Ṛk 7.50.2
Saṃhitā
यद्वि॒जाम॒न्परु॑षि॒ वंद॑नं॒ भुव॑दष्ठी॒वंतौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् ।
अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥
यद् विजामन् परुषि वन्दनम् भुवद् अष्ठीवन्तौ परि कुल्फौ च देहत् |
अग्निष् टच् छोचन्न् अप बाधताम् इतो मा माम् पद्येन रपसा विदत् त्सरुः ||
yádvijā́manpáruṣi vándanam bhúvadaṣṭhīvántau pári kulpháu ca déhat ǀ
agníṣṭácchócannápa bādhatāmitó mā́ mā́m pádyena rápasā vidattsáruḥ ǁ
yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat |
agniṣ ṭac chocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ ||
Padapāṭha
यत् । वि॒ऽजाम॑न् । परु॑षि । वन्द॑नम् । भुव॑त् । अ॒ष्ठी॒वन्तौ॑ । परि॑ । कु॒ल्फौ । च॒ । देह॑त् ।
अ॒ग्निः । तत् । शोच॑न् । अप॑ । बा॒ध॒ता॒म् । इ॒तः । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥
यत् । विऽजामन् । परुषि । वन्दनम् । भुवत् । अष्ठीवन्तौ । परि । कुल्फौ । च । देहत् ।
अग्निः । तत् । शोचन् । अप । बाधताम् । इतः । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥
yát ǀ vi-jā́man ǀ páruṣi ǀ vándanam ǀ bhúvat ǀ aṣṭhīvántau ǀ pári ǀ kulpháu ǀ ca ǀ déhat ǀ
agníḥ ǀ tát ǀ śócan ǀ ápa ǀ bādhatām ǀ itáḥ ǀ mā́ ǀ mā́m ǀ pádyena ǀ rápasā ǀ vidat ǀ tsáruḥ ǁ
yat ǀ vi-jāman ǀ paruṣi ǀ vandanam ǀ bhuvat ǀ aṣṭhīvantau ǀ pari ǀ kulphau ǀ ca ǀ dehat ǀ
agniḥ ǀ tat ǀ śocan ǀ apa ǀ bādhatām ǀ itaḥ ǀ mā ǀ mām ǀ padyena ǀ rapasā ǀ vidat ǀ tsaruḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.050.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.17.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.124
- Devatā देवता
- 1: Mitra, Varuṇa; 2: Agni; 3: Viśvedevās; 4: Nadyaḥ
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Atijagatī Or Śakvarī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.