Sūkta 97
- Devatā देवता
- 1: Indra; 2, 4-8: Bṛhaspati; 3, 9: Indra, Brahmaṇaspati; 10: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 5, 6, 8-10); virāṭtrisṭup (2, 4, 7); ārṣītriṣṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मदं॑ति ।
इंद्रा॑य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा॑य प्रथ॒मं वय॑श्च ॥यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति |
इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमं वयश् च ||yajñé divó nṛṣádane pṛthivyā́ náro yátra devayávo mádanti ǀ
índrāya yátra sávanāni sunvé gámanmádāya prathamám váyaśca ǁyajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti |
indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca ||य॒ज्ञे । दि॒वः । नृ॒ऽसद॑ने । पृ॒थि॒व्याः । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।
इन्द्रा॑य । यत्र॑ । सव॑नानि । सु॒न्वे । गम॑त् । मदा॑य । प्र॒थ॒मम् । वयः॑ । च॒ ॥यज्ञे । दिवः । नृऽसदने । पृथिव्याः । नरः । यत्र । देवऽयवः । मदन्ति ।
इन्द्राय । यत्र । सवनानि । सुन्वे । गमत् । मदाय । प्रथमम् । वयः । च ॥yajñé ǀ diváḥ ǀ nṛ-sádane ǀ pṛthivyā́ḥ ǀ náraḥ ǀ yátra ǀ deva-yávaḥ ǀ mádanti ǀ
índrāya ǀ yátra ǀ sávanāni ǀ sunvé ǀ gámat ǀ mádāya ǀ prathamám ǀ váyaḥ ǀ ca ǁyajñe ǀ divaḥ ǀ nṛ-sadane ǀ pṛthivyāḥ ǀ naraḥ ǀ yatra ǀ deva-yavaḥ ǀ madanti ǀ
indrāya ǀ yatra ǀ savanāni ǀ sunve ǀ gamat ǀ madāya ǀ prathamam ǀ vayaḥ ǀ ca ǁ7.97.1 Aṣṭaka 5.6.21.1Anuvāka 7.6.52
-
Ṛk 2
आ दैव्या॑ वृणीम॒हेऽवां॑सि॒ बृह॒स्पति॑र्नो मह॒ आ स॑खायः ।
यथा॒ भवे॑म मी॒ळ्हुषे॒ अना॑गा॒ यो नो॑ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ॥आ दैव्या वृणीमहे ऽवांसि बृहस्पतिर् नो मह आ सखायः |
यथा भवेम मीऌहुषे अनागा यो नो दाता परावतः पितेव ||ā́ dáivyā vṛṇīmahé’vāṃsi bṛ́haspátirno maha ā́ sakhāyaḥ ǀ
yáthā bhávema mīḷhúṣe ánāgā yó no dātā́ parāvátaḥ pitéva ǁā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ |
yathā bhavema mīḷhuṣe anāgā yo no dātā parāvataḥ piteva ||आ । दैव्या॑ । वृ॒णी॒म॒हे॒ । अवां॑सि । बृह॒स्पतिः॑ । नः॒ । म॒हे॒ । आ । स॒खा॒यः॒ ।
यथा॑ । भवे॑म । मी॒ळ्हुषे॑ । अना॑गाः । यः । नः॒ । दा॒ता । प॒रा॒ऽवतः॑ । पि॒ताऽइ॑व ॥आ । दैव्या । वृणीमहे । अवांसि । बृहस्पतिः । नः । महे । आ । सखायः ।
यथा । भवेम । मीळ्हुषे । अनागाः । यः । नः । दाता । पराऽवतः । पिताऽइव ॥ā́ ǀ dáivyā ǀ vṛṇīmahe ǀ ávāṃsi ǀ bṛ́haspátiḥ ǀ naḥ ǀ mahe ǀ ā́ ǀ sakhāyaḥ ǀ
yáthā ǀ bhávema ǀ mīḷhúṣe ǀ ánāgāḥ ǀ yáḥ ǀ naḥ ǀ dātā́ ǀ parā-vátaḥ ǀ pitā́-iva ǁā ǀ daivyā ǀ vṛṇīmahe ǀ avāṃsi ǀ bṛhaspatiḥ ǀ naḥ ǀ mahe ǀ ā ǀ sakhāyaḥ ǀ
yathā ǀ bhavema ǀ mīḷhuṣe ǀ anāgāḥ ǀ yaḥ ǀ naḥ ǀ dātā ǀ parā-vataḥ ǀ pitā-iva ǁ7.97.2 Aṣṭaka 5.6.21.2Anuvāka 7.6.53
-
Ṛk 3
तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे ।
इंद्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥तम् उ ज्येष्ठं नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिं गृणीषे |
इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ||támu jyéṣṭham námasā havírbhiḥ suśévam bráhmaṇaspátim gṛṇīṣe ǀ
índram ślóko máhi dáivyaḥ siṣaktu yó bráhmaṇo devákṛtasya rā́jā ǁtam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇas patiṃ gṛṇīṣe |
indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā ||तम् । ऊं॒ इति॑ । ज्येष्ठ॑म् । नम॑सा । ह॒विःऽभिः॑ । सु॒ऽशेव॑म् । ब्रह्म॑णः । पति॑म् । गृ॒णी॒षे॒ ।
इन्द्र॑म् । श्लोकः॑ । महि॑ । दैव्यः॑ । सि॒स॒क्तु॒ । यः । ब्रह्म॑णः । दे॒वऽकृ॑तस्य । राजा॑ ॥तम् । ऊं इति । ज्येष्ठम् । नमसा । हविःऽभिः । सुऽशेवम् । ब्रह्मणः । पतिम् । गृणीषे ।
इन्द्रम् । श्लोकः । महि । दैव्यः । सिसक्तु । यः । ब्रह्मणः । देवऽकृतस्य । राजा ॥tám ǀ ūṃ íti ǀ jyéṣṭham ǀ námasā ǀ havíḥ-bhiḥ ǀ su-śévam ǀ bráhmaṇaḥ ǀ pátim ǀ gṛṇīṣe ǀ
índram ǀ ślókaḥ ǀ máhi ǀ dáivyaḥ ǀ sisaktu ǀ yáḥ ǀ bráhmaṇaḥ ǀ devá-kṛtasya ǀ rā́jā ǁtam ǀ ūṃ iti ǀ jyeṣṭham ǀ namasā ǀ haviḥ-bhiḥ ǀ su-śevam ǀ brahmaṇaḥ ǀ patim ǀ gṛṇīṣe ǀ
indram ǀ ślokaḥ ǀ mahi ǀ daivyaḥ ǀ sisaktu ǀ yaḥ ǀ brahmaṇaḥ ǀ deva-kṛtasya ǀ rājā ǁ7.97.3 Aṣṭaka 5.6.21.3Anuvāka 7.6.54
-
Ṛk 4
स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ ।
कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति |
कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो अरिष्टान् ||sá ā́ no yónim sadatu préṣṭho bṛ́haspátirviśvávāro yó ásti ǀ
kā́mo rāyáḥ suvī́ryasya tám dātpárṣanno áti saścáto áriṣṭān ǁsa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti |
kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān ||सः । आ । नः॒ । योनि॑म् । स॒द॒तु॒ । प्रेष्ठः॑ । बृह॒स्पतिः॑ । वि॒श्वऽवा॑रः । यः । अस्ति॑ ।
कामः॑ । रा॒यः । सु॒ऽवीर्य॑स्य । तम् । दा॒त् । पर्ष॑त् । नः॒ । अति॑ । स॒श्चतः॑ । अरि॑ष्टान् ॥सः । आ । नः । योनिम् । सदतु । प्रेष्ठः । बृहस्पतिः । विश्वऽवारः । यः । अस्ति ।
कामः । रायः । सुऽवीर्यस्य । तम् । दात् । पर्षत् । नः । अति । सश्चतः । अरिष्टान् ॥sáḥ ǀ ā́ ǀ naḥ ǀ yónim ǀ sadatu ǀ préṣṭhaḥ ǀ bṛ́haspátiḥ ǀ viśvá-vāraḥ ǀ yáḥ ǀ ásti ǀ
kā́maḥ ǀ rāyáḥ ǀ su-vī́ryasya ǀ tám ǀ dāt ǀ párṣat ǀ naḥ ǀ áti ǀ saścátaḥ ǀ áriṣṭān ǁsaḥ ǀ ā ǀ naḥ ǀ yonim ǀ sadatu ǀ preṣṭhaḥ ǀ bṛhaspatiḥ ǀ viśva-vāraḥ ǀ yaḥ ǀ asti ǀ
kāmaḥ ǀ rāyaḥ ǀ su-vīryasya ǀ tam ǀ dāt ǀ parṣat ǀ naḥ ǀ ati ǀ saścataḥ ǀ ariṣṭān ǁ7.97.4 Aṣṭaka 5.6.21.4Anuvāka 7.6.55
-
Ṛk 5
तमा नो॑ अ॒र्कम॒मृता॑य॒ जुष्ट॑मि॒मे धा॑सुर॒मृता॑सः पुरा॒जाः ।
शुचि॑क्रंदं यज॒तं प॒स्त्या॑नां॒ बृह॒स्पति॑मन॒र्वाणं॑ हुवेम ॥तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः पुराजाः |
शुचिक्रन्दं यजतम् पस्त्यानाम् बृहस्पतिम् अनर्वाणं हुवेम ||támā́ no arkámamṛ́tāya júṣṭamimé dhāsuramṛ́tāsaḥ purājā́ḥ ǀ
śúcikrandam yajatám pastyā́nām bṛ́haspátimanarvā́ṇam huvema ǁtam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ |
śucikrandaṃ yajatam pastyānām bṛhaspatim anarvāṇaṃ huvema ||तम् । आ । नः॒ । अ॒र्कम् । अ॒मृता॑य । जुष्ट॑म् । इ॒मे । धा॒सुः॒ । अ॒मृता॑सः । पु॒रा॒ऽजाः ।
शुचि॑ऽक्रन्दम् । य॒ज॒तम् । प॒स्त्या॑नाम् । बृह॒स्पति॑म् । अ॒न॒र्वाण॑म् । हु॒वे॒म॒ ॥तम् । आ । नः । अर्कम् । अमृताय । जुष्टम् । इमे । धासुः । अमृतासः । पुराऽजाः ।
शुचिऽक्रन्दम् । यजतम् । पस्त्यानाम् । बृहस्पतिम् । अनर्वाणम् । हुवेम ॥tám ǀ ā́ ǀ naḥ ǀ arkám ǀ amṛ́tāya ǀ júṣṭam ǀ imé ǀ dhāsuḥ ǀ amṛ́tāsaḥ ǀ purā-jā́ḥ ǀ
śúci-krandam ǀ yajatám ǀ pastyā́nām ǀ bṛ́haspátim ǀ anarvā́ṇam ǀ huvema ǁtam ǀ ā ǀ naḥ ǀ arkam ǀ amṛtāya ǀ juṣṭam ǀ ime ǀ dhāsuḥ ǀ amṛtāsaḥ ǀ purā-jāḥ ǀ
śuci-krandam ǀ yajatam ǀ pastyānām ǀ bṛhaspatim ǀ anarvāṇam ǀ huvema ǁ7.97.5 Aṣṭaka 5.6.21.5Anuvāka 7.6.56
-
Ṛk 6
तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहंति ।
सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति |
सहश् चिद् यस्य नीलवत् सधस्थं नभो न रूपम् अरुषं वसानाः ||tám śagmā́so aruṣā́so áśvā bṛ́haspátim sahavā́ho vahanti ǀ
sáhaścidyásya nī́lavatsadhástham nábho ná rūpámaruṣám vásānāḥ ǁtaṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti |
sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ ||तम् । श॒ग्मासः॑ । अ॒रु॒षासः॑ । अश्वाः॑ । बृह॒स्पति॑म् । स॒ह॒ऽवाहः॑ । व॒ह॒न्ति॒ ।
सहः॑ । चि॒त् । यस्य॑ । नील॑ऽवत् । स॒धऽस्थ॑म् । नभः॑ । न । रू॒पम् । अ॒रु॒षम् । वसा॑नाः ॥तम् । शग्मासः । अरुषासः । अश्वाः । बृहस्पतिम् । सहऽवाहः । वहन्ति ।
सहः । चित् । यस्य । नीलऽवत् । सधऽस्थम् । नभः । न । रूपम् । अरुषम् । वसानाः ॥tám ǀ śagmā́saḥ ǀ aruṣā́saḥ ǀ áśvāḥ ǀ bṛ́haspátim ǀ saha-vā́haḥ ǀ vahanti ǀ
sáhaḥ ǀ cit ǀ yásya ǀ nī́la-vat ǀ sadhá-stham ǀ nábhaḥ ǀ ná ǀ rūpám ǀ aruṣám ǀ vásānāḥ ǁtam ǀ śagmāsaḥ ǀ aruṣāsaḥ ǀ aśvāḥ ǀ bṛhaspatim ǀ saha-vāhaḥ ǀ vahanti ǀ
sahaḥ ǀ cit ǀ yasya ǀ nīla-vat ǀ sadha-stham ǀ nabhaḥ ǀ na ǀ rūpam ǀ aruṣam ǀ vasānāḥ ǁ7.97.6 Aṣṭaka 5.6.22.1Anuvāka 7.6.57
-
Ṛk 7
स हि शुचिः॑ श॒तप॑त्रः॒ स शुं॒ध्युर्हिर॑ण्यवाशीरिषि॒रः स्व॒र्षाः ।
बृह॒स्पतिः॒ स स्वा॑वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ॥स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः |
बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ||sá hí śúciḥ śatápatraḥ sá śundhyúrhíraṇyavāśīriṣiráḥ svarṣā́ḥ ǀ
bṛ́haspátiḥ sá svāveśá ṛṣváḥ purū́ sákhibhya āsutím káriṣṭhaḥ ǁsa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ |
bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ ||सः । हि । शुचिः॑ । श॒तऽप॑त्रः । सः । शु॒न्ध्युः । हिर॑ण्यऽवाशीः । इ॒षि॒रः । स्वः॒ऽसाः ।
बृह॒स्पतिः॑ । सः । सु॒ऽआ॒वे॒शः । ऋ॒ष्वः । पु॒रु । सखि॑ऽभ्यः । आ॒ऽसु॒तिम् । करि॑ष्ठः ॥सः । हि । शुचिः । शतऽपत्रः । सः । शुन्ध्युः । हिरण्यऽवाशीः । इषिरः । स्वःऽसाः ।
बृहस्पतिः । सः । सुऽआवेशः । ऋष्वः । पुरु । सखिऽभ्यः । आऽसुतिम् । करिष्ठः ॥sáḥ ǀ hí ǀ śúciḥ ǀ śatá-patraḥ ǀ sáḥ ǀ śundhyúḥ ǀ híraṇya-vāśīḥ ǀ iṣiráḥ ǀ svaḥ-sā́ḥ ǀ
bṛ́haspátiḥ ǀ sáḥ ǀ su-āveśáḥ ǀ ṛṣváḥ ǀ purú ǀ sákhi-bhyaḥ ǀ ā-sutím ǀ káriṣṭhaḥ ǁsaḥ ǀ hi ǀ śuciḥ ǀ śata-patraḥ ǀ saḥ ǀ śundhyuḥ ǀ hiraṇya-vāśīḥ ǀ iṣiraḥ ǀ svaḥ-sāḥ ǀ
bṛhaspatiḥ ǀ saḥ ǀ su-āveśaḥ ǀ ṛṣvaḥ ǀ puru ǀ sakhi-bhyaḥ ǀ ā-sutim ǀ kariṣṭhaḥ ǁ7.97.7 Aṣṭaka 5.6.22.2Anuvāka 7.6.58
-
Ṛk 8
दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं॑ वावृधतुर्महि॒त्वा ।
द॒क्षाय्या॑य दक्षता सखायः॒ कर॒द्ब्रह्म॑णे सु॒तरा॑ सुगा॒धा ॥देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर् महित्वा |
दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा ||devī́ devásya ródasī jánitrī bṛ́haspátim vāvṛdhaturmahitvā́ ǀ
dakṣā́yyāya dakṣatā sakhāyaḥ káradbráhmaṇe sutárā sugādhā́ ǁdevī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā |
dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā ||दे॒वी इति॑ । दे॒वस्य॑ । रोद॑सी॒ इति॑ । जनि॑त्री॒ इति॑ । बृह॒स्पति॑म् । व॒वृ॒ध॒तुः॒ । म॒हि॒ऽत्वा ।
द॒क्षाय्या॑य । द॒क्ष॒त॒ । स॒खा॒यः॒ । कर॑त् । ब्रह्म॑णे । सु॒ऽतरा॑ । सु॒ऽगा॒धा ॥देवी इति । देवस्य । रोदसी इति । जनित्री इति । बृहस्पतिम् । ववृधतुः । महिऽत्वा ।
दक्षाय्याय । दक्षत । सखायः । करत् । ब्रह्मणे । सुऽतरा । सुऽगाधा ॥devī́ íti ǀ devásya ǀ ródasī íti ǀ jánitrī íti ǀ bṛ́haspátim ǀ vavṛdhatuḥ ǀ mahi-tvā́ ǀ
dakṣā́yyāya ǀ dakṣata ǀ sakhāyaḥ ǀ kárat ǀ bráhmaṇe ǀ su-tárā ǀ su-gādhā́ ǁdevī iti ǀ devasya ǀ rodasī iti ǀ janitrī iti ǀ bṛhaspatim ǀ vavṛdhatuḥ ǀ mahi-tvā ǀ
dakṣāyyāya ǀ dakṣata ǀ sakhāyaḥ ǀ karat ǀ brahmaṇe ǀ su-tarā ǀ su-gādhā ǁ7.97.8 Aṣṭaka 5.6.22.3Anuvāka 7.6.59
-
Ṛk 9
इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेंद्रा॑य व॒ज्रिणे॑ अकारि ।
अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥इयं वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे अकारि |
अविष्टं धियो जिगृतम् पुरन्धीर् जजस्तम् अर्यो वनुषाम् अरातीः ||iyám vām brahmaṇaspate suvṛktírbráhméndrāya vajríṇe akāri ǀ
aviṣṭám dhíyo jigṛtám púraṃdhīrjajastámaryó vanúṣāmárātīḥ ǁiyaṃ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri |
aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ ||इ॒यम् । वा॒म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सु॒ऽवृ॒क्तिः । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ । अ॒का॒रि॒ ।
अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥इयम् । वाम् । ब्रह्मणः । पते । सुऽवृक्तिः । ब्रह्म । इन्द्राय । वज्रिणे । अकारि ।
अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥iyám ǀ vām ǀ brahmaṇaḥ ǀ pate ǀ su-vṛktíḥ ǀ bráhma ǀ índrāya ǀ vajríṇe ǀ akāri ǀ
aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ jajastám ǀ aryáḥ ǀ vanúṣām ǀ árātīḥ ǁiyam ǀ vām ǀ brahmaṇaḥ ǀ pate ǀ su-vṛktiḥ ǀ brahma ǀ indrāya ǀ vajriṇe ǀ akāri ǀ
aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ jajastam ǀ aryaḥ ǀ vanuṣām ǀ arātīḥ ǁ7.97.9 Aṣṭaka 5.6.22.4Anuvāka 7.6.60
-
Ṛk 10
बृह॑स्पते यु॒वमिंद्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य |
धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ||bṛ́haspate yuvámíndraśca vásvo divyásyeśāthe utá pā́rthivasya ǀ
dhattám rayím stuvaté kīráye cidyūyám pāta svastíbhiḥ sádā naḥ ǁbṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ।
ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ।
धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥bṛ́haspate ǀ yuvám ǀ índraḥ ǀ ca ǀ vásvaḥ ǀ divyásya ǀ īśāthe íti ǀ utá ǀ pā́rthivasya ǀ
dhattám ǀ rayím ǀ stuvaté ǀ kīráye ǀ cit ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁbṛhaspate ǀ yuvam ǀ indraḥ ǀ ca ǀ vasvaḥ ǀ divyasya ǀ īśāthe iti ǀ uta ǀ pārthivasya ǀ
dhattam ǀ rayim ǀ stuvate ǀ kīraye ǀ cit ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.97.10 Aṣṭaka 5.6.22.5Anuvāka 7.6.61
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.