Ṛk 7.99.2
Saṃhitā
न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मंत॑माप ।
उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हंतं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥
न ते विष्णो जायमानो न जातो देव महिम्नः परम् अन्तम् आप |
उद् अस्तभ्ना नाकम् ऋष्वम् बृहन्तं दाधर्थ प्राचीं ककुभम् पृथिव्याः ||
ná te viṣṇo jā́yamāno ná jātó déva mahimnáḥ páramántamāpa ǀ
údastabhnā nā́kamṛṣvám bṛhántam dādhártha prā́cīm kakúbham pṛthivyā́ḥ ǁ
na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa |
ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ ||
Padapāṭha
न । ते॒ । वि॒ष्णो॒ इति॑ । जाय॑मानः । न । जा॒तः । देव॑ । म॒हि॒म्नः । पर॑म् । अन्त॑म् । आ॒प॒ ।
उत् । अ॒स्त॒भ्नाः॒ । नाक॑म् । ऋ॒ष्वम् । बृ॒हन्त॑म् । दा॒धर्थ॑ । प्राची॑म् । क॒कुभ॑म् । पृ॒थि॒व्याः ॥
न । ते । विष्णो इति । जायमानः । न । जातः । देव । महिम्नः । परम् । अन्तम् । आप ।
उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः ॥
ná ǀ te ǀ viṣṇo íti ǀ jā́yamānaḥ ǀ ná ǀ jātáḥ ǀ déva ǀ mahimnáḥ ǀ páram ǀ ántam ǀ āpa ǀ
út ǀ astabhnāḥ ǀ nā́kam ǀ ṛṣvám ǀ bṛhántam ǀ dādhártha ǀ prā́cīm ǀ kakúbham ǀ pṛthivyā́ḥ ǁ
na ǀ te ǀ viṣṇo iti ǀ jāyamānaḥ ǀ na ǀ jātaḥ ǀ deva ǀ mahimnaḥ ǀ param ǀ antam ǀ āpa ǀ
ut ǀ astabhnāḥ ǀ nākam ǀ ṛṣvam ǀ bṛhantam ǀ dādhartha ǀ prācīm ǀ kakubham ǀ pṛthivyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.099.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.24.02
- Maṇḍala · Anuvāka · Ṛk
- 07.06.070
- Devatā देवता
- 1-3, 7: Viṣṇu; 4-6: Indra, Viṣṇu
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.