Ṛk 7.19.2
Saṃhitā
त्वं ह॒ त्यदिं॑द्र॒ कुत्स॑मावः॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।
दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अरं॑धय आर्जुने॒याय॒ शिक्ष॑न् ॥
त्वं ह त्यद् इन्द्र कुत्सम् आवः शुश्रूषमाणस् तन्वा समर्ये |
दासं यच् छुष्णं कुयवं न्य् अस्मा अरन्धय आर्जुनेयाय शिक्षन् ||
tvám ha tyádindra kútsamāvaḥ śúśrūṣamāṇastanvā́ samaryé ǀ
dā́sam yácchúṣṇam kúyavam nyásmā árandhaya ārjuneyā́ya śíkṣan ǁ
tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye |
dāsaṃ yac chuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan ||
Padapāṭha
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒वः॒ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।
दास॑म् । यत् । शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ । अर॑न्धयः । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥
त्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आवः । शुश्रूषमाणः । तन्वा । सऽमर्ये ।
दासम् । यत् । शुष्णम् । कुयवम् । नि । अस्मै । अरन्धयः । आर्जुनेयाय । शिक्षन् ॥
tvám ǀ ha ǀ tyát ǀ indra ǀ kútsam ǀ āvaḥ ǀ śúśrūṣamāṇaḥ ǀ tanvā́ ǀ sa-maryé ǀ
dā́sam ǀ yát ǀ śúṣṇam ǀ kúyavam ǀ ní ǀ asmai ǀ árandhayaḥ ǀ ārjuneyā́ya ǀ śíkṣan ǁ
tvam ǀ ha ǀ tyat ǀ indra ǀ kutsam ǀ āvaḥ ǀ śuśrūṣamāṇaḥ ǀ tanvā ǀ sa-marye ǀ
dāsam ǀ yat ǀ śuṣṇam ǀ kuyavam ǀ ni ǀ asmai ǀ arandhayaḥ ǀ ārjuneyāya ǀ śikṣan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.019.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.29.02
- Maṇḍala · Anuvāka · Ṛk
- 07.02.027
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.