Ṛgveda · Maṇḍala 7

Sūkta 77

Uṣas · Vasiṣṭha Maitrāvaruṇi · 6 ṛks

Link
Devatā देवता
Uṣas
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (2-5); triṣṭup (1); virāṭtrisṭup (6)

2nd set of styles triṣṭubh

  1. Ṛk 1

    उपो॑ रुरुचे युव॒तिर्न योषा॒ विश्वं॑ जी॒वं प्र॑सु॒वंती॑ च॒रायै॑ ।
    अभू॑द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां॑सि ॥

    उपो रुरुचे युवतिर् न योषा विश्वं जीवम् प्रसुवन्ती चरायै |
    अभूद् अग्निः समिधे मानुषाणाम् अकर् ज्योतिर् बाधमाना तमांसि ||

    úpo ruruce yuvatírná yóṣā víśvam jīvám prasuvántī carā́yai ǀ
    ábhūdagníḥ samídhe mā́nuṣāṇāmákarjyótirbā́dhamānā támāṃsi ǁ

    upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai |
    abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi ||

    उपो॒ इति॑ । रु॒रु॒चे॒ । यु॒व॒तिः । न । योषा॑ । विश्व॑म् । जी॒वम् । प्र॒ऽसु॒वन्ती॑ । च॒रायै॑ ।
    अभू॑त् । अ॒ग्निः । स॒म्ऽइधे॑ । मानु॑षाणाम् । अकः॑ । ज्योतिः॑ । बाध॑माना । तमां॑सि ॥

    उपो इति । रुरुचे । युवतिः । न । योषा । विश्वम् । जीवम् । प्रऽसुवन्ती । चरायै ।
    अभूत् । अग्निः । सम्ऽइधे । मानुषाणाम् । अकः । ज्योतिः । बाधमाना । तमांसि ॥

    úpo íti ǀ ruruce ǀ yuvatíḥ ǀ ná ǀ yóṣā ǀ víśvam ǀ jīvám ǀ pra-suvántī ǀ carā́yai ǀ
    ábhūt ǀ agníḥ ǀ sam-ídhe ǀ mā́nuṣāṇām ǀ ákaḥ ǀ jyótiḥ ǀ bā́dhamānā ǀ támāṃsi ǁ

    upo iti ǀ ruruce ǀ yuvatiḥ ǀ na ǀ yoṣā ǀ viśvam ǀ jīvam ǀ pra-suvantī ǀ carāyai ǀ
    abhūt ǀ agniḥ ǀ sam-idhe ǀ mānuṣāṇām ǀ akaḥ ǀ jyotiḥ ǀ bādhamānā ǀ tamāṃsi ǁ

    7.77.1 Aṣṭaka 5.5.24.1Anuvāka 7.5.38

  2. Ṛk 2

    विश्वं॑ प्रती॒ची स॒प्रथा॒ उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् ।
    हिर॑ण्यवर्णा सु॒दृशी॑कसंदृ॒ग्गवां॑ मा॒ता ने॒त्र्यह्ना॑मरोचि ॥

    विश्वम् प्रतीची सप्रथा उद् अस्थाद् रुशद् वासो बिभ्रती शुक्रम् अश्वैत् |
    हिरण्यवर्णा सुदृशीकसंदृग् गवाम् माता नेत्र्य् अह्नाम् अरोचि ||

    víśvam pratīcī́ sapráthā údasthādrúśadvā́so bíbhratī śukrámaśvait ǀ
    híraṇyavarṇā sudṛ́śīkasaṃdṛggávām mātā́ netryáhnāmaroci ǁ

    viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait |
    hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci ||

    विश्व॑म् । प्र॒ती॒ची । स॒ऽप्रथाः॑ । उत् । अ॒स्था॒त् । रुश॑त् । वासः॑ । बिभ्र॑ती । शु॒क्रम् । अ॒श्वै॒त् ।
    हिर॑ण्यऽवर्णा । सु॒दृशी॑कऽसन्दृक् । गवा॑म् । मा॒ता । ने॒त्री । अह्ना॑म् । अ॒रो॒चि॒ ॥

    विश्वम् । प्रतीची । सऽप्रथाः । उत् । अस्थात् । रुशत् । वासः । बिभ्रती । शुक्रम् । अश्वैत् ।
    हिरण्यऽवर्णा । सुदृशीकऽसन्दृक् । गवाम् । माता । नेत्री । अह्नाम् । अरोचि ॥

    víśvam ǀ pratīcī́ ǀ sa-práthāḥ ǀ út ǀ asthāt ǀ rúśat ǀ vā́saḥ ǀ bíbhratī ǀ śukrám ǀ aśvait ǀ
    híraṇya-varṇā ǀ sudṛ́śīka-sandṛk ǀ gávām ǀ mātā́ ǀ netrī́ ǀ áhnām ǀ aroci ǁ

    viśvam ǀ pratīcī ǀ sa-prathāḥ ǀ ut ǀ asthāt ǀ ruśat ǀ vāsaḥ ǀ bibhratī ǀ śukram ǀ aśvait ǀ
    hiraṇya-varṇā ǀ sudṛśīka-sandṛk ǀ gavām ǀ mātā ǀ netrī ǀ ahnām ǀ aroci ǁ

    7.77.2 Aṣṭaka 5.5.24.2Anuvāka 7.5.39

  3. Ṛk 3

    दे॒वानां॒ चक्षुः॑ सु॒भगा॒ वहं॑ती श्वे॒तं नयं॑ती सु॒दृशी॑क॒मश्वं॑ ।
    उ॒षा अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू॑ता ॥

    देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकम् अश्वम् |
    उषा अदर्शि रश्मिभिर् व्यक्ता चित्रामघा विश्वम् अनु प्रभूता ||

    devā́nām cákṣuḥ subhágā váhantī śvetám náyantī sudṛ́śīkamáśvam ǀ
    uṣā́ adarśi raśmíbhirvyáktā citrā́maghā víśvamánu prábhūtā ǁ

    devānāṃ cakṣuḥ subhagā vahantī śvetaṃ nayantī sudṛśīkam aśvam |
    uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā ||

    दे॒वाना॑म् । चक्षुः॑ । सु॒ऽभगा॑ । वह॑न्ती । श्वे॒तम् । नय॑न्ती । सु॒ऽदृशी॑कम् । अश्व॑म् ।
    उ॒षाः । अ॒द॒र्शि॒ । र॒श्मिऽभिः॑ । विऽअ॑क्ता । चि॒त्रऽम॑घा । विश्व॑म् । अनु॑ । प्रऽभू॑ता ॥

    देवानाम् । चक्षुः । सुऽभगा । वहन्ती । श्वेतम् । नयन्ती । सुऽदृशीकम् । अश्वम् ।
    उषाः । अदर्शि । रश्मिऽभिः । विऽअक्ता । चित्रऽमघा । विश्वम् । अनु । प्रऽभूता ॥

    devā́nām ǀ cákṣuḥ ǀ su-bhágā ǀ váhantī ǀ śvetám ǀ náyantī ǀ su-dṛ́śīkam ǀ áśvam ǀ
    uṣā́ḥ ǀ adarśi ǀ raśmí-bhiḥ ǀ ví-aktā ǀ citrá-maghā ǀ víśvam ǀ ánu ǀ prá-bhūtā ǁ

    devānām ǀ cakṣuḥ ǀ su-bhagā ǀ vahantī ǀ śvetam ǀ nayantī ǀ su-dṛśīkam ǀ aśvam ǀ
    uṣāḥ ǀ adarśi ǀ raśmi-bhiḥ ǀ vi-aktā ǀ citra-maghā ǀ viśvam ǀ anu ǀ pra-bhūtā ǁ

    7.77.3 Aṣṭaka 5.5.24.3Anuvāka 7.5.40

  4. Ṛk 4

    अंति॑वामा दू॒रे अ॒मित्र॑मुच्छो॒र्वीं गव्यू॑ति॒मभ॑यं कृधी नः ।
    या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू॑नि चो॒दय॒ राधो॑ गृण॒ते म॑घोनि ॥

    अन्तिवामा दूरे अमित्रम् उच्छोर्वीं गव्यूतिम् अभयं कृधी नः |
    यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ||

    ántivāmā dūré amítramucchorvī́m gávyūtimábhayam kṛdhī naḥ ǀ
    yāváya dvéṣa ā́ bharā vásūni codáya rā́dho gṛṇaté maghoni ǁ

    antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ |
    yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni ||

    अन्ति॑ऽवामा । दू॒रे । अ॒मित्र॑म् । उ॒च्छ॒ । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । कृ॒धि॒ । नः॒ ।
    य॒वय॑ । द्वेषः॑ । आ । भ॒र॒ । वसू॑नि । चो॒दय॑ । राधः॑ । गृ॒ण॒ते । म॒घो॒नि॒ ॥

    अन्तिऽवामा । दूरे । अमित्रम् । उच्छ । उर्वीम् । गव्यूतिम् । अभयम् । कृधि । नः ।
    यवय । द्वेषः । आ । भर । वसूनि । चोदय । राधः । गृणते । मघोनि ॥

    ánti-vāmā ǀ dūré ǀ amítram ǀ uccha ǀ urvī́m ǀ gávyūtim ǀ ábhayam ǀ kṛdhi ǀ naḥ ǀ
    yaváya ǀ dvéṣaḥ ǀ ā́ ǀ bhara ǀ vásūni ǀ codáya ǀ rā́dhaḥ ǀ gṛṇaté ǀ maghoni ǁ

    anti-vāmā ǀ dūre ǀ amitram ǀ uccha ǀ urvīm ǀ gavyūtim ǀ abhayam ǀ kṛdhi ǀ naḥ ǀ
    yavaya ǀ dveṣaḥ ǀ ā ǀ bhara ǀ vasūni ǀ codaya ǀ rādhaḥ ǀ gṛṇate ǀ maghoni ǁ

    7.77.4 Aṣṭaka 5.5.24.4Anuvāka 7.5.41

  5. Ṛk 5

    अ॒स्मे श्रेष्ठे॑भिर्भा॒नुभि॒र्वि भा॒ह्युषो॑ देवि प्रति॒रंती॑ न॒ आयुः॑ ।
    इषं॑ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा॑व॒द्रथ॑वच्च॒ राधः॑ ॥

    अस्मे श्रेष्ठेभिर् भानुभिर् वि भाह्य् उषो देवि प्रतिरन्ती न आयुः |
    इषं च नो दधती विश्ववारे गोमद् अश्वावद् रथवच् च राधः ||

    asmé śréṣṭhebhirbhānúbhirví bhāhyúṣo devi pratirántī na ā́yuḥ ǀ
    íṣam ca no dádhatī viśvavāre gómadáśvāvadráthavacca rā́dhaḥ ǁ

    asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ |
    iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ ||

    अ॒स्मे इति॑ । श्रेष्ठे॑भिः । भा॒नुऽभिः॑ । वि । भा॒हि॒ । उषः॑ । दे॒वि॒ । प्र॒ऽति॒रन्ती॑ । नः॒ । आयुः॑ ।
    इष॑म् । च॒ । नः॒ । दध॑ती । वि॒श्व॒ऽवा॒रे॒ । गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । च॒ । राधः॑ ॥

    अस्मे इति । श्रेष्ठेभिः । भानुऽभिः । वि । भाहि । उषः । देवि । प्रऽतिरन्ती । नः । आयुः ।
    इषम् । च । नः । दधती । विश्वऽवारे । गोऽमत् । अश्वऽवत् । रथऽवत् । च । राधः ॥

    asmé íti ǀ śréṣṭhebhiḥ ǀ bhānú-bhiḥ ǀ ví ǀ bhāhi ǀ úṣaḥ ǀ devi ǀ pra-tirántī ǀ naḥ ǀ ā́yuḥ ǀ
    íṣam ǀ ca ǀ naḥ ǀ dádhatī ǀ viśva-vāre ǀ gó-mat ǀ áśva-vat ǀ rátha-vat ǀ ca ǀ rā́dhaḥ ǁ

    asme iti ǀ śreṣṭhebhiḥ ǀ bhānu-bhiḥ ǀ vi ǀ bhāhi ǀ uṣaḥ ǀ devi ǀ pra-tirantī ǀ naḥ ǀ āyuḥ ǀ
    iṣam ǀ ca ǀ naḥ ǀ dadhatī ǀ viśva-vāre ǀ go-mat ǀ aśva-vat ǀ ratha-vat ǀ ca ǀ rādhaḥ ǁ

    7.77.5 Aṣṭaka 5.5.24.5Anuvāka 7.5.42

  6. Ṛk 6

    यां त्वा॑ दिवो दुहितर्व॒र्धयं॒त्युषः॑ सुजाते म॒तिभि॒र्वसि॑ष्ठाः ।
    सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हंतं॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    यां त्वा दिवो दुहितर् वर्धयन्त्य् उषः सुजाते मतिभिर् वसिष्ठाः |
    सास्मासु धा रयिम् ऋष्वम् बृहन्तं यूयम् पात स्वस्तिभिः सदा नः ||

    yā́m tvā divo duhitarvardháyantyúṣaḥ sujāte matíbhirvásiṣṭhāḥ ǀ
    sā́smā́su dhā rayímṛṣvám bṛhántam yūyám pāta svastíbhiḥ sádā naḥ ǁ

    yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ |
    sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ ||

    यान् । त्वा॒ । दि॒वः॒ । दु॒हि॒तः॒ । व॒र्धय॑न्ति । उषः॑ । सु॒ऽजा॒ते॒ । म॒तिऽभिः॑ । वसि॑ष्ठाः ।
    सा । अ॒स्मासु॑ । धाः॒ । र॒यिम् । ऋ॒ष्वम् । बृ॒हन्त॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

    यान् । त्वा । दिवः । दुहितः । वर्धयन्ति । उषः । सुऽजाते । मतिऽभिः । वसिष्ठाः ।
    सा । अस्मासु । धाः । रयिम् । ऋष्वम् । बृहन्तम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

    yā́n ǀ tvā ǀ divaḥ ǀ duhitaḥ ǀ vardháyanti ǀ úṣaḥ ǀ su-jāte ǀ matí-bhiḥ ǀ vásiṣṭhāḥ ǀ
    sā́ ǀ asmā́su ǀ dhāḥ ǀ rayím ǀ ṛṣvám ǀ bṛhántam ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

    yān ǀ tvā ǀ divaḥ ǀ duhitaḥ ǀ vardhayanti ǀ uṣaḥ ǀ su-jāte ǀ mati-bhiḥ ǀ vasiṣṭhāḥ ǀ
    sā ǀ asmāsu ǀ dhāḥ ǀ rayim ǀ ṛṣvam ǀ bṛhantam ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

    7.77.6 Aṣṭaka 5.5.24.6Anuvāka 7.5.43

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.77 · Uṣas

Interpretations

Sri Aurobindo

Ṛk 3

Happy, bringing the gods’ eye of vision, leading the white Horse that has perfect sight, Dawn is seen expressed entirely by the rays, full of her varied riches, manifesting her birth in all things. (SABCL Vol. 10, p.130)