Ṛk 7.19.10
Saṃhitā
ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्यं॑चो॒ दद॑तो म॒घानि॑ ।
तेषा॑मिंद्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णां ॥
एते स्तोमा नरां नृतम तुभ्यम् अस्मद्र्यञ्चो ददतो मघानि |
तेषाम् इन्द्र वृत्रहत्ये शिवो भूः सखा च शूरो ऽविता च नृणाम् ||
eté stómā narā́m nṛtama túbhyamasmadryáñco dádato maghā́ni ǀ
téṣāmindra vṛtrahátye śivó bhūḥ sákhā ca śū́ro’vitā́ ca nṛṇā́m ǁ
ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni |
teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām ||
Padapāṭha
ए॒ते । स्तोमाः॑ । न॒राम् । नृ॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्य॑ञ्चः । दद॑तः । म॒घानि॑ ।
तेषा॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । शि॒वः । भूः॒ । सखा॑ । च॒ । शूरः॑ । अ॒वि॒ता । च॒ । नृ॒णाम् ॥
एते । स्तोमाः । नराम् । नृऽतम । तुभ्यम् । अस्मद्र्यञ्चः । ददतः । मघानि ।
तेषाम् । इन्द्र । वृत्रऽहत्ये । शिवः । भूः । सखा । च । शूरः । अविता । च । नृणाम् ॥
eté ǀ stómāḥ ǀ narā́m ǀ nṛ-tama ǀ túbhyam ǀ asmadryáñcaḥ ǀ dádataḥ ǀ maghā́ni ǀ
téṣām ǀ indra ǀ vṛtra-hátye ǀ śiváḥ ǀ bhūḥ ǀ sákhā ǀ ca ǀ śū́raḥ ǀ avitā́ ǀ ca ǀ nṛṇā́m ǁ
ete ǀ stomāḥ ǀ narām ǀ nṛ-tama ǀ tubhyam ǀ asmadryañcaḥ ǀ dadataḥ ǀ maghāni ǀ
teṣām ǀ indra ǀ vṛtra-hatye ǀ śivaḥ ǀ bhūḥ ǀ sakhā ǀ ca ǀ śūraḥ ǀ avitā ǀ ca ǀ nṛṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.019.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.30.05
- Maṇḍala · Anuvāka · Ṛk
- 07.02.035
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.