Sūkta 57
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 5-7); triṣṭup (2, 4); virāṭtrisṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदंति ।
ये रे॒जयं॑ति॒ रोद॑सी चिदु॒र्वी पिन्वं॒त्युत्सं॒ यदया॑सुरु॒ग्राः ॥मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति |
ये रेजयन्ति रोदसी चिद् उर्वी पिन्वन्त्य् उत्सं यद् अयासुर् उग्राः ||mádhvo vo nā́ma mā́rutam yajatrāḥ prá yajñéṣu śávasā madanti ǀ
yé rejáyanti ródasī cidurvī́ pínvantyútsam yádáyāsurugrā́ḥ ǁmadhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti |
ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ ||मध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ ।
ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥मध्वः । वः । नाम । मारुतम् । यजत्राः । प्र । यज्ञेषु । शवसा । मदन्ति ।
ये । रेजयन्ति । रोदसी इति । चित् । उर्वी इति । पिन्वन्ति । उत्सम् । यत् । अयासुः । उग्राः ॥mádhvaḥ ǀ vaḥ ǀ nā́ma ǀ mā́rutam ǀ yajatrāḥ ǀ prá ǀ yajñéṣu ǀ śávasā ǀ madanti ǀ
yé ǀ rejáyanti ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ pínvanti ǀ útsam ǀ yát ǀ áyāsuḥ ǀ ugrā́ḥ ǁmadhvaḥ ǀ vaḥ ǀ nāma ǀ mārutam ǀ yajatrāḥ ǀ pra ǀ yajñeṣu ǀ śavasā ǀ madanti ǀ
ye ǀ rejayanti ǀ rodasī iti ǀ cit ǀ urvī iti ǀ pinvanti ǀ utsam ǀ yat ǀ ayāsuḥ ǀ ugrāḥ ǁ7.57.1 Aṣṭaka 5.4.27.1Anuvāka 7.4.26
-
Ṛk 2
नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णंतं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ ।
अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥निचेतारो हि मरुतो गृणन्तम् प्रणेतारो यजमानस्य मन्म |
अस्माकम् अद्य विदथेषु बर्हिर् आ वीतये सदत पिप्रियाणाः ||nicetā́ro hí marúto gṛṇántam praṇetā́ro yájamānasya mánma ǀ
asmā́kamadyá vidátheṣu barhírā́ vītáye sadata pipriyāṇā́ḥ ǁnicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma |
asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ ||नि॒ऽचे॒तारः॑ । हि । म॒रुतः॑ । गृ॒णन्त॑म् । प्र॒ऽने॒तारः॑ । यज॑मानस्य । मन्म॑ ।
अ॒स्माक॑म् । अ॒द्य । वि॒दथे॑षु । ब॒र्हिः । आ । वी॒तये॑ । स॒द॒त॒ । पि॒प्रि॒या॒णाः ॥निऽचेतारः । हि । मरुतः । गृणन्तम् । प्रऽनेतारः । यजमानस्य । मन्म ।
अस्माकम् । अद्य । विदथेषु । बर्हिः । आ । वीतये । सदत । पिप्रियाणाः ॥ni-cetā́raḥ ǀ hí ǀ marútaḥ ǀ gṛṇántam ǀ pra-netā́raḥ ǀ yájamānasya ǀ mánma ǀ
asmā́kam ǀ adyá ǀ vidátheṣu ǀ barhíḥ ǀ ā́ ǀ vītáye ǀ sadata ǀ pipriyāṇā́ḥ ǁni-cetāraḥ ǀ hi ǀ marutaḥ ǀ gṛṇantam ǀ pra-netāraḥ ǀ yajamānasya ǀ manma ǀ
asmākam ǀ adya ǀ vidatheṣu ǀ barhiḥ ǀ ā ǀ vītaye ǀ sadata ǀ pipriyāṇāḥ ǁ7.57.2 Aṣṭaka 5.4.27.2Anuvāka 7.4.27
-
Ṛk 3
नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राजं॑ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ ।
आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नमं॒ज्यं॑जते शु॒भे कं ॥नैतावद् अन्ये मरुतो यथेमे भ्राजन्ते रुक्मैर् आयुधैस् तनूभिः |
आ रोदसी विश्वपिशः पिशानाः समानम् अञ्ज्य् अञ्जते शुभे कम् ||náitā́vadanyé marúto yáthemé bhrā́jante rukmáirā́yudhaistanū́bhiḥ ǀ
ā́ ródasī viśvapíśaḥ piśānā́ḥ samānámañjyáñjate śubhé kám ǁnaitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ |
ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam ||न । ए॒ताव॑त् । अ॒न्ये । म॒रुतः॑ । यथा॑ । इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ ।
आ । रोद॑सी॒ इति॑ । वि॒श्व॒ऽपिशः॑ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥न । एतावत् । अन्ये । मरुतः । यथा । इमे । भ्राजन्ते । रुक्मैः । आयुधैः । तनूभिः ।
आ । रोदसी इति । विश्वऽपिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम् ॥ná ǀ etā́vat ǀ anyé ǀ marútaḥ ǀ yáthā ǀ imé ǀ bhrā́jante ǀ rukmáiḥ ǀ ā́yudhaiḥ ǀ tanū́bhiḥ ǀ
ā́ ǀ ródasī íti ǀ viśva-píśaḥ ǀ piśānā́ḥ ǀ samānám ǀ añjí ǀ añjate ǀ śubhé ǀ kám ǁna ǀ etāvat ǀ anye ǀ marutaḥ ǀ yathā ǀ ime ǀ bhrājante ǀ rukmaiḥ ǀ āyudhaiḥ ǀ tanūbhiḥ ǀ
ā ǀ rodasī iti ǀ viśva-piśaḥ ǀ piśānāḥ ǀ samānam ǀ añji ǀ añjate ǀ śubhe ǀ kam ǁ7.57.3 Aṣṭaka 5.4.27.3Anuvāka 7.4.28
-
Ṛk 4
ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।
मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥ऋधक् सा वो मरुतो दिद्युद् अस्तु यद् व आगः पुरुषता कराम |
मा वस् तस्याम् अपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश् चनिष्ठा ||ṛ́dhaksā́ vo maruto didyúdastu yádva ā́gaḥ puruṣátā kárāma ǀ
mā́ vastásyāmápi bhūmā yajatrā asmé vo astu sumatíścániṣṭhā ǁṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma |
mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā ||ऋध॑क् । सा । वः॒ । म॒रु॒तः॒ । दि॒द्युत् । अ॒स्तु॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ।
मा । वः॒ । तस्या॑म् । अपि॑ । भू॒म॒ । य॒ज॒त्राः॒ । अ॒स्मे इति॑ । वः॒ । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥ऋधक् । सा । वः । मरुतः । दिद्युत् । अस्तु । यत् । वः । आगः । पुरुषता । कराम ।
मा । वः । तस्याम् । अपि । भूम । यजत्राः । अस्मे इति । वः । अस्तु । सुऽमतिः । चनिष्ठा ॥ṛ́dhak ǀ sā́ ǀ vaḥ ǀ marutaḥ ǀ didyút ǀ astu ǀ yát ǀ vaḥ ǀ ā́gaḥ ǀ puruṣátā ǀ kárāma ǀ
mā́ ǀ vaḥ ǀ tásyām ǀ ápi ǀ bhūma ǀ yajatrāḥ ǀ asmé íti ǀ vaḥ ǀ astu ǀ su-matíḥ ǀ cániṣṭhā ǁṛdhak ǀ sā ǀ vaḥ ǀ marutaḥ ǀ didyut ǀ astu ǀ yat ǀ vaḥ ǀ āgaḥ ǀ puruṣatā ǀ karāma ǀ
mā ǀ vaḥ ǀ tasyām ǀ api ǀ bhūma ǀ yajatrāḥ ǀ asme iti ǀ vaḥ ǀ astu ǀ su-matiḥ ǀ caniṣṭhā ǁ7.57.4 Aṣṭaka 5.4.27.4Anuvāka 7.4.29
-
Ṛk 5
कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणंतानव॒द्यासः॒ शुच॑यः पाव॒काः ।
प्र णो॑ऽवत सुम॒तिभि॑र्यजत्राः॒ प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥कृते चिद् अत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः |
प्र णो ऽवत सुमतिभिर् यजत्राः प्र वाजेभिस् तिरत पुष्यसे नः ||kṛté cidátra marúto raṇantānavadyā́saḥ śúcayaḥ pāvakā́ḥ ǀ
prá ṇo’vata sumatíbhiryajatrāḥ prá vā́jebhistirata puṣyáse naḥ ǁkṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ |
pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ ||कृ॒ते । चि॒त् । अत्र॑ । म॒रुतः॑ । र॒ण॒न्त॒ । अ॒न॒व॒द्यासः॑ । शुच॑यः । पा॒व॒काः ।
प्र । नः॒ । अ॒व॒त॒ । सु॒म॒तिऽभिः॑ । य॒ज॒त्राः॒ । प्र । वाजे॑भिः । ति॒र॒त॒ । पु॒ष्यसे॑ । नः॒ ॥कृते । चित् । अत्र । मरुतः । रणन्त । अनवद्यासः । शुचयः । पावकाः ।
प्र । नः । अवत । सुमतिऽभिः । यजत्राः । प्र । वाजेभिः । तिरत । पुष्यसे । नः ॥kṛté ǀ cit ǀ átra ǀ marútaḥ ǀ raṇanta ǀ anavadyā́saḥ ǀ śúcayaḥ ǀ pāvakā́ḥ ǀ
prá ǀ naḥ ǀ avata ǀ sumatí-bhiḥ ǀ yajatrāḥ ǀ prá ǀ vā́jebhiḥ ǀ tirata ǀ puṣyáse ǀ naḥ ǁkṛte ǀ cit ǀ atra ǀ marutaḥ ǀ raṇanta ǀ anavadyāsaḥ ǀ śucayaḥ ǀ pāvakāḥ ǀ
pra ǀ naḥ ǀ avata ǀ sumati-bhiḥ ǀ yajatrāḥ ǀ pra ǀ vājebhiḥ ǀ tirata ǀ puṣyase ǀ naḥ ǁ7.57.5 Aṣṭaka 5.4.27.5Anuvāka 7.4.30
-
Ṛk 6
उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यंतु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ ।
ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥उत स्तुतासो मरुतो व्यन्तु विश्वेभिर् नामभिर् नरो हवींषि |
ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ||utá stutā́so marúto vyantu víśvebhirnā́mabhirnáro havī́ṃṣi ǀ
dádāta no amṛ́tasya prajā́yai jigṛtá rāyáḥ sūnṛ́tā maghā́ni ǁuta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi |
dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni ||उ॒त । स्तु॒तासः॑ । म॒रुतः॑ । व्य॒न्तु॒ । विश्वे॑भिः । नाम॑ऽभिः । नरः॑ । ह॒वींषि॑ ।
ददा॑त । नः॒ । अ॒मृत॑स्य । प्र॒ऽजायै॑ । जि॒गृ॒त । रा॒यः । सू॒नृता॑ । म॒घानि॑ ॥उत । स्तुतासः । मरुतः । व्यन्तु । विश्वेभिः । नामऽभिः । नरः । हवींषि ।
ददात । नः । अमृतस्य । प्रऽजायै । जिगृत । रायः । सूनृता । मघानि ॥utá ǀ stutā́saḥ ǀ marútaḥ ǀ vyantu ǀ víśvebhiḥ ǀ nā́ma-bhiḥ ǀ náraḥ ǀ havī́ṃṣi ǀ
dádāta ǀ naḥ ǀ amṛ́tasya ǀ pra-jā́yai ǀ jigṛtá ǀ rāyáḥ ǀ sūnṛ́tā ǀ maghā́ni ǁuta ǀ stutāsaḥ ǀ marutaḥ ǀ vyantu ǀ viśvebhiḥ ǀ nāma-bhiḥ ǀ naraḥ ǀ havīṃṣi ǀ
dadāta ǀ naḥ ǀ amṛtasya ǀ pra-jāyai ǀ jigṛta ǀ rāyaḥ ǀ sūnṛtā ǀ maghāni ǁ7.57.6 Aṣṭaka 5.4.27.6Anuvāka 7.4.31
-
Ṛk 7
आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्त्स॒र्वता॑ता जिगात ।
ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धयं॑ति यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन् सर्वताता जिगात |
ये नस् त्मना शतिनो वर्धयन्ति यूयम् पात स्वस्तिभिः सदा नः ||ā́ stutā́so maruto víśva ūtī́ ácchā sūrī́ntsarvátātā jigāta ǀ
yé nastmánā śatíno vardháyanti yūyám pāta svastíbhiḥ sádā naḥ ǁā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta |
ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ ||आ । स्तु॒तासः॑ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती । अच्छ॑ । सू॒रीन् । स॒र्वऽता॑ता । जि॒गा॒त॒ ।
ये । नः॒ । त्मना॑ । श॒तिनः॑ । व॒र्धय॑न्ति । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । स्तुतासः । मरुतः । विश्वे । ऊती । अच्छ । सूरीन् । सर्वऽताता । जिगात ।
ये । नः । त्मना । शतिनः । वर्धयन्ति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ā́ ǀ stutā́saḥ ǀ marutaḥ ǀ víśve ǀ ūtī́ ǀ áccha ǀ sūrī́n ǀ sarvá-tātā ǀ jigāta ǀ
yé ǀ naḥ ǀ tmánā ǀ śatínaḥ ǀ vardháyanti ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁā ǀ stutāsaḥ ǀ marutaḥ ǀ viśve ǀ ūtī ǀ accha ǀ sūrīn ǀ sarva-tātā ǀ jigāta ǀ
ye ǀ naḥ ǀ tmanā ǀ śatinaḥ ǀ vardhayanti ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.57.7 Aṣṭaka 5.4.27.7Anuvāka 7.4.32
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.