Ṛgveda · Maṇḍala 7

Sūkta 83

Indra, Varuṇa · Vasiṣṭha Maitrāvaruṇi · 10 ṛks

Link
Devatā देवता
Indra, Varuṇa
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles virāḍjagatī (1, 3, 9); nicṛjjagatī (2, 4, 6); ārṣījagatī (7, 8, 10); ārcījagatī (5)

2nd set of styles jagatī

  1. Ṛk 1

    यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं॑ प्रा॒चा ग॒व्यंतः॑ पृथु॒पर्श॑वो ययुः ।
    दासा॑ च वृ॒त्रा ह॒तमार्या॑णि च सु॒दास॑मिंद्रावरु॒णाव॑सावतं ॥

    युवां नरा पश्यमानास आप्यम् प्राचा गव्यन्तः पृथुपर्शवो ययुः |
    दासा च वृत्रा हतम् आर्याणि च सुदासम् इन्द्रावरुणावसावतम् ||

    yuvā́m narā páśyamānāsa ā́pyam prācā́ gavyántaḥ pṛthupárśavo yayuḥ ǀ
    dā́sā ca vṛtrā́ hatámā́ryāṇi ca sudā́samindrāvaruṇā́vasāvatam ǁ

    yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ |
    dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam ||

    यु॒वम् । न॒रा॒ । पश्य॑मानासः । आप्य॑म् । प्रा॒चा । ग॒व्यन्तः॑ । पृ॒थु॒ऽपर्श॑वः । य॒युः॒ ।
    दासा॑ । च॒ । वृ॒त्रा । ह॒तम् । आर्या॑णि । च॒ । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । अव॑सा । अ॒व॒त॒म् ॥

    युवम् । नरा । पश्यमानासः । आप्यम् । प्राचा । गव्यन्तः । पृथुऽपर्शवः । ययुः ।
    दासा । च । वृत्रा । हतम् । आर्याणि । च । सुऽदासम् । इन्द्रावरुणा । अवसा । अवतम् ॥

    yuvám ǀ narā ǀ páśyamānāsaḥ ǀ ā́pyam ǀ prācā́ ǀ gavyántaḥ ǀ pṛthu-párśavaḥ ǀ yayuḥ ǀ
    dā́sā ǀ ca ǀ vṛtrā́ ǀ hatám ǀ ā́ryāṇi ǀ ca ǀ su-dā́sam ǀ indrāvaruṇā ǀ ávasā ǀ avatam ǁ

    yuvam ǀ narā ǀ paśyamānāsaḥ ǀ āpyam ǀ prācā ǀ gavyantaḥ ǀ pṛthu-parśavaḥ ǀ yayuḥ ǀ
    dāsā ǀ ca ǀ vṛtrā ǀ hatam ǀ āryāṇi ǀ ca ǀ su-dāsam ǀ indrāvaruṇā ǀ avasā ǀ avatam ǁ

    7.83.1 Aṣṭaka 5.6.4.1Anuvāka 7.5.73

  2. Ṛk 2

    यत्रा॒ नरः॑ स॒मयं॑ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यं ।
    यत्रा॒ भयं॑ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इंद्रावरु॒णाधि॑ वोचतं ॥

    यत्रा नरः समयन्ते कृतध्वजो यस्मिन्न् आजा भवति किं चन प्रियम् |
    यत्रा भयन्ते भुवना स्वर्दृशस् तत्रा न इन्द्रावरुणाधि वोचतम् ||

    yátrā náraḥ samáyante kṛtádhvajo yásminnājā́ bhávati kím caná priyám ǀ
    yátrā bháyante bhúvanā svardṛ́śastátrā na indrāvaruṇā́dhi vocatam ǁ

    yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam |
    yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam ||

    यत्र॑ । नरः॑ । स॒म्ऽअय॑न्ते । कृ॒तऽध्व॑जः । यस्मि॑न् । आ॒जा । भव॑ति । किम् । च॒न । प्रि॒यम् ।
    यत्र॑ । भय॑न्ते । भुव॑ना । स्वः॒ऽदृशः॑ । तत्र॑ । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । अधि॑ । वो॒च॒त॒म् ॥

    यत्र । नरः । सम्ऽअयन्ते । कृतऽध्वजः । यस्मिन् । आजा । भवति । किम् । चन । प्रियम् ।
    यत्र । भयन्ते । भुवना । स्वःऽदृशः । तत्र । नः । इन्द्रावरुणा । अधि । वोचतम् ॥

    yátra ǀ náraḥ ǀ sam-áyante ǀ kṛtá-dhvajaḥ ǀ yásmin ǀ ājā́ ǀ bhávati ǀ kím ǀ caná ǀ priyám ǀ
    yátra ǀ bháyante ǀ bhúvanā ǀ svaḥ-dṛ́śaḥ ǀ tátra ǀ naḥ ǀ indrāvaruṇā ǀ ádhi ǀ vocatam ǁ

    yatra ǀ naraḥ ǀ sam-ayante ǀ kṛta-dhvajaḥ ǀ yasmin ǀ ājā ǀ bhavati ǀ kim ǀ cana ǀ priyam ǀ
    yatra ǀ bhayante ǀ bhuvanā ǀ svaḥ-dṛśaḥ ǀ tatra ǀ naḥ ǀ indrāvaruṇā ǀ adhi ǀ vocatam ǁ

    7.83.2 Aṣṭaka 5.6.4.2Anuvāka 7.5.74

  3. Ṛk 3

    सं भूम्या॒ अंता॑ ध्वसि॒रा अ॑दृक्ष॒तेंद्रा॑वरुणा दि॒वि घोष॒ आरु॑हत् ।
    अस्थु॒र्जना॑ना॒मुप॒ मामरा॑तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तं ॥

    सम् भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् |
    अस्थुर् जनानाम् उप माम् अरातयो ऽर्वाग् अवसा हवनश्रुता गतम् ||

    sám bhū́myā ántā dhvasirā́ adṛkṣaténdrāvaruṇā diví ghóṣa ā́ruhat ǀ
    ásthurjánānāmúpa mā́márātayo’rvā́gávasā havanaśrutā́ gatam ǁ

    sam bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat |
    asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam ||

    सम् । भूम्याः॑ । अन्ताः॑ । ध्व॒सि॒राः । अ॒दृ॒क्ष॒त॒ । इन्द्रा॑वरुणा । दि॒वि । घोषः॑ । आ । अ॒रु॒ह॒त् ।
    अस्थुः॑ । जना॑नाम् । उप॑ । माम् । अरा॑तयः । अ॒र्वाक् । अव॑सा । ह॒व॒न॒ऽश्रु॒ता॒ । आ । ग॒त॒म् ॥

    सम् । भूम्याः । अन्ताः । ध्वसिराः । अदृक्षत । इन्द्रावरुणा । दिवि । घोषः । आ । अरुहत् ।
    अस्थुः । जनानाम् । उप । माम् । अरातयः । अर्वाक् । अवसा । हवनऽश्रुता । आ । गतम् ॥

    sám ǀ bhū́myāḥ ǀ ántāḥ ǀ dhvasirā́ḥ ǀ adṛkṣata ǀ índrāvaruṇā ǀ diví ǀ ghóṣaḥ ǀ ā́ ǀ aruhat ǀ
    ásthuḥ ǀ jánānām ǀ úpa ǀ mā́m ǀ árātayaḥ ǀ arvā́k ǀ ávasā ǀ havana-śrutā ǀ ā́ ǀ gatam ǁ

    sam ǀ bhūmyāḥ ǀ antāḥ ǀ dhvasirāḥ ǀ adṛkṣata ǀ indrāvaruṇā ǀ divi ǀ ghoṣaḥ ǀ ā ǀ aruhat ǀ
    asthuḥ ǀ janānām ǀ upa ǀ mām ǀ arātayaḥ ǀ arvāk ǀ avasā ǀ havana-śrutā ǀ ā ǀ gatam ǁ

    7.83.3 Aṣṭaka 5.6.4.3Anuvāka 7.5.75

  4. Ṛk 4

    इंद्रा॑वरुणा व॒धना॑भिरप्र॒ति भे॒दं व॒न्वंता॒ प्र सु॒दास॑मावतं ।
    ब्रह्मा॑ण्येषां शृणुतं॒ हवी॑मनि स॒त्या तृत्सू॑नामभवत्पु॒रोहि॑तिः ॥

    इन्द्रावरुणा वधनाभिर् अप्रति भेदं वन्वन्ता प्र सुदासम् आवतम् |
    ब्रह्माण्य् एषां शृणुतं हवीमनि सत्या तृत्सूनाम् अभवत् पुरोहितिः ||

    índrāvaruṇā vadhánābhirapratí bhedám vanvántā prá sudā́samāvatam ǀ
    bráhmāṇyeṣām śṛṇutam hávīmani satyā́ tṛ́tsūnāmabhavatpuróhitiḥ ǁ

    indrāvaruṇā vadhanābhir aprati bhedaṃ vanvantā pra sudāsam āvatam |
    brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ ||

    इन्द्रा॑वरुणा । व॒धना॑भिः । अ॒प्र॒ति । भे॒दम् । व॒न्वन्ता॑ । प्र । सु॒ऽदास॑म् । आ॒व॒त॒म् ।
    ब्रह्मा॑णि । ए॒षा॒म् । शृ॒णु॒त॒म् । हवी॑मनि । स॒त्या । तृत्सू॑नाम् । अ॒भ॒व॒त् । पु॒रःऽहि॑तिः ॥

    इन्द्रावरुणा । वधनाभिः । अप्रति । भेदम् । वन्वन्ता । प्र । सुऽदासम् । आवतम् ।
    ब्रह्माणि । एषाम् । शृणुतम् । हवीमनि । सत्या । तृत्सूनाम् । अभवत् । पुरःऽहितिः ॥

    índrāvaruṇā ǀ vadhánābhiḥ ǀ apratí ǀ bhedám ǀ vanvántā ǀ prá ǀ su-dā́sam ǀ āvatam ǀ
    bráhmāṇi ǀ eṣām ǀ śṛṇutam ǀ hávīmani ǀ satyā́ ǀ tṛ́tsūnām ǀ abhavat ǀ puráḥ-hitiḥ ǁ

    indrāvaruṇā ǀ vadhanābhiḥ ǀ aprati ǀ bhedam ǀ vanvantā ǀ pra ǀ su-dāsam ǀ āvatam ǀ
    brahmāṇi ǀ eṣām ǀ śṛṇutam ǀ havīmani ǀ satyā ǀ tṛtsūnām ǀ abhavat ǀ puraḥ-hitiḥ ǁ

    7.83.4 Aṣṭaka 5.6.4.4Anuvāka 7.5.76

  5. Ṛk 5

    इंद्रा॑वरुणाव॒भ्या त॑पंति मा॒घान्य॒र्यो व॒नुषा॒मरा॑तयः ।
    यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये॑ दि॒वि ॥

    इन्द्रावरुणाव् अभ्य् आ तपन्ति माघान्य् अर्यो वनुषाम् अरातयः |
    युवं हि वस्व उभयस्य राजथो ऽध स्मा नो ऽवतम् पार्ये दिवि ||

    índrāvaruṇāvabhyā́ tapanti māghā́nyaryó vanúṣāmárātayaḥ ǀ
    yuvám hí vásva ubháyasya rā́jathó’dha smā no’vatam pā́rye diví ǁ

    indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ |
    yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi ||

    इन्द्रा॑वरुणौ । अ॒भि । आ । त॒प॒न्ति॒ । मा॒ । अ॒घानि॑ । अ॒र्यः । व॒नुषा॑म् । अरा॑तयः ।
    यु॒वम् । हि । वस्वः॑ । उ॒भय॑स्य । राज॑थः । अध॑ । स्म॒ । नः॒ । अ॒व॒त॒म् । पार्ये॑ । दि॒वि ॥

    इन्द्रावरुणौ । अभि । आ । तपन्ति । मा । अघानि । अर्यः । वनुषाम् । अरातयः ।
    युवम् । हि । वस्वः । उभयस्य । राजथः । अध । स्म । नः । अवतम् । पार्ये । दिवि ॥

    índrāvaruṇau ǀ abhí ǀ ā́ ǀ tapanti ǀ mā ǀ aghā́ni ǀ aryáḥ ǀ vanúṣām ǀ árātayaḥ ǀ
    yuvám ǀ hí ǀ vásvaḥ ǀ ubháyasya ǀ rā́jathaḥ ǀ ádha ǀ sma ǀ naḥ ǀ avatam ǀ pā́rye ǀ diví ǁ

    indrāvaruṇau ǀ abhi ǀ ā ǀ tapanti ǀ mā ǀ aghāni ǀ aryaḥ ǀ vanuṣām ǀ arātayaḥ ǀ
    yuvam ǀ hi ǀ vasvaḥ ǀ ubhayasya ǀ rājathaḥ ǀ adha ǀ sma ǀ naḥ ǀ avatam ǀ pārye ǀ divi ǁ

    7.83.5 Aṣṭaka 5.6.4.5Anuvāka 7.5.77

  6. Ṛk 6

    यु॒वां ह॑वंत उ॒भया॑स आ॒जिष्विंद्रं॑ च॒ वस्वो॒ वरु॑णं च सा॒तये॑ ।
    यत्र॒ राज॑भिर्द॒शभि॒र्निबा॑धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ॥

    युवां हवन्त उभयास आजिष्व् इन्द्रं च वस्वो वरुणं च सातये |
    यत्र राजभिर् दशभिर् निबाधितम् प्र सुदासम् आवतं तृत्सुभिः सह ||

    yuvā́m havanta ubháyāsa ājíṣvíndram ca vásvo váruṇam ca sātáye ǀ
    yátra rā́jabhirdaśábhirníbādhitam prá sudā́samā́vatam tṛ́tsubhiḥ sahá ǁ

    yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye |
    yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṃ tṛtsubhiḥ saha ||

    यु॒वाम् । ह॒व॒न्ते॒ । उ॒भया॑सः । आ॒जिषु॑ । इन्द्र॑म् । च॒ । वस्वः॑ । वरु॑णम् । च॒ । सा॒तये॑ ।
    यत्र॑ । राज॑ऽभिः । द॒शऽभिः॑ । निऽबा॑धितम् । प्र । सु॒ऽदास॑म् । आव॑तम् । तृत्सु॑ऽभिः । स॒ह ॥

    युवाम् । हवन्ते । उभयासः । आजिषु । इन्द्रम् । च । वस्वः । वरुणम् । च । सातये ।
    यत्र । राजऽभिः । दशऽभिः । निऽबाधितम् । प्र । सुऽदासम् । आवतम् । तृत्सुऽभिः । सह ॥

    yuvā́m ǀ havante ǀ ubháyāsaḥ ǀ ājíṣu ǀ índram ǀ ca ǀ vásvaḥ ǀ váruṇam ǀ ca ǀ sātáye ǀ
    yátra ǀ rā́ja-bhiḥ ǀ daśá-bhiḥ ǀ ní-bādhitam ǀ prá ǀ su-dā́sam ǀ ā́vatam ǀ tṛ́tsu-bhiḥ ǀ sahá ǁ

    yuvām ǀ havante ǀ ubhayāsaḥ ǀ ājiṣu ǀ indram ǀ ca ǀ vasvaḥ ǀ varuṇam ǀ ca ǀ sātaye ǀ
    yatra ǀ rāja-bhiḥ ǀ daśa-bhiḥ ǀ ni-bādhitam ǀ pra ǀ su-dāsam ǀ āvatam ǀ tṛtsu-bhiḥ ǀ saha ǁ

    7.83.6 Aṣṭaka 5.6.5.1Anuvāka 7.5.78

  7. Ṛk 7

    दश॒ राजा॑नः॒ समि॑ता॒ अय॑ज्यवः सु॒दास॑मिंद्रावरुणा॒ न यु॑युधुः ।
    स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए॑षामभवंदे॒वहू॑तिषु ॥

    दश राजानः समिता अयज्यवः सुदासम् इन्द्रावरुणा न युयुधुः |
    सत्या नृणाम् अद्मसदाम् उपस्तुतिर् देवा एषाम् अभवन् देवहूतिषु ||

    dáśa rā́jānaḥ sámitā áyajyavaḥ sudā́samindrāvaruṇā ná yuyudhuḥ ǀ
    satyā́ nṛṇā́madmasádāmúpastutirdevā́ eṣāmabhavandeváhūtiṣu ǁ

    daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ |
    satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu ||

    दश॑ । राजा॑नः । सम्ऽइ॑ताः । अय॑ज्यवः । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । न । यु॒यु॒धुः॒ ।
    स॒त्या । नृ॒णाम् । अ॒द्म॒ऽसदा॑म् । उप॑ऽस्तुतिः । दे॒वाः । ए॒षा॒म् । अ॒भ॒व॒न् । दे॒वऽहू॑तिषु ॥

    दश । राजानः । सम्ऽइताः । अयज्यवः । सुऽदासम् । इन्द्रावरुणा । न । युयुधुः ।
    सत्या । नृणाम् । अद्मऽसदाम् । उपऽस्तुतिः । देवाः । एषाम् । अभवन् । देवऽहूतिषु ॥

    dáśa ǀ rā́jānaḥ ǀ sám-itāḥ ǀ áyajyavaḥ ǀ su-dā́sam ǀ indrāvaruṇā ǀ ná ǀ yuyudhuḥ ǀ
    satyā́ ǀ nṛṇā́m ǀ adma-sádām ǀ úpa-stutiḥ ǀ devā́ḥ ǀ eṣām ǀ abhavan ǀ devá-hūtiṣu ǁ

    daśa ǀ rājānaḥ ǀ sam-itāḥ ǀ ayajyavaḥ ǀ su-dāsam ǀ indrāvaruṇā ǀ na ǀ yuyudhuḥ ǀ
    satyā ǀ nṛṇām ǀ adma-sadām ǀ upa-stutiḥ ǀ devāḥ ǀ eṣām ǀ abhavan ǀ deva-hūtiṣu ǁ

    7.83.7 Aṣṭaka 5.6.5.2Anuvāka 7.5.79

  8. Ṛk 8

    दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वतः॑ सु॒दास॑ इंद्रावरुणावशिक्षतं ।
    श्वि॒त्यंचो॒ यत्र॒ नम॑सा कप॒र्दिनो॑ धि॒या धीवं॑तो॒ अस॑पंत॒ तृत्स॑वः ॥

    दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणाव् अशिक्षतम् |
    श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ||

    dāśarājñé páriyattāya viśvátaḥ sudā́sa indrāvaruṇāvaśikṣatam ǀ
    śvityáñco yátra námasā kapardíno dhiyā́ dhī́vanto ásapanta tṛ́tsavaḥ ǁ

    dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāv aśikṣatam |
    śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ ||

    दा॒श॒ऽरा॒ज्ञे । परि॑ऽयत्ताय । वि॒श्वतः॑ । सु॒ऽदासे॑ । इ॒न्द्रा॒व॒रु॒णौ॒ । अ॒शि॒क्ष॒त॒म् ।
    श्वि॒त्यञ्चः॑ । यत्र॑ । नम॑सा । क॒प॒र्दिनः॑ । धि॒या । धीऽव॑न्तः । अस॑पन्त । तृत्स॑वः ॥

    दाशऽराज्ञे । परिऽयत्ताय । विश्वतः । सुऽदासे । इन्द्रावरुणौ । अशिक्षतम् ।
    श्वित्यञ्चः । यत्र । नमसा । कपर्दिनः । धिया । धीऽवन्तः । असपन्त । तृत्सवः ॥

    dāśa-rājñé ǀ pári-yattāya ǀ viśvátaḥ ǀ su-dā́se ǀ indrāvaruṇau ǀ aśikṣatam ǀ
    śvityáñcaḥ ǀ yátra ǀ námasā ǀ kapardínaḥ ǀ dhiyā́ ǀ dhī́-vantaḥ ǀ ásapanta ǀ tṛ́tsavaḥ ǁ

    dāśa-rājñe ǀ pari-yattāya ǀ viśvataḥ ǀ su-dāse ǀ indrāvaruṇau ǀ aśikṣatam ǀ
    śvityañcaḥ ǀ yatra ǀ namasā ǀ kapardinaḥ ǀ dhiyā ǀ dhī-vantaḥ ǀ asapanta ǀ tṛtsavaḥ ǁ

    7.83.8 Aṣṭaka 5.6.5.3Anuvāka 7.5.80

  9. Ṛk 9

    वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा॑ ।
    हवा॑महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे इं॑द्रावरुणा॒ शर्म॑ यच्छतं ॥

    वृत्राण्य् अन्यः समिथेषु जिघ्नते व्रतान्य् अन्यो अभि रक्षते सदा |
    हवामहे वां वृषणा सुवृक्तिभिर् अस्मे इन्द्रावरुणा शर्म यच्छतम् ||

    vṛtrā́ṇyanyáḥ samithéṣu jíghnate vratā́nyanyó abhí rakṣate sádā ǀ
    hávāmahe vām vṛṣaṇā suvṛktíbhirasmé indrāvaruṇā śárma yacchatam ǁ

    vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā |
    havāmahe vāṃ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam ||

    वृ॒त्राणि॑ । अ॒न्यः । स॒म्ऽइ॒थेषु॑ । जिघ्न॑ते । व्र॒तानि॑ । अ॒न्यः । अ॒भि । र॒क्ष॒ते॒ । सदा॑ ।
    हवा॑महे । वा॒म् । वृ॒ष॒णा॒ । सु॒वृ॒क्तिऽभिः॑ । अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । शर्म॑ । य॒च्छ॒त॒म् ॥

    वृत्राणि । अन्यः । सम्ऽइथेषु । जिघ्नते । व्रतानि । अन्यः । अभि । रक्षते । सदा ।
    हवामहे । वाम् । वृषणा । सुवृक्तिऽभिः । अस्मे इति । इन्द्रावरुणा । शर्म । यच्छतम् ॥

    vṛtrā́ṇi ǀ anyáḥ ǀ sam-ithéṣu ǀ jíghnate ǀ vratā́ni ǀ anyáḥ ǀ abhí ǀ rakṣate ǀ sádā ǀ
    hávāmahe ǀ vām ǀ vṛṣaṇā ǀ suvṛktí-bhiḥ ǀ asmé íti ǀ indrāvaruṇā ǀ śárma ǀ yacchatam ǁ

    vṛtrāṇi ǀ anyaḥ ǀ sam-itheṣu ǀ jighnate ǀ vratāni ǀ anyaḥ ǀ abhi ǀ rakṣate ǀ sadā ǀ
    havāmahe ǀ vām ǀ vṛṣaṇā ǀ suvṛkti-bhiḥ ǀ asme iti ǀ indrāvaruṇā ǀ śarma ǀ yacchatam ǁ

    7.83.9 Aṣṭaka 5.6.5.4Anuvāka 7.5.81

  10. Ṛk 10

    अ॒स्मे इंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छंतु॒ महि॒ शर्म॑ स॒प्रथः॑ ।
    अ॒व॒ध्रं ज्योति॒रदि॑तेर्ऋता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥

    अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः |
    अवध्रं ज्योतिर् अदितेर् ऋतावृधो देवस्य श्लोकं सवितुर् मनामहे ||

    asmé índro váruṇo mitró aryamā́ dyumnám yacchantu máhi śárma sapráthaḥ ǀ
    avadhrám jyótiráditerṛtāvṛ́dho devásya ślókam savitúrmanāmahe ǁ

    asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ |
    avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe ||

    अ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।
    अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥

    अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । सऽप्रथः ।
    अवध्रम् । ज्योतिः । अदितेः । ऋतऽवृधः । देवस्य । श्लोकम् । सवितुः । मनामहे ॥

    asmé íti ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ dyumnám ǀ yacchantu ǀ máhi ǀ śárma ǀ sa-práthaḥ ǀ
    avadhrám ǀ jyótiḥ ǀ áditeḥ ǀ ṛta-vṛ́dhaḥ ǀ devásya ǀ ślókam ǀ savitúḥ ǀ manāmahe ǁ

    asme iti ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ dyumnam ǀ yacchantu ǀ mahi ǀ śarma ǀ sa-prathaḥ ǀ
    avadhram ǀ jyotiḥ ǀ aditeḥ ǀ ṛta-vṛdhaḥ ǀ devasya ǀ ślokam ǀ savituḥ ǀ manāmahe ǁ

    7.83.10 Aṣṭaka 5.6.5.5Anuvāka 7.5.82

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.83 · Indra, Varuṇa

Interpretations

Ralph T. H. Griffith

Ṛk 1

LOOKING to you and your alliance, O ye Men, armed with broad axes they went forward, fain for spoil. Ye smote and slew his Dāsa and his Āryan enemies, and helped Sudās with favour, Indra-Varuṇa.

Ṛk 2

Where heroes come together with their banners raised, in the encounter where is naught for us to love, Where all things that behold the light are terrified, there did ye comfort us, O Indra-Varuṇa.

Ṛk 3

The boundaries of earth were seen all dark with dust: O Indra-Varuṇa, the shout went up to heaven. The enmities of the people compassed me about. Ye heard my calling and ye came to me with help.

Ṛk 4

With your resistless weapons, Indra-Varuṇa, ye conquered Bheda and ye gave Sudās your aid. Ye heard the prayers of these amid the cries of war: effectual was the service of the Trtsus' priest.

Ṛk 5

O Indra-Varuṇa, the wickedness of foes and mine assailants' hatred sorely trouble me. Ye Twain are Lords of riches both of earth and heaven: so grant to us your aid on the decisive day.

Ṛk 6

The men of both the hosts invoked you in the fight, Indra and Varuṇa, that they might win the wealth, What time ye helped Sudās, with all the Trtsu folk, when the Ten Kings had pressed him down in their attack.

Ṛk 7

Ten Kings who worshipped not, O Indra-Varuṇa, confederate, in war prevailed not o’er Sudās. True was the boast of heroes sitting at the feast: so at their invocations Gods were on their side.

Ṛk 8

O Indra-Varuṇa, ye gave Sudās your aid when the Ten Kings in battle compassed him about, There where the white-robed Trtsus with their braided hair, skilled in song worshipped you with homage and with hymn.

Ṛk 9

One of you Twain destroys the Vṛtras in the fight, the Other evermore maintains his holy Laws. We call on you, ye Mighty, with our hymns of praise. Vouchsafe us your protection, Indra-Varuṇa.