Ṛgveda · Maṇḍala 7

Sūkta 50

Mitra, Varuṇa · Agni · Viśvedevās · Nadyaḥ · Vasiṣṭha Maitrāvaruṇi · 4 ṛks

Link
Devatā देवता
1: Mitra, Varuṇa; 2: Agni; 3: Viśvedevās; 4: Nadyaḥ
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Jagatī, Atijagatī Or Śakvarī
Metres by ṛk

1st set of styles svarāṭtriṣṭup (1, 3); nicṛjjagatī (2); bhurigatijagatī (4)

2nd set of styles jagatī (1-3); atijagatī or śakvarī (4)

  1. Ṛk 1

    आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् ।
    अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥

    आ माम् मित्रावरुणेह रक्षतं कुलाययद् विश्वयन् मा न आ गन् |
    अजकावं दुर्दृशीकं तिरो दधे मा माम् पद्येन रपसा विदत् त्सरुः ||

    ā́ mā́m mitrāvaruṇehá rakṣatam kulāyáyadviśváyanmā́ na ā́ gan ǀ
    ajakāvám durdṛ́śīkam tiró dadhe mā́ mā́m pádyena rápasā vidattsáruḥ ǁ

    ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan |
    ajakāvaṃ durdṛśīkaṃ tiro dadhe mā mām padyena rapasā vidat tsaruḥ ||

    आ । माम् । मि॒त्रा॒व॒रु॒णा॒ । इ॒ह । र॒क्ष॒त॒म् । कु॒ला॒यय॑त् । वि॒ऽश्वय॑त् । मा । नः॒ । आ । ग॒न् ।
    अ॒ज॒का॒ऽवम् । दुः॒ऽदृशी॑कम् । ति॒रः । द॒धे॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥

    आ । माम् । मित्रावरुणा । इह । रक्षतम् । कुलाययत् । विऽश्वयत् । मा । नः । आ । गन् ।
    अजकाऽवम् । दुःऽदृशीकम् । तिरः । दधे । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥

    ā́ ǀ mā́m ǀ mitrāvaruṇā ǀ ihá ǀ rakṣatam ǀ kulāyáyat ǀ vi-śváyat ǀ mā́ ǀ naḥ ǀ ā́ ǀ gan ǀ
    ajakā-vám ǀ duḥ-dṛ́śīkam ǀ tiráḥ ǀ dadhe ǀ mā́ ǀ mā́m ǀ pádyena ǀ rápasā ǀ vidat ǀ tsáruḥ ǁ

    ā ǀ mām ǀ mitrāvaruṇā ǀ iha ǀ rakṣatam ǀ kulāyayat ǀ vi-śvayat ǀ mā ǀ naḥ ǀ ā ǀ gan ǀ
    ajakā-vam ǀ duḥ-dṛśīkam ǀ tiraḥ ǀ dadhe ǀ mā ǀ mām ǀ padyena ǀ rapasā ǀ vidat ǀ tsaruḥ ǁ

    7.50.1 Aṣṭaka 5.4.17.1Anuvāka 7.3.123

  2. Ṛk 2

    यद्वि॒जाम॒न्परु॑षि॒ वंद॑नं॒ भुव॑दष्ठी॒वंतौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् ।
    अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥

    यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि कुल्फौ च देहत् |
    अग्निष् टच् छोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा विदत् त्सरुः ||

    yádvijā́manpáruṣi vándanam bhúvadaṣṭhīvántau pári kulpháu ca déhat ǀ
    agníṣṭácchócannápa bādhatāmitó mā́ mā́m pádyena rápasā vidattsáruḥ ǁ

    yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat |
    agniṣ ṭac chocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ ||

    यत् । वि॒ऽजाम॑न् । परु॑षि । वन्द॑नम् । भुव॑त् । अ॒ष्ठी॒वन्तौ॑ । परि॑ । कु॒ल्फौ । च॒ । देह॑त् ।
    अ॒ग्निः । तत् । शोच॑न् । अप॑ । बा॒ध॒ता॒म् । इ॒तः । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥

    यत् । विऽजामन् । परुषि । वन्दनम् । भुवत् । अष्ठीवन्तौ । परि । कुल्फौ । च । देहत् ।
    अग्निः । तत् । शोचन् । अप । बाधताम् । इतः । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥

    yát ǀ vi-jā́man ǀ páruṣi ǀ vándanam ǀ bhúvat ǀ aṣṭhīvántau ǀ pári ǀ kulpháu ǀ ca ǀ déhat ǀ
    agníḥ ǀ tát ǀ śócan ǀ ápa ǀ bādhatām ǀ itáḥ ǀ mā́ ǀ mā́m ǀ pádyena ǀ rápasā ǀ vidat ǀ tsáruḥ ǁ

    yat ǀ vi-jāman ǀ paruṣi ǀ vandanam ǀ bhuvat ǀ aṣṭhīvantau ǀ pari ǀ kulphau ǀ ca ǀ dehat ǀ
    agniḥ ǀ tat ǀ śocan ǀ apa ǀ bādhatām ǀ itaḥ ǀ mā ǀ mām ǀ padyena ǀ rapasā ǀ vidat ǀ tsaruḥ ǁ

    7.50.2 Aṣṭaka 5.4.17.2Anuvāka 7.3.124

  3. Ṛk 3

    यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षं ।
    विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वंतु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥

    यच् छल्मलौ भवति यन् नदीषु यद् ओषधीभ्यः परि जायते विषम् |
    विश्वे देवा निर् इतस् तत् सुवन्तु मा माम् पद्येन रपसा विदत् त्सरुः ||

    yácchalmaláu bhávati yánnadī́ṣu yádóṣadhībhyaḥ pári jā́yate viṣám ǀ
    víśve devā́ níritástátsuvantu mā́ mā́m pádyena rápasā vidattsáruḥ ǁ

    yac chalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam |
    viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ ||

    यत् । श॒ल्म॒लौ । भव॑ति । यत् । न॒दीषु॑ । यत् । ओष॑धीभ्यः । परि॑ । जाय॑ते । वि॒षम् ।
    विश्वे॑ । दे॒वाः । निः । इ॒तः । तत् । सु॒व॒न्तु॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥

    यत् । शल्मलौ । भवति । यत् । नदीषु । यत् । ओषधीभ्यः । परि । जायते । विषम् ।
    विश्वे । देवाः । निः । इतः । तत् । सुवन्तु । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥

    yát ǀ śalmaláu ǀ bhávati ǀ yát ǀ nadī́ṣu ǀ yát ǀ óṣadhībhyaḥ ǀ pári ǀ jā́yate ǀ viṣám ǀ
    víśve ǀ devā́ḥ ǀ níḥ ǀ itáḥ ǀ tát ǀ suvantu ǀ mā́ ǀ mā́m ǀ pádyena ǀ rápasā ǀ vidat ǀ tsáruḥ ǁ

    yat ǀ śalmalau ǀ bhavati ǀ yat ǀ nadīṣu ǀ yat ǀ oṣadhībhyaḥ ǀ pari ǀ jāyate ǀ viṣam ǀ
    viśve ǀ devāḥ ǀ niḥ ǀ itaḥ ǀ tat ǀ suvantu ǀ mā ǀ mām ǀ padyena ǀ rapasā ǀ vidat ǀ tsaruḥ ǁ

    7.50.3 Aṣṭaka 5.4.17.3Anuvāka 7.3.125

  4. Ṛk 4

    याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः ।
    ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वंतु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वंतु ॥

    याः प्रवतो निवत उद्वत उदन्वतीर् अनुदकाश् च याः |
    ता अस्मभ्यम् पयसा पिन्वमानाः शिवा देवीर् अशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ||

    yā́ḥ praváto niváta udváta udanvátīranudakā́śca yā́ḥ ǀ
    tā́ asmábhyam páyasā pínvamānāḥ śivā́ devī́raśipadā́ bhavantu sárvā nadyo aśimidā́ bhavantu ǁ

    yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ |
    tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu ||

    याः । प्र॒ऽवतः॑ । नि॒ऽवतः॑ । उ॒त्ऽवतः॑ । उ॒द॒न्ऽवतीः॑ । अ॒नु॒द॒काः । च॒ । याः ।
    ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । शि॒वाः । दे॒वीः । अ॒शि॒प॒दाः । भ॒व॒न्तु॒ । सर्वाः॑ । न॒द्यः॑ । अ॒शि॒मि॒दाः । भ॒व॒न्तु॒ ॥

    याः । प्रऽवतः । निऽवतः । उत्ऽवतः । उदन्ऽवतीः । अनुदकाः । च । याः ।
    ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । शिवाः । देवीः । अशिपदाः । भवन्तु । सर्वाः । नद्यः । अशिमिदाः । भवन्तु ॥

    yā́ḥ ǀ pra-vátaḥ ǀ ni-vátaḥ ǀ ut-vátaḥ ǀ udan-vátīḥ ǀ anudakā́ḥ ǀ ca ǀ yā́ḥ ǀ
    tā́ḥ ǀ asmábhyam ǀ páyasā ǀ pínvamānāḥ ǀ śivā́ḥ ǀ devī́ḥ ǀ aśipadā́ḥ ǀ bhavantu ǀ sárvāḥ ǀ nadyáḥ ǀ aśimidā́ḥ ǀ bhavantu ǁ

    yāḥ ǀ pra-vataḥ ǀ ni-vataḥ ǀ ut-vataḥ ǀ udan-vatīḥ ǀ anudakāḥ ǀ ca ǀ yāḥ ǀ
    tāḥ ǀ asmabhyam ǀ payasā ǀ pinvamānāḥ ǀ śivāḥ ǀ devīḥ ǀ aśipadāḥ ǀ bhavantu ǀ sarvāḥ ǀ nadyaḥ ǀ aśimidāḥ ǀ bhavantu ǁ

    7.50.4 Aṣṭaka 5.4.17.4Anuvāka 7.3.126

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.50 · Mitra, Varuṇa · Agni · Viśvedevās · Nadyaḥ

Interpretations

Ralph T. H. Griffith

Ṛk 1

O MITRA-VARUNA, guard and protect me here: let not that come to me which nests within and swells. I drive afar the scorpion hateful to the sight: let not the winding worm touch me and wound my foot.

Ṛk 2

Eruption that appears upon the twofold joints, and that which overspreads the ankles and the knees, May the refulgent Agni banish far away let not the winding worm touch me and wound my foot.

Ṛk 3

The poison that is formed upon the Salmali, that which is found in streams, that which the plants produce, All this may all the Gods banish and drive away: let not the winding worm touch me and wound my foot.