Ṛgveda · Maṇḍala 7

Sūkta 20

Indra · Vasiṣṭha Maitrāvaruṇi · 10 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (2, 4, 10); triṣṭup (6, 8, 9); virāṭtrisṭup (3, 5); svarāṭpaṅkti (1); bhurikpaṅkti (7)

2nd set of styles triṣṭubh

  1. Ṛk 1

    उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावां॒चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् ।
    जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इंद्र॒ एन॑सो म॒हश्चि॑त् ॥

    उग्रो जज्ञे वीर्याय स्वधावाञ् चक्रिर् अपो नर्यो यत् करिष्यन् |
    जग्मिर् युवा नृषदनम् अवोभिस् त्राता न इन्द्र एनसो महश् चित् ||

    ugró jajñe vīryā́ya svadhā́vāñcákrirápo náryo yátkariṣyán ǀ
    jágmiryúvā nṛṣádanamávobhistrātā́ na índra énaso maháścit ǁ

    ugro jajñe vīryāya svadhāvāñ cakrir apo naryo yat kariṣyan |
    jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit ||

    उ॒ग्रः । ज॒ज्ञे॒ । वी॒र्या॑य । स्व॒धाऽवा॑न् । चक्रिः॑ । अपः॑ । नर्यः॑ । यत् । क॒रि॒ष्यन् ।
    जग्मिः॑ । युवा॑ । नृ॒ऽसद॑नम् । अवः॑ऽभिः । त्रा॒ता । नः॒ । इन्द्रः॑ । एन॑सः । म॒हः । चि॒त् ॥

    उग्रः । जज्ञे । वीर्याय । स्वधाऽवान् । चक्रिः । अपः । नर्यः । यत् । करिष्यन् ।
    जग्मिः । युवा । नृऽसदनम् । अवःऽभिः । त्राता । नः । इन्द्रः । एनसः । महः । चित् ॥

    ugráḥ ǀ jajñe ǀ vīryā́ya ǀ svadhā́-vān ǀ cákriḥ ǀ ápaḥ ǀ náryaḥ ǀ yát ǀ kariṣyán ǀ
    jágmiḥ ǀ yúvā ǀ nṛ-sádanam ǀ ávaḥ-bhiḥ ǀ trātā́ ǀ naḥ ǀ índraḥ ǀ énasaḥ ǀ maháḥ ǀ cit ǁ

    ugraḥ ǀ jajñe ǀ vīryāya ǀ svadhā-vān ǀ cakriḥ ǀ apaḥ ǀ naryaḥ ǀ yat ǀ kariṣyan ǀ
    jagmiḥ ǀ yuvā ǀ nṛ-sadanam ǀ avaḥ-bhiḥ ǀ trātā ǀ naḥ ǀ indraḥ ǀ enasaḥ ǀ mahaḥ ǀ cit ǁ

    7.20.1 Aṣṭaka 5.3.1.1Anuvāka 7.2.37

  2. Ṛk 2

    हंता॑ वृ॒त्रमिंद्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती ।
    कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥

    हन्ता वृत्रम् इन्द्रः शूशुवानः प्रावीन् नु वीरो जरितारम् ऊती |
    कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुर् आ दाशुषे भूत् ||

    hántā vṛtrámíndraḥ śū́śuvānaḥ prā́vīnnú vīró jaritā́ramūtī́ ǀ
    kártā sudā́se áha vā́ u lokám dā́tā vásu múhurā́ dāśúṣe bhūt ǁ

    hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī |
    kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt ||

    हन्ता॑ । वृ॒त्रम् । इन्द्रः॑ । शूशु॑वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार॑म् । ऊ॒ती ।
    कर्ता॑ । सु॒ऽदासे॑ । अह॑ । वै । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । मुहुः॑ । आ । दा॒शुषे॑ । भू॒त् ॥

    हन्ता । वृत्रम् । इन्द्रः । शूशुवानः । प्र । आवीत् । नु । वीरः । जरितारम् । ऊती ।
    कर्ता । सुऽदासे । अह । वै । ऊं इति । लोकम् । दाता । वसु । मुहुः । आ । दाशुषे । भूत् ॥

    hántā ǀ vṛtrám ǀ índraḥ ǀ śū́śuvānaḥ ǀ prá ǀ āvīt ǀ nú ǀ vīráḥ ǀ jaritā́ram ǀ ūtī́ ǀ
    kártā ǀ su-dā́se ǀ áha ǀ vái ǀ ūṃ íti ǀ lokám ǀ dā́tā ǀ vásu ǀ múhuḥ ǀ ā́ ǀ dāśúṣe ǀ bhūt ǁ

    hantā ǀ vṛtram ǀ indraḥ ǀ śūśuvānaḥ ǀ pra ǀ āvīt ǀ nu ǀ vīraḥ ǀ jaritāram ǀ ūtī ǀ
    kartā ǀ su-dāse ǀ aha ǀ vai ǀ ūṃ iti ǀ lokam ǀ dātā ǀ vasu ǀ muhuḥ ǀ ā ǀ dāśuṣe ǀ bhūt ǁ

    7.20.2 Aṣṭaka 5.3.1.2Anuvāka 7.2.38

  3. Ṛk 3

    यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड् ज॒नुषे॒मषा॑ळ्हः ।
    व्या॑स॒ इंद्रः॒ पृत॑नाः॒ स्वोजा॒ अधा॒ विश्वं॑ शत्रू॒यंतं॑ जघान ॥

    युध्मो अनर्वा खजकृत् समद्वा शूरः सत्राषाड् जनुषेम् अषाऌहः |
    व्य् आस इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ||

    yudhmó anarvā́ khajakṛ́tsamádvā śū́raḥ satrāṣā́ḍ janúṣemáṣāḷhaḥ ǀ
    vyā́sa índraḥ pṛ́tanāḥ svójā ádhā víśvam śatrūyántam jaghāna ǁ

    yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāḷhaḥ |
    vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna ||

    यु॒ध्मः । अ॒न॒र्वा । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । शूरः॑ । स॒त्रा॒षाट् । ज॒नुषा॑ । ई॒म् । अषा॑ळ्हः ।
    वि । आ॒से॒ । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । अध॑ । विश्व॑म् । श॒त्रु॒ऽयन्त॑म् । ज॒घा॒न॒ ॥

    युध्मः । अनर्वा । खजऽकृत् । समत्ऽवा । शूरः । सत्राषाट् । जनुषा । ईम् । अषाळ्हः ।
    वि । आसे । इन्द्रः । पृतनाः । सुऽओजाः । अध । विश्वम् । शत्रुऽयन्तम् । जघान ॥

    yudhmáḥ ǀ anarvā́ ǀ khaja-kṛ́t ǀ samát-vā ǀ śū́raḥ ǀ satrāṣā́ṭ ǀ janúṣā ǀ īm ǀ áṣāḷhaḥ ǀ
    ví ǀ āse ǀ índraḥ ǀ pṛ́tanāḥ ǀ su-ójāḥ ǀ ádha ǀ víśvam ǀ śatru-yántam ǀ jaghāna ǁ

    yudhmaḥ ǀ anarvā ǀ khaja-kṛt ǀ samat-vā ǀ śūraḥ ǀ satrāṣāṭ ǀ januṣā ǀ īm ǀ aṣāḷhaḥ ǀ
    vi ǀ āse ǀ indraḥ ǀ pṛtanāḥ ǀ su-ojāḥ ǀ adha ǀ viśvam ǀ śatru-yantam ǀ jaghāna ǁ

    7.20.3 Aṣṭaka 5.3.1.3Anuvāka 7.2.39

  4. Ṛk 4

    उ॒भे चि॑दिंद्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः ।
    नि वज्र॒मिंद्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्त्समंध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥

    उभे चिद् इन्द्र रोदसी महित्वा पप्राथ तविषीभिस् तुविष्मः |
    नि वज्रम् इन्द्रो हरिवान् मिमिक्षन् सम् अन्धसा मदेषु वा उवोच ||

    ubhé cidindra ródasī mahitvā́ paprātha táviṣībhistuviṣmaḥ ǀ
    ní vájramíndro hárivānmímikṣantsámándhasā mádeṣu vā́ uvoca ǁ

    ubhe cid indra rodasī mahitvā paprātha taviṣībhis tuviṣmaḥ |
    ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca ||

    उ॒भे इति॑ । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । आ । प॒प्रा॒थ॒ । तवि॑षीभिः । तु॒वि॒ष्मः॒ ।
    नि । वज्र॑म् । इन्द्रः॑ । हरि॑ऽवान् । मिमि॑क्षन् । सम् । अन्ध॑सा । मदे॑षु । वै । उ॒वो॒च॒ ॥

    उभे इति । चित् । इन्द्र । रोदसी इति । महिऽत्वा । आ । पप्राथ । तविषीभिः । तुविष्मः ।
    नि । वज्रम् । इन्द्रः । हरिऽवान् । मिमिक्षन् । सम् । अन्धसा । मदेषु । वै । उवोच ॥

    ubhé íti ǀ cit ǀ indra ǀ ródasī íti ǀ mahi-tvā́ ǀ ā́ ǀ paprātha ǀ táviṣībhiḥ ǀ tuviṣmaḥ ǀ
    ní ǀ vájram ǀ índraḥ ǀ hári-vān ǀ mímikṣan ǀ sám ǀ ándhasā ǀ mádeṣu ǀ vái ǀ uvoca ǁ

    ubhe iti ǀ cit ǀ indra ǀ rodasī iti ǀ mahi-tvā ǀ ā ǀ paprātha ǀ taviṣībhiḥ ǀ tuviṣmaḥ ǀ
    ni ǀ vajram ǀ indraḥ ǀ hari-vān ǀ mimikṣan ǀ sam ǀ andhasā ǀ madeṣu ǀ vai ǀ uvoca ǁ

    7.20.4 Aṣṭaka 5.3.1.4Anuvāka 7.2.40

  5. Ṛk 5

    वृषा॑ जजान॒ वृष॑णं॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नर्यं॑ ससूव ।
    प्र यः से॑ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा॑ ग॒वेष॑णः॒ स धृ॒ष्णुः ॥

    वृषा जजान वृषणं रणाय तम् उ चिन् नारी नर्यं ससूव |
    प्र यः सेनानीर् अध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ||

    vṛ́ṣā jajāna vṛ́ṣaṇam ráṇāya támu cinnā́rī náryam sasūva ǀ
    prá yáḥ senānī́rádha nṛ́bhyo ástīnáḥ sátvā gavéṣaṇaḥ sá dhṛṣṇúḥ ǁ

    vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva |
    pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ ||

    वृषा॑ । ज॒जा॒न॒ । वृष॑णम् । रणा॑य । तम् । ऊं॒ इति॑ । चि॒त् । नारी॑ । नर्य॑म् । स॒सू॒व॒ ।
    प्र । यः । से॒ना॒ऽनीः । अध॑ । नृऽभ्यः॑ । अस्ति॑ । इ॒नः । सत्वा॑ । गो॒ऽएष॑णः । सः । धृ॒ष्णुः ॥

    वृषा । जजान । वृषणम् । रणाय । तम् । ऊं इति । चित् । नारी । नर्यम् । ससूव ।
    प्र । यः । सेनाऽनीः । अध । नृऽभ्यः । अस्ति । इनः । सत्वा । गोऽएषणः । सः । धृष्णुः ॥

    vṛ́ṣā ǀ jajāna ǀ vṛ́ṣaṇam ǀ ráṇāya ǀ tám ǀ ūṃ íti ǀ cit ǀ nā́rī ǀ náryam ǀ sasūva ǀ
    prá ǀ yáḥ ǀ senā-nī́ḥ ǀ ádha ǀ nṛ́-bhyaḥ ǀ ásti ǀ ináḥ ǀ sátvā ǀ go-éṣaṇaḥ ǀ sáḥ ǀ dhṛṣṇúḥ ǁ

    vṛṣā ǀ jajāna ǀ vṛṣaṇam ǀ raṇāya ǀ tam ǀ ūṃ iti ǀ cit ǀ nārī ǀ naryam ǀ sasūva ǀ
    pra ǀ yaḥ ǀ senā-nīḥ ǀ adha ǀ nṛ-bhyaḥ ǀ asti ǀ inaḥ ǀ satvā ǀ go-eṣaṇaḥ ǀ saḥ ǀ dhṛṣṇuḥ ǁ

    7.20.5 Aṣṭaka 5.3.1.5Anuvāka 7.2.41

  6. Ṛk 6

    नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् ।
    य॒ज्ञैर्य इंद्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥

    नू चित् स भ्रेषते जनो न रेषन् मनो यो अस्य घोरम् आविवासात् |
    यज्ञैर् य इन्द्रे दधते दुवांसि क्षयत् स राय ऋतपा ऋतेजाः ||

    nū́ citsá bhreṣate jáno ná reṣanmáno yó asya ghorámāvívāsāt ǀ
    yajñáiryá índre dádhate dúvāṃsi kṣáyatsá rāyá ṛtapā́ ṛtejā́ḥ ǁ

    nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt |
    yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ ||

    नु । चि॒त् । सः । भ्रे॒ष॒ते॒ । जनः॑ । न । रे॒ष॒त् । मनः॑ । यः । अ॒स्य॒ । घो॒रम् । आ॒ऽविवा॑सात् ।
    य॒ज्ञैः । यः । इन्द्रे॑ । दध॑ते । दुवां॑सि । क्षय॑त् । सः । रा॒ये । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः ॥

    नु । चित् । सः । भ्रेषते । जनः । न । रेषत् । मनः । यः । अस्य । घोरम् । आऽविवासात् ।
    यज्ञैः । यः । इन्द्रे । दधते । दुवांसि । क्षयत् । सः । राये । ऋतऽपाः । ऋतेऽजाः ॥

    nú ǀ cit ǀ sáḥ ǀ bhreṣate ǀ jánaḥ ǀ ná ǀ reṣat ǀ mánaḥ ǀ yáḥ ǀ asya ǀ ghorám ǀ ā-vívāsāt ǀ
    yajñáiḥ ǀ yáḥ ǀ índre ǀ dádhate ǀ dúvāṃsi ǀ kṣáyat ǀ sáḥ ǀ rāyé ǀ ṛta-pā́ḥ ǀ ṛte-jā́ḥ ǁ

    nu ǀ cit ǀ saḥ ǀ bhreṣate ǀ janaḥ ǀ na ǀ reṣat ǀ manaḥ ǀ yaḥ ǀ asya ǀ ghoram ǀ ā-vivāsāt ǀ
    yajñaiḥ ǀ yaḥ ǀ indre ǀ dadhate ǀ duvāṃsi ǀ kṣayat ǀ saḥ ǀ rāye ǀ ṛta-pāḥ ǀ ṛte-jāḥ ǁ

    7.20.6 Aṣṭaka 5.3.2.1Anuvāka 7.2.42

  7. Ṛk 7

    यदिं॑द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णं ।
    अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं नः॑ ॥

    यद् इन्द्र पूर्वो अपराय शिक्षन्न् अयज् ज्यायान् कनीयसो देष्णम् |
    अमृत इत् पर्य् आसीत दूरम् आ चित्र चित्र्यम् भरा रयिं नः ||

    yádindra pū́rvo áparāya śíkṣannáyajjyā́yānkánīyaso deṣṇám ǀ
    amṛ́ta ítpáryāsīta dūrámā́ citra cítryam bharā rayím naḥ ǁ

    yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam |
    amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ ||

    यत् । इ॒न्द्र॒ । पूर्वः॑ । अप॑राय । शिक्ष॑न् । अय॑त् । ज्याया॑न् । कनी॑यसः । दे॒ष्णम् ।
    अ॒मृतः॑ । इत् । परि॑ । आ॒सी॒त॒ । दू॒रम् । आ । चि॒त्र॒ । चित्र्य॑म् । भ॒र॒ । र॒यिम् । नः॒ ॥

    यत् । इन्द्र । पूर्वः । अपराय । शिक्षन् । अयत् । ज्यायान् । कनीयसः । देष्णम् ।
    अमृतः । इत् । परि । आसीत । दूरम् । आ । चित्र । चित्र्यम् । भर । रयिम् । नः ॥

    yát ǀ indra ǀ pū́rvaḥ ǀ áparāya ǀ śíkṣan ǀ áyat ǀ jyā́yān ǀ kánīyasaḥ ǀ deṣṇám ǀ
    amṛ́taḥ ǀ ít ǀ pári ǀ āsīta ǀ dūrám ǀ ā́ ǀ citra ǀ cítryam ǀ bhara ǀ rayím ǀ naḥ ǁ

    yat ǀ indra ǀ pūrvaḥ ǀ aparāya ǀ śikṣan ǀ ayat ǀ jyāyān ǀ kanīyasaḥ ǀ deṣṇam ǀ
    amṛtaḥ ǀ it ǀ pari ǀ āsīta ǀ dūram ǀ ā ǀ citra ǀ citryam ǀ bhara ǀ rayim ǀ naḥ ǁ

    7.20.7 Aṣṭaka 5.3.2.2Anuvāka 7.2.43

  8. Ṛk 8

    यस्त॑ इंद्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिवः॒ सखा॑ ते ।
    व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥

    यस् त इन्द्र प्रियो जनो ददाशद् असन् निरेके अद्रिवः सखा ते |
    वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ||

    yásta indra priyó jáno dádāśadásannireké adrivaḥ sákhā te ǀ
    vayám te asyā́m sumatáu cániṣṭhāḥ syā́ma várūthe ághnato nṛ́pītau ǁ

    yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te |
    vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau ||

    यः । ते॒ । इ॒न्द्र॒ । प्रि॒यः । जनः॑ । ददा॑शत् । अस॑त् । नि॒रे॒के । अ॒द्रि॒ऽवः॒ । सखा॑ । ते॒ ।
    व॒यम् । ते॒ । अ॒स्याम् । सु॒ऽम॒तौ । चनि॑ष्ठाः । स्याम॑ । वरू॑थे । अघ्न॑तः । नृऽपी॑तौ ॥

    यः । ते । इन्द्र । प्रियः । जनः । ददाशत् । असत् । निरेके । अद्रिऽवः । सखा । ते ।
    वयम् । ते । अस्याम् । सुऽमतौ । चनिष्ठाः । स्याम । वरूथे । अघ्नतः । नृऽपीतौ ॥

    yáḥ ǀ te ǀ indra ǀ priyáḥ ǀ jánaḥ ǀ dádāśat ǀ ásat ǀ nireké ǀ adri-vaḥ ǀ sákhā ǀ te ǀ
    vayám ǀ te ǀ asyā́m ǀ su-matáu ǀ cániṣṭhāḥ ǀ syā́ma ǀ várūthe ǀ ághnataḥ ǀ nṛ́-pītau ǁ

    yaḥ ǀ te ǀ indra ǀ priyaḥ ǀ janaḥ ǀ dadāśat ǀ asat ǀ nireke ǀ adri-vaḥ ǀ sakhā ǀ te ǀ
    vayam ǀ te ǀ asyām ǀ su-matau ǀ caniṣṭhāḥ ǀ syāma ǀ varūthe ǀ aghnataḥ ǀ nṛ-pītau ǁ

    7.20.8 Aṣṭaka 5.3.2.3Anuvāka 7.2.44

  9. Ṛk 9

    ए॒ष स्तोमो॑ अचिक्रद॒द्वृषा॑ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट ।
    रा॒यस्कामो॑ जरि॒तारं॑ त॒ आगं॒त्वमं॒ग श॑क्र॒ वस्व॒ आ श॑को नः ॥

    एष स्तोमो अचिक्रदद् वृषा त उत स्तामुर् मघवन्न् अक्रपिष्ट |
    रायस् कामो जरितारं त आगन् त्वम् अङ्ग शक्र वस्व आ शको नः ||

    eṣá stómo acikradadvṛ́ṣā ta utá stāmúrmaghavannakrapiṣṭa ǀ
    rāyáskā́mo jaritā́ram ta ā́gantvámaṅgá śakra vásva ā́ śako naḥ ǁ

    eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa |
    rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ ||

    ए॒षः । स्तोमः॑ । अ॒चि॒क्र॒द॒त् । वृषा॑ । ते॒ । उ॒त । स्ता॒मुः । म॒घ॒ऽव॒न् । अ॒क्र॒पि॒ष्ट॒ ।
    रा॒यः । कामः॑ । ज॒रि॒तार॑म् । ते॒ । आ । अ॒ग॒न् । त्वम् । अ॒ङ्ग । श॒क्र॒ । वस्वः॑ । आ । श॒कः॒ । नः॒ ॥

    एषः । स्तोमः । अचिक्रदत् । वृषा । ते । उत । स्तामुः । मघऽवन् । अक्रपिष्ट ।
    रायः । कामः । जरितारम् । ते । आ । अगन् । त्वम् । अङ्ग । शक्र । वस्वः । आ । शकः । नः ॥

    eṣáḥ ǀ stómaḥ ǀ acikradat ǀ vṛ́ṣā ǀ te ǀ utá ǀ stāmúḥ ǀ magha-van ǀ akrapiṣṭa ǀ
    rāyáḥ ǀ kā́maḥ ǀ jaritā́ram ǀ te ǀ ā́ ǀ agan ǀ tvám ǀ aṅgá ǀ śakra ǀ vásvaḥ ǀ ā́ ǀ śakaḥ ǀ naḥ ǁ

    eṣaḥ ǀ stomaḥ ǀ acikradat ǀ vṛṣā ǀ te ǀ uta ǀ stāmuḥ ǀ magha-van ǀ akrapiṣṭa ǀ
    rāyaḥ ǀ kāmaḥ ǀ jaritāram ǀ te ǀ ā ǀ agan ǀ tvam ǀ aṅga ǀ śakra ǀ vasvaḥ ǀ ā ǀ śakaḥ ǀ naḥ ǁ

    7.20.9 Aṣṭaka 5.3.2.4Anuvāka 7.2.45

  10. Ṛk 10

    स न॑ इंद्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नंति॑ ।
    वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    स न इन्द्र त्वयताया इषे धास् त्मना च ये मघवानो जुनन्ति |
    वस्वी षु ते जरित्रे अस्तु शक्तिर् यूयम् पात स्वस्तिभिः सदा नः ||

    sá na indra tváyatāyā iṣé dhāstmánā ca yé maghávāno junánti ǀ
    vásvī ṣú te jaritré astu śaktíryūyám pāta svastíbhiḥ sádā naḥ ǁ

    sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti |
    vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ ||

    सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।
    वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

    सः । नः । इन्द्र । त्वऽयतायै । इषे । धाः । त्मना । च । ये । मघऽवानः । जुनन्ति ।
    वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

    sáḥ ǀ naḥ ǀ indra ǀ tvá-yatāyai ǀ iṣé ǀ dhāḥ ǀ tmánā ǀ ca ǀ yé ǀ maghá-vānaḥ ǀ junánti ǀ
    vásvī ǀ sú ǀ te ǀ jaritré ǀ astu ǀ śaktíḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

    saḥ ǀ naḥ ǀ indra ǀ tva-yatāyai ǀ iṣe ǀ dhāḥ ǀ tmanā ǀ ca ǀ ye ǀ magha-vānaḥ ǀ junanti ǀ
    vasvī ǀ su ǀ te ǀ jaritre ǀ astu ǀ śaktiḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

    7.20.10 Aṣṭaka 5.3.2.5Anuvāka 7.2.46

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.20 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

STRONG, Godly-natured, born for hero exploit, man's Friend, hedoth whatever deed he willeth. Saving us e’en from great transgression, Indra, the Youthful, visiteth man's home with favour.

Ṛk 2

Waxing greatness Indra slayeth Vṛtra: the Hero with his aid hath helped the singer. He gave Sudās wide room and space, and often hath granted wealth to him who brought oblations.

Ṛk 3

Soldier unchecked, war-rousing, battling Hero, unconquered from of old, victorious ever, Indra the very strong hath scattered armies; yea, he hath slain each foe who fought against him.

Ṛk 4

Thou with thy greatness hast filled full, O Indra, even both the worlds with might, O thou Most Mighty. Lord of Bays, Indra, brandishing his thunder, is gratified with Soma at the banquet.

Ṛk 5

A Bull begat the Bull for joy of battle, and a strong Mother brought forth him the manly. He who is Chief of men, their armies' Leader, is strong Hero, bold, and fain for booty.

Ṛk 6

The people falter not, nor suffer sorrow, who win themselves this God's terrific spirit. He who with sacrifices worships Indra is lord of wealth, law-born and law's protector.

Ṛk 7

Whene’er the elder fain would help the younger the greater cometh to the lesser's present. Shall the Immortal sit aloof' inactive? O Wondrous Indra, bring us wondrous riches.

Ṛk 8

Thy dear folk, Indra, who present oblations, are, in chief place, thy friends, O Thunder-wielder. May we be best content in this thy favour, sheltered by One who slays not, but preserves us.

Ṛk 9

To thee the mighty hymn hath clamoured loudly, and, Maghavan, the eloquent hath besought thee. Desire of wealth hath come upon thy singer: help us then, gakra, to our share of riches.