Sūkta 99
- Devatā देवता
- 1-3, 7: Viṣṇu; 4-6: Indra, Viṣṇu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (4, 5, 7); virāṭtrisṭup (1, 6); triṣṭup (2, 3)
2nd set of styles triṣṭubh
-
Ṛk 1
प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवंति ।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥परो मात्रया तन्वा वृधान न ते महित्वम् अन्व् अश्नुवन्ति |
उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् परमस्य वित्से ||paró mā́trayā tanvā́ vṛdhāna ná te mahitvámánvaśnuvanti ǀ
ubhé te vidma rájasī pṛthivyā́ víṣṇo deva tvám paramásya vitse ǁparo mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti |
ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse ||प॒रः । मात्र॑या । त॒न्वा॑ । वृ॒धा॒न॒ । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । अ॒श्नु॒व॒न्ति॒ ।
उ॒भे इति॑ । ते॒ । वि॒द्म॒ । रज॑सी॒ इति॑ । पृ॒थि॒व्याः । विष्णो॒ इति॑ । दे॒व॒ । त्वम् । प॒र॒मस्य॑ । वि॒त्से॒ ॥परः । मात्रया । तन्वा । वृधान । न । ते । महिऽत्वम् । अनु । अश्नुवन्ति ।
उभे इति । ते । विद्म । रजसी इति । पृथिव्याः । विष्णो इति । देव । त्वम् । परमस्य । वित्से ॥paráḥ ǀ mā́trayā ǀ tanvā́ ǀ vṛdhāna ǀ ná ǀ te ǀ mahi-tvám ǀ ánu ǀ aśnuvanti ǀ
ubhé íti ǀ te ǀ vidma ǀ rájasī íti ǀ pṛthivyā́ḥ ǀ víṣṇo íti ǀ deva ǀ tvám ǀ paramásya ǀ vitse ǁparaḥ ǀ mātrayā ǀ tanvā ǀ vṛdhāna ǀ na ǀ te ǀ mahi-tvam ǀ anu ǀ aśnuvanti ǀ
ubhe iti ǀ te ǀ vidma ǀ rajasī iti ǀ pṛthivyāḥ ǀ viṣṇo iti ǀ deva ǀ tvam ǀ paramasya ǀ vitse ǁ7.99.1 Aṣṭaka 5.6.24.1Anuvāka 7.6.69
-
Ṛk 2
न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मंत॑माप ।
उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हंतं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप |
उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं ककुभम् पृथिव्याः ||ná te viṣṇo jā́yamāno ná jātó déva mahimnáḥ páramántamāpa ǀ
údastabhnā nā́kamṛṣvám bṛhántam dādhártha prā́cīm kakúbham pṛthivyā́ḥ ǁna te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa |
ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ ||न । ते॒ । वि॒ष्णो॒ इति॑ । जाय॑मानः । न । जा॒तः । देव॑ । म॒हि॒म्नः । पर॑म् । अन्त॑म् । आ॒प॒ ।
उत् । अ॒स्त॒भ्नाः॒ । नाक॑म् । ऋ॒ष्वम् । बृ॒हन्त॑म् । दा॒धर्थ॑ । प्राची॑म् । क॒कुभ॑म् । पृ॒थि॒व्याः ॥न । ते । विष्णो इति । जायमानः । न । जातः । देव । महिम्नः । परम् । अन्तम् । आप ।
उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः ॥ná ǀ te ǀ viṣṇo íti ǀ jā́yamānaḥ ǀ ná ǀ jātáḥ ǀ déva ǀ mahimnáḥ ǀ páram ǀ ántam ǀ āpa ǀ
út ǀ astabhnāḥ ǀ nā́kam ǀ ṛṣvám ǀ bṛhántam ǀ dādhártha ǀ prā́cīm ǀ kakúbham ǀ pṛthivyā́ḥ ǁna ǀ te ǀ viṣṇo iti ǀ jāyamānaḥ ǀ na ǀ jātaḥ ǀ deva ǀ mahimnaḥ ǀ param ǀ antam ǀ āpa ǀ
ut ǀ astabhnāḥ ǀ nākam ǀ ṛṣvam ǀ bṛhantam ǀ dādhartha ǀ prācīm ǀ kakubham ǀ pṛthivyāḥ ǁ7.99.2 Aṣṭaka 5.6.24.2Anuvāka 7.6.70
-
Ṛk 3
इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या ।
व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ ॥इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या |
व्य् अस्तभ्ना रोदसी विष्णव् एते दाधर्थ पृथिवीम् अभितो मयूखैः ||írāvatī dhenumátī hí bhūtám sūyavasínī mánuṣe daśasyā́ ǀ
vyástabhnā ródasī viṣṇaveté dādhártha pṛthivī́mabhíto mayū́khaiḥ ǁirāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā |
vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ ||इरा॑वती॒ इतीरा॑ऽवती । धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑ । हि । भू॒तम् । सु॒य॒व॒सिनी॒ इति॑ सु॒ऽय॒व॒सिनी॑ । मनु॑षे । द॒श॒स्या ।
वि । अ॒स्त॒भ्नाः॒ । रोद॑सी॒ इति॑ । वि॒ष्णो॒ इति॑ । ए॒ते इति॑ । दा॒धर्थ॑ । पृ॒थि॒वीम् । अ॒भितः॑ । म॒यूखैः॑ ॥इरावती इतीराऽवती । धेनुमती इति धेनुऽमती । हि । भूतम् । सुयवसिनी इति सुऽयवसिनी । मनुषे । दशस्या ।
वि । अस्तभ्नाः । रोदसी इति । विष्णो इति । एते इति । दाधर्थ । पृथिवीम् । अभितः । मयूखैः ॥írāvatī ítīrā-vatī ǀ dhenumátī íti dhenu-mátī ǀ hí ǀ bhūtám ǀ suyavasínī íti su-yavasínī ǀ mánuṣe ǀ daśasyā́ ǀ
ví ǀ astabhnāḥ ǀ ródasī íti ǀ viṣṇo íti ǀ eté íti ǀ dādhártha ǀ pṛthivī́m ǀ abhítaḥ ǀ mayū́khaiḥ ǁirāvatī itīrā-vatī ǀ dhenumatī iti dhenu-matī ǀ hi ǀ bhūtam ǀ suyavasinī iti su-yavasinī ǀ manuṣe ǀ daśasyā ǀ
vi ǀ astabhnāḥ ǀ rodasī iti ǀ viṣṇo iti ǀ ete iti ǀ dādhartha ǀ pṛthivīm ǀ abhitaḥ ǀ mayūkhaiḥ ǁ7.99.3 Aṣṭaka 5.6.24.3Anuvāka 7.6.71
-
Ṛk 4
उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नयं॑ता॒ सूर्य॑मु॒षास॑म॒ग्निं ।
दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥उरुं यज्ञाय चक्रथुर् उ लोकं जनयन्ता सूर्यम् उषासम् अग्निम् |
दासस्य चिद् वृषशिप्रस्य माया जघ्नथुर् नरा पृतनाज्येषु ||urúm yajñā́ya cakrathuru lokám janáyantā sū́ryamuṣā́samagním ǀ
dā́sasya cidvṛṣaśiprásya māyā́ jaghnáthurnarā pṛtanā́jyeṣu ǁuruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim |
dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu ||उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊं॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् ।
दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥उरुम् । यज्ञाय । चक्रथुः । ऊं इति । लोकम् । जनयन्ता । सूर्यम् । उषसम् । अग्निम् ।
दासस्य । चित् । वृषऽशिप्रस्य । मायाः । जघ्नथुः । नरा । पृतनाज्येषु ॥urúm ǀ yajñā́ya ǀ cakrathuḥ ǀ ūṃ íti ǀ lokám ǀ janáyantā ǀ sū́ryam ǀ uṣásam ǀ agním ǀ
dā́sasya ǀ cit ǀ vṛṣa-śiprásya ǀ māyā́ḥ ǀ jaghnáthuḥ ǀ narā ǀ pṛtanā́jyeṣu ǁurum ǀ yajñāya ǀ cakrathuḥ ǀ ūṃ iti ǀ lokam ǀ janayantā ǀ sūryam ǀ uṣasam ǀ agnim ǀ
dāsasya ǀ cit ǀ vṛṣa-śiprasya ǀ māyāḥ ǀ jaghnathuḥ ǀ narā ǀ pṛtanājyeṣu ǁ7.99.4 Aṣṭaka 5.6.24.4Anuvāka 7.6.72
-
Ṛk 5
इंद्रा॑विष्णू दृंहि॒ताः शंब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टं ।
श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् |
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य् असुरस्य वीरान् ||índrāviṣṇū dṛṃhitā́ḥ śámbarasya náva púro navatím ca śnathiṣṭam ǀ
śatám varcínaḥ sahásram ca sākám hathó apratyásurasya vīrā́n ǁindrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam |
śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān ||इन्द्रा॑विष्णू॒ इति॑ । दृं॒हि॒ताः । शम्ब॑रस्य । नव॑ । पुरः॑ । न॒व॒तिम् । च॒ । श्न॒थि॒ष्ट॒म् ।
श॒तम् । व॒र्चिनः॑ । स॒हस्र॑म् । च॒ । सा॒कम् । ह॒थः । अ॒प्र॒ति । असु॑रस्य । वी॒रान् ॥इन्द्राविष्णू इति । दृंहिताः । शम्बरस्य । नव । पुरः । नवतिम् । च । श्नथिष्टम् ।
शतम् । वर्चिनः । सहस्रम् । च । साकम् । हथः । अप्रति । असुरस्य । वीरान् ॥índrāviṣṇū íti ǀ dṛṃhitā́ḥ ǀ śámbarasya ǀ náva ǀ púraḥ ǀ navatím ǀ ca ǀ śnathiṣṭam ǀ
śatám ǀ varcínaḥ ǀ sahásram ǀ ca ǀ sākám ǀ hatháḥ ǀ apratí ǀ ásurasya ǀ vīrā́n ǁindrāviṣṇū iti ǀ dṛṃhitāḥ ǀ śambarasya ǀ nava ǀ puraḥ ǀ navatim ǀ ca ǀ śnathiṣṭam ǀ
śatam ǀ varcinaḥ ǀ sahasram ǀ ca ǀ sākam ǀ hathaḥ ǀ aprati ǀ asurasya ǀ vīrān ǁ7.99.5 Aṣṭaka 5.6.24.5Anuvāka 7.6.73
-
Ṛk 6
इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हंतो॑रुक्र॒मा त॒वसा॑ व॒र्धयं॑ती ।
र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विंद्र ॥इयम् मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती |
ररे वां स्तोमं विदथेषु विष्णो पिन्वतम् इषो वृजनेष्व् इन्द्र ||iyám manīṣā́ bṛhatī́ bṛhántorukramā́ tavásā vardháyantī ǀ
raré vām stómam vidátheṣu viṣṇo pínvatamíṣo vṛjáneṣvindra ǁiyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī |
rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra ||इ॒यम् । म॒नी॒षा । बृ॒ह॒ती । बृ॒हन्ता॑ । उ॒रु॒ऽक्र॒मा । त॒वसा॑ । व॒र्धय॑न्ती ।
र॒रे । वा॒म् । स्तोम॑म् । वि॒दथे॑षु । वि॒ष्णो॒ इति॑ । पिन्व॑तम् । इषः॑ । वृ॒जने॑षु । इ॒न्द्र॒ ॥इयम् । मनीषा । बृहती । बृहन्ता । उरुऽक्रमा । तवसा । वर्धयन्ती ।
ररे । वाम् । स्तोमम् । विदथेषु । विष्णो इति । पिन्वतम् । इषः । वृजनेषु । इन्द्र ॥iyám ǀ manīṣā́ ǀ bṛhatī́ ǀ bṛhántā ǀ uru-kramā́ ǀ tavásā ǀ vardháyantī ǀ
raré ǀ vām ǀ stómam ǀ vidátheṣu ǀ viṣṇo íti ǀ pínvatam ǀ íṣaḥ ǀ vṛjáneṣu ǀ indra ǁiyam ǀ manīṣā ǀ bṛhatī ǀ bṛhantā ǀ uru-kramā ǀ tavasā ǀ vardhayantī ǀ
rare ǀ vām ǀ stomam ǀ vidatheṣu ǀ viṣṇo iti ǀ pinvatam ǀ iṣaḥ ǀ vṛjaneṣu ǀ indra ǁ7.99.6 Aṣṭaka 5.6.24.6Anuvāka 7.6.74
-
Ṛk 7
वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यं ।
वर्धं॑तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥वषट् ते विष्णव् आस आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् |
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ||váṣaṭ te viṣṇavāsá ā́ kṛṇomi tánme juṣasva śipiviṣṭa havyám ǀ
várdhantu tvā suṣṭutáyo gíro me yūyám pāta svastíbhiḥ sádā naḥ ǁvaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ ||वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् ।
वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिऽविष्ट । हव्यम् ।
वर्धन्तु । त्वा । सुऽस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥váṣaṭ ǀ te ǀ viṣṇo íti ǀ āsáḥ ǀ ā́ ǀ kṛṇomi ǀ tát ǀ me ǀ juṣasva ǀ śipi-viṣṭa ǀ havyám ǀ
várdhantu ǀ tvā ǀ su-stutáyaḥ ǀ gíraḥ ǀ me ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁvaṣaṭ ǀ te ǀ viṣṇo iti ǀ āsaḥ ǀ ā ǀ kṛṇomi ǀ tat ǀ me ǀ juṣasva ǀ śipi-viṣṭa ǀ havyam ǀ
vardhantu ǀ tvā ǀ su-stutayaḥ ǀ giraḥ ǀ me ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.99.7 Aṣṭaka 5.6.24.7Anuvāka 7.6.75
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.