḥ ǀ ekaḥ ǀ kṛṣṭīḥ ǀ cyavayati ǀ pra ǀ viśvāḥ ǀ
yaḥ ǀ śaśvataḥ ǀ adāśuṣaḥ ǀ gayasya ǀ pra-yantā ǀ asi ǀ susvi-tarāya ǀ vedaḥ ǁ7.19.1 Aṣṭaka 5.2.29.1Anuvāka 7.2.26
-
Ṛk 2
त्वं ह॒ त्यदिं॑द्र॒ कुत्स॑मावः॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।
दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अरं॑धय आर्जुने॒याय॒ शिक्ष॑न् ॥त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये |
दासं यच् छुष्णं कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ||tvám ha tyádindra kútsamāvaḥ śúśrūṣamāṇastanvā́ samaryé ǀ
dā́sam yácchúṣṇam kúyavam nyásmā árandhaya ārjuneyā́ya śíkṣan ǁtvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye |
dāsaṃ yac chuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan ||त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒वः॒ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।
दास॑म् । यत् । शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ । अर॑न्धयः । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥त्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आवः । शुश्रूषमाणः । तन्वा । सऽमर्ये ।
दासम् । यत् । शुष्णम् । कुयवम् । नि । अस्मै । अरन्धयः । आर्जुनेयाय । शिक्षन् ॥tvám ǀ ha ǀ tyát ǀ indra ǀ kútsam ǀ āvaḥ ǀ śúśrūṣamāṇaḥ ǀ tanvā́ ǀ sa-maryé ǀ
dā́sam ǀ yát ǀ śúṣṇam ǀ kúyavam ǀ ní ǀ asmai ǀ árandhayaḥ ǀ ārjuneyā́ya ǀ śíkṣan ǁtvam ǀ ha ǀ tyat ǀ indra ǀ kutsam ǀ āvaḥ ǀ śuśrūṣamāṇaḥ ǀ tanvā ǀ sa-marye ǀ
dāsam ǀ yat ǀ śuṣṇam ǀ kuyavam ǀ ni ǀ asmai ǀ arandhayaḥ ǀ ārjuneyāya ǀ śikṣan ǁ7.19.2 Aṣṭaka 5.2.29.2Anuvāka 7.2.27
-
Ṛk 3
त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दासं॑ ।
प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुं ॥त्वं धृष्णो धृषता वीतहव्यम् प्रावो विश्वाभिर् ऊतिभिः सुदासम् |
प्र पौरुकुत्सिं त्रसदस्युम् आवः क्षेत्रसाता वृत्रहत्येषु पूरुम् ||tvám dhṛṣṇo dhṛṣatā́ vītáhavyam prā́vo víśvābhirūtíbhiḥ sudā́sam ǀ
prá páurukutsim trasádasyumāvaḥ kṣétrasātā vṛtrahátyeṣu pūrúm ǁtvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam |
pra paurukutsiṃ trasadasyum āvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ||त्वम् । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । वी॒तऽह॑व्यम् । प्र । आ॒वः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । सु॒ऽदास॑म् ।
प्र । पौरु॑ऽकुत्सिम् । त्र॒सद॑स्युम् । आ॒वः॒ । क्षेत्र॑ऽसाता । वृ॒त्र॒ऽहत्ये॑षु । पू॒रुम् ॥त्वम् । धृष्णो इति । धृषता । वीतऽहव्यम् । प्र । आवः । विश्वाभिः । ऊतिऽभिः । सुऽदासम् ।
प्र । पौरुऽकुत्सिम् । त्रसदस्युम् । आवः । क्षेत्रऽसाता । वृत्रऽहत्येषु । पूरुम् ॥tvám ǀ dhṛṣṇo íti ǀ dhṛṣatā́ ǀ vītá-havyam ǀ prá ǀ āvaḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ su-dā́sam ǀ
prá ǀ páuru-kutsim ǀ trasádasyum ǀ āvaḥ ǀ kṣétra-sātā ǀ vṛtra-hátyeṣu ǀ pūrúm ǁtvam ǀ dhṛṣṇo iti ǀ dhṛṣatā ǀ vīta-havyam ǀ pra ǀ āvaḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ su-dāsam ǀ
pra ǀ pauru-kutsim ǀ trasadasyum ǀ āvaḥ ǀ kṣetra-sātā ǀ vṛtra-hatyeṣu ǀ pūrum ǁ7.19.3 Aṣṭaka 5.2.29.3Anuvāka 7.2.28
-
Ṛk 4
त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि ।
त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हंतु॑ ॥त्वं नृभिर् नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि |
त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ||tvám nṛ́bhirnṛmaṇo devávītau bhū́rīṇi vṛtrā́ haryaśva haṃsi ǀ
tvám ní dásyum cúmurim dhúnim cā́svāpayo dabhī́taye suhántu ǁtvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi |
tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu ||त्वम् । नृऽभिः॑ । नृ॒ऽम॒नः॒ । दे॒वऽवी॑तौ । भूरी॑णि । वृ॒त्रा । ह॒रि॒ऽअ॒श्व॒ । हं॒सि॒ ।
त्वम् । नि । दस्यु॑म् । चुमु॑रिम् । धुनि॑म् । च॒ । अस्वा॑पयः । द॒भीत॑ये । सु॒ऽहन्तु॑ ॥त्वम् । नृऽभिः । नृऽमनः । देवऽवीतौ । भूरीणि । वृत्रा । हरिऽअश्व । हंसि ।
त्वम् । नि । दस्युम् । चुमुरिम् । धुनिम् । च । अस्वापयः । दभीतये । सुऽहन्तु ॥tvám ǀ nṛ́-bhiḥ ǀ nṛ-manaḥ ǀ devá-vītau ǀ bhū́rīṇi ǀ vṛtrā́ ǀ hari-aśva ǀ haṃsi ǀ
tvám ǀ ní ǀ dásyum ǀ cúmurim ǀ dhúnim ǀ ca ǀ ásvāpayaḥ ǀ dabhī́taye ǀ su-hántu ǁtvam ǀ nṛ-bhiḥ ǀ nṛ-manaḥ ǀ deva-vītau ǀ bhūrīṇi ǀ vṛtrā ǀ hari-aśva ǀ haṃsi ǀ
tvam ǀ ni ǀ dasyum ǀ cumurim ǀ dhunim ǀ ca ǀ asvāpayaḥ ǀ dabhītaye ǀ su-hantu ǁ7.19.4 Aṣṭaka 5.2.29.4Anuvāka 7.2.29
-
Ṛk 5
तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः ।
नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरो नवतिं च सद्यः |
निवेशने शततमाविवेषीर् अहञ् च वृत्रं नमुचिम् उताहन् ||táva cyautnā́ni vajrahasta tā́ni náva yátpúro navatím ca sadyáḥ ǀ
nivéśane śatatamā́viveṣīráhañca vṛtrám námucimutā́han ǁtava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ |
niveśane śatatamāviveṣīr ahañ ca vṛtraṃ namucim utāhan ||तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुरः॑ । न॒व॒तिम् । च॒ । स॒द्यः ।
नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षीः॒ । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥तव । च्यौत्नानि । वज्रऽहस्त । तानि । नव । यत् । पुरः । नवतिम् । च । सद्यः ।
निऽवेशने । शतऽतमा । अविवेषीः । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥táva ǀ cyautnā́ni ǀ vajra-hasta ǀ tā́ni ǀ náva ǀ yát ǀ púraḥ ǀ navatím ǀ ca ǀ sadyáḥ ǀ
ni-véśane ǀ śata-tamā́ ǀ aviveṣīḥ ǀ áhan ǀ ca ǀ vṛtrám ǀ námucim ǀ utá ǀ ahan ǁtava ǀ cyautnāni ǀ vajra-hasta ǀ tāni ǀ nava ǀ yat ǀ puraḥ ǀ navatim ǀ ca ǀ sadyaḥ ǀ
ni-veśane ǀ śata-tamā ǀ aviveṣīḥ ǀ ahan ǀ ca ǀ vṛtram ǀ namucim ǀ uta ǀ ahan ǁ7.19.5 Aṣṭaka 5.2.29.5Anuvāka 7.2.30
-
Ṛk 6
सना॒ ता त॑ इंद्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ ।
वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यंतु॒ ब्रह्मा॑णि पुरुशाक॒ वाजं॑ ॥सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे |
वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ||sánā tā́ ta indra bhójanāni rātáhavyāya dāśúṣe sudā́se ǀ
vṛ́ṣṇe te hárī vṛ́ṣaṇā yunajmi vyántu bráhmāṇi puruśāka vā́jam ǁsanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse |
vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ||सना॑ । ता । ते॒ । इ॒न्द्र॒ । भोज॑नानि । रा॒तऽह॑व्याय । दा॒शुषे॑ । सु॒ऽदासे॑ ।
वृष्णे॑ । ते॒ । हरी॒ इति॑ । वृष॑णा । यु॒न॒ज्मि॒ । व्यन्तु॑ । ब्रह्मा॑णि । पु॒रु॒ऽशा॒क॒ । वाज॑म् ॥सना । ता । ते । इन्द्र । भोजनानि । रातऽहव्याय । दाशुषे । सुऽदासे ।
वृष्णे । ते । हरी इति । वृषणा । युनज्मि । व्यन्तु । ब्रह्माणि । पुरुऽशाक । वाजम् ॥sánā ǀ tā́ ǀ te ǀ indra ǀ bhójanāni ǀ rātá-havyāya ǀ dāśúṣe ǀ su-dā́se ǀ
vṛ́ṣṇe ǀ te ǀ hárī íti ǀ vṛ́ṣaṇā ǀ yunajmi ǀ vyántu ǀ bráhmāṇi ǀ puru-śāka ǀ vā́jam ǁsanā ǀ tā ǀ te ǀ indra ǀ bhojanāni ǀ rāta-havyāya ǀ dāśuṣe ǀ su-dāse ǀ
vṛṣṇe ǀ te ǀ harī iti ǀ vṛṣaṇā ǀ yunajmi ǀ vyantu ǀ brahmāṇi ǀ puru-śāka ǀ vājam ǁ7.19.6 Aṣṭaka 5.2.30.1Anuvāka 7.2.31
-
Ṛk 7
मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै ।
त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥मा ते अस्यां सहसावन् परिष्टाव् अघाय भूम हरिवः परादै |
त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ||mā́ te asyā́m sahasāvanpáriṣṭāvaghā́ya bhūma harivaḥ parādái ǀ
trā́yasva no’vṛkébhirvárūthaistáva priyā́saḥ sūríṣu syāma ǁmā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai |
trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma ||मा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ । ह॒रि॒ऽवः॒ । प॒रा॒ऽदै ।
त्राय॑स्व । नः॒ । अ॒वृ॒केभिः॑ । वरू॑थैः । तव॑ । प्रि॒यासः॑ । सू॒रिषु॑ । स्या॒म॒ ॥मा । ते । अस्याम् । सहसाऽवन् । परिष्टौ । अघाय । भूम । हरिऽवः । पराऽदै ।
त्रायस्व । नः । अवृकेभिः । वरूथैः । तव । प्रियासः । सूरिषु । स्याम ॥mā́ ǀ te ǀ asyā́m ǀ sahasā-van ǀ páriṣṭau ǀ aghā́ya ǀ bhūma ǀ hari-vaḥ ǀ parā-dái ǀ
trā́yasva ǀ naḥ ǀ avṛkébhiḥ ǀ várūthaiḥ ǀ táva ǀ priyā́saḥ ǀ sūríṣu ǀ syāma ǁmā ǀ te ǀ asyām ǀ sahasā-van ǀ pariṣṭau ǀ aghāya ǀ bhūma ǀ hari-vaḥ ǀ parā-dai ǀ
trāyasva ǀ naḥ ǀ avṛkebhiḥ ǀ varūthaiḥ ǀ tava ǀ priyāsaḥ ǀ sūriṣu ǀ syāma ǁ7.19.7 Aṣṭaka 5.2.30.2Anuvāka 7.2.32
-
Ṛk 8
प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः ।
नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥प्रियास इत् ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः |
नि तुर्वशं नि याद्वं शिशीह्य् अतिथिग्वाय शंस्यं करिष्यन् ||priyā́sa ítte maghavannabhíṣṭau náro madema śaraṇé sákhāyaḥ ǀ
ní turváśam ní yā́dvam śiśīhyatithigvā́ya śáṃsyam kariṣyán ǁpriyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ |
ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan ||प्रि॒यासः॑ । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । म॒दे॒म॒ । श॒र॒णे । सखा॑यः ।
नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥प्रियासः । इत् । ते । मघऽवन् । अभिष्टौ । नरः । मदेम । शरणे । सखायः ।
नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥priyā́saḥ ǀ ít ǀ te ǀ magha-van ǀ abhíṣṭau ǀ náraḥ ǀ madema ǀ śaraṇé ǀ sákhāyaḥ ǀ
ní ǀ turváśam ǀ ní ǀ yā́dvam ǀ śiśīhi ǀ atithi-gvā́ya ǀ śáṃsyam ǀ kariṣyán ǁpriyāsaḥ ǀ it ǀ te ǀ magha-van ǀ abhiṣṭau ǀ naraḥ ǀ madema ǀ śaraṇe ǀ sakhāyaḥ ǀ
ni ǀ turvaśam ǀ ni ǀ yādvam ǀ śiśīhi ǀ atithi-gvāya ǀ śaṃsyam ǀ kariṣyan ǁ7.19.8 Aṣṭaka 5.2.30.3Anuvāka 7.2.33
-
Ṛk 9
स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसंत्युक्थ॒शास॑ उ॒क्था ।
ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥सद्यश् चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्य् उक्थशास उक्था |
ये ते हवेभिर् वि पणींर् अदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ||sadyáścinnú té maghavannabhíṣṭau náraḥ śaṃsantyukthaśā́sa ukthā́ ǀ
yé te hávebhirví paṇī́m̐rádāśannasmā́nvṛṇīṣva yújyāya tásmai ǁsadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā |
ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai ||स॒द्यः । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । शं॒स॒न्ति॒ । उ॒क्थ॒ऽशासः॑ । उ॒क्था ।
ये । ते॒ । हवे॑भिः । वि । प॒णीन् । अदा॑शन् । अ॒स्मान् । वृ॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥सद्यः । चित् । नु । ते । मघऽवन् । अभिष्टौ । नरः । शंसन्ति । उक्थऽशासः । उक्था ।
ये । ते । हवेभिः । वि । पणीन् । अदाशन् । अस्मान् । वृणीष्व । युज्याय । तस्मै ॥sadyáḥ ǀ cit ǀ nú ǀ te ǀ magha-van ǀ abhíṣṭau ǀ náraḥ ǀ śaṃsanti ǀ uktha-śā́saḥ ǀ ukthā́ ǀ
yé ǀ te ǀ hávebhiḥ ǀ ví ǀ paṇī́n ǀ ádāśan ǀ asmā́n ǀ vṛṇīṣva ǀ yújyāya ǀ tásmai ǁsadyaḥ ǀ cit ǀ nu ǀ te ǀ magha-van ǀ abhiṣṭau ǀ naraḥ ǀ śaṃsanti ǀ uktha-śāsaḥ ǀ ukthā ǀ
ye ǀ te ǀ havebhiḥ ǀ vi ǀ paṇīn ǀ adāśan ǀ asmān ǀ vṛṇīṣva ǀ yujyāya ǀ tasmai ǁ7.19.9 Aṣṭaka 5.2.30.4Anuvāka 7.2.34
-
Ṛk 10
ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्यं॑चो॒ दद॑तो म॒घानि॑ ।
तेषा॑मिंद्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णां ॥एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि |
तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम् ||eté stómā narā́m nṛtama túbhyamasmadryáñco dádato maghā́ni ǀ
téṣāmindra vṛtrahátye śivó bhūḥ sákhā ca śū́ro’vitā́ ca nṛṇā́m ǁete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni |
teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām ||ए॒ते । स्तोमाः॑ । न॒राम् । नृ॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्य॑ञ्चः । दद॑तः । म॒घानि॑ ।
तेषा॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । शि॒वः । भूः॒ । सखा॑ । च॒ । शूरः॑ । अ॒वि॒ता । च॒ । नृ॒णाम् ॥एते । स्तोमाः । नराम् । नृऽतम । तुभ्यम् । अस्मद्र्यञ्चः । ददतः । मघानि ।
तेषाम् । इन्द्र । वृत्रऽहत्ये । शिवः । भूः । सखा । च । शूरः । अविता । च । नृणाम् ॥eté ǀ stómāḥ ǀ narā́m ǀ nṛ-tama ǀ túbhyam ǀ asmadryáñcaḥ ǀ dádataḥ ǀ maghā́ni ǀ
téṣām ǀ indra ǀ vṛtra-hátye ǀ śiváḥ ǀ bhūḥ ǀ sákhā ǀ ca ǀ śū́raḥ ǀ avitā́ ǀ ca ǀ nṛṇā́m ǁete ǀ stomāḥ ǀ narām ǀ nṛ-tama ǀ tubhyam ǀ asmadryañcaḥ ǀ dadataḥ ǀ maghāni ǀ
teṣām ǀ indra ǀ vṛtra-hatye ǀ śivaḥ ǀ bhūḥ ǀ sakhā ǀ ca ǀ śūraḥ ǀ avitā ǀ ca ǀ nṛṇām ǁ7.19.10 Aṣṭaka 5.2.30.5Anuvāka 7.2.35
-
Ṛk 11
नू इं॑द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व ।
उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस् तन्वा वावृधस्व |
उप नो वाजान् मिमीह्य् उप स्तीन् यूयम् पात स्वस्तिभिः सदा नः ||nū́ indra śūra stávamāna ūtī́ bráhmajūtastanvā́ vāvṛdhasva ǀ
úpa no vā́jānmimīhyúpa stī́nyūyám pāta svastíbhiḥ sádā naḥ ǁnū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva |
upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ ||नु । इ॒न्द्र॒ । शू॒र॒ । स्तव॑मानः । ऊ॒ती । ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒ध॒स्व॒ ।
उप॑ । नः॒ । वाजा॑न् । मि॒मी॒हि॒ । उप॑ । स्तीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । इन्द्र । शूर । स्तवमानः । ऊती । ब्रह्मऽजूतः । तन्वा । ववृधस्व ।
उप । नः । वाजान् । मिमीहि । उप । स्तीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥nú ǀ indra ǀ śūra ǀ stávamānaḥ ǀ ūtī́ ǀ bráhma-jūtaḥ ǀ tanvā́ ǀ vavṛdhasva ǀ
úpa ǀ naḥ ǀ vā́jān ǀ mimīhi ǀ úpa ǀ stī́n ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁnu ǀ indra ǀ śūra ǀ stavamānaḥ ǀ ūtī ǀ brahma-jūtaḥ ǀ tanvā ǀ vavṛdhasva ǀ
upa ǀ naḥ ǀ vājān ǀ mimīhi ǀ upa ǀ stīn ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.19.11 Aṣṭaka 5.2.30.6Anuvāka 7.2.36
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.