Sūkta 5
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 3, 8, 9); virāṭtrisṭup (1, 4); svarāṭpaṅkti (5, 7); paṅktiḥ (6)
2nd set of styles triṣṭubh
-
Ṛk 1
प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः ।
यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः |
यो विश्वेषाम् अमृतानाम् उपस्थे वैश्वानरो वावृधे जागृवद्भिः ||prā́gnáye taváse bharadhvam gíram divó aratáye pṛthivyā́ḥ ǀ
yó víśveṣāmamṛ́tānāmupásthe vaiśvānaró vāvṛdhé jāgṛvádbhiḥ ǁprāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ |
yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ ||प्र । अ॒ग्नये॑ । त॒वसे॑ । भ॒र॒ध्व॒म् । गिर॑म् । दि॒वः । अ॒र॒तये॑ । पृ॒थि॒व्याः ।
यः । विश्वे॑षाम् । अ॒मृता॑नाम् । उ॒पऽस्थे॑ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्ऽभिः॑ ॥प्र । अग्नये । तवसे । भरध्वम् । गिरम् । दिवः । अरतये । पृथिव्याः ।
यः । विश्वेषाम् । अमृतानाम् । उपऽस्थे । वैश्वानरः । ववृधे । जागृवत्ऽभिः ॥prá ǀ agnáye ǀ taváse ǀ bharadhvam ǀ gíram ǀ diváḥ ǀ aratáye ǀ pṛthivyā́ḥ ǀ
yáḥ ǀ víśveṣām ǀ amṛ́tānām ǀ upá-sthe ǀ vaiśvānaráḥ ǀ vavṛdhé ǀ jāgṛvát-bhiḥ ǁpra ǀ agnaye ǀ tavase ǀ bharadhvam ǀ giram ǀ divaḥ ǀ arataye ǀ pṛthivyāḥ ǀ
yaḥ ǀ viśveṣām ǀ amṛtānām ǀ upa-sthe ǀ vaiśvānaraḥ ǀ vavṛdhe ǀ jāgṛvat-bhiḥ ǁ7.5.1 Aṣṭaka 5.2.7.1Anuvāka 7.1.57
-
Ṛk 2
पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिंधू॑नां वृष॒भः स्तिया॑नां ।
स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥पृष्टो दिवि धाय्य् अग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् |
स मानुषीर् अभि विशो वि भाति वैश्वानरो वावृधानो वरेण ||pṛṣṭó diví dhā́yyagníḥ pṛthivyā́m netā́ síndhūnām vṛṣabháḥ stíyānām ǀ
sá mā́nuṣīrabhí víśo ví bhāti vaiśvānaró vāvṛdhānó váreṇa ǁpṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām |
sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa ||पृ॒ष्टः । दि॒वि । धायि॑ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।
सः । मानु॑षीः । अ॒भि । विशः॑ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे॑ण ॥पृष्टः । दिवि । धायि । अग्निः । पृथिव्याम् । नेता । सिन्धूनाम् । वृषभः । स्तियानाम् ।
सः । मानुषीः । अभि । विशः । वि । भाति । वैश्वानरः । ववृधानः । वरेण ॥pṛṣṭáḥ ǀ diví ǀ dhā́yi ǀ agníḥ ǀ pṛthivyā́m ǀ netā́ ǀ síndhūnām ǀ vṛṣabháḥ ǀ stíyānām ǀ
sáḥ ǀ mā́nuṣīḥ ǀ abhí ǀ víśaḥ ǀ ví ǀ bhāti ǀ vaiśvānaráḥ ǀ vavṛdhānáḥ ǀ váreṇa ǁpṛṣṭaḥ ǀ divi ǀ dhāyi ǀ agniḥ ǀ pṛthivyām ǀ netā ǀ sindhūnām ǀ vṛṣabhaḥ ǀ stiyānām ǀ
saḥ ǀ mānuṣīḥ ǀ abhi ǀ viśaḥ ǀ vi ǀ bhāti ǀ vaiśvānaraḥ ǀ vavṛdhānaḥ ǀ vareṇa ǁ7.5.2 Aṣṭaka 5.2.7.2Anuvāka 7.1.58
-
Ṛk 3
त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि ।
वैश्वा॑नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥त्वद् भिया विश आयन्न् असिक्नीर् असमना जहतीर् भोजनानि |
वैश्वानर पूरवे शोशुचानः पुरो यद् अग्ने दरयन्न् अदीदेः ||tvádbhiyā́ víśa āyannásiknīrasamanā́ jáhatīrbhójanāni ǀ
váiśvānara pūráve śóśucānaḥ púro yádagne daráyannádīdeḥ ǁtvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni |
vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ ||त्वत् । भि॒या । विशः॑ । आ॒य॒न् । असि॑क्नीः । अ॒स॒म॒नाः । जह॑तीः । भोज॑नानि ।
वैश्वा॑नर । पू॒रवे॑ । शोशु॑चानः । पुरः॑ । यत् । अ॒ग्ने॒ । द॒रय॑न् । अदी॑देः ॥त्वत् । भिया । विशः । आयन् । असिक्नीः । असमनाः । जहतीः । भोजनानि ।
वैश्वानर । पूरवे । शोशुचानः । पुरः । यत् । अग्ने । दरयन् । अदीदेः ॥tvát ǀ bhiyā́ ǀ víśaḥ ǀ āyan ǀ ásiknīḥ ǀ asamanā́ḥ ǀ jáhatīḥ ǀ bhójanāni ǀ
váiśvānara ǀ pūráve ǀ śóśucānaḥ ǀ púraḥ ǀ yát ǀ agne ǀ daráyan ǀ ádīdeḥ ǁtvat ǀ bhiyā ǀ viśaḥ ǀ āyan ǀ asiknīḥ ǀ asamanāḥ ǀ jahatīḥ ǀ bhojanāni ǀ
vaiśvānara ǀ pūrave ǀ śośucānaḥ ǀ puraḥ ǀ yat ǀ agne ǀ darayan ǀ adīdeḥ ǁ7.5.3 Aṣṭaka 5.2.7.3Anuvāka 7.1.59
-
Ṛk 4
तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचंत ।
त्वं भा॒सा रोद॑सी॒ आ त॑तं॒थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥तव त्रिधातु पृथिवी उत द्यौर् वैश्वानर व्रतम् अग्ने सचन्त |
त्वम् भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ||táva tridhā́tu pṛthivī́ utá dyáurváiśvānara vratámagne sacanta ǀ
tvám bhāsā́ ródasī ā́ tatanthā́jasreṇa śocíṣā śóśucānaḥ ǁtava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta |
tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ ||तव॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वी । उ॒त । द्यौः । वैश्वा॑नर । व्र॒तम् । अ॒ग्ने॒ । स॒च॒न्त॒ ।
त्वम् । भा॒सा । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चानः ॥तव । त्रिऽधातु । पृथिवी । उत । द्यौः । वैश्वानर । व्रतम् । अग्ने । सचन्त ।
त्वम् । भासा । रोदसी इति । आ । ततन्थ । अजस्रेण । शोचिषा । शोशुचानः ॥táva ǀ tri-dhā́tu ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǀ váiśvānara ǀ vratám ǀ agne ǀ sacanta ǀ
tvám ǀ bhāsā́ ǀ ródasī íti ǀ ā́ ǀ tatantha ǀ ájasreṇa ǀ śocíṣā ǀ śóśucānaḥ ǁtava ǀ tri-dhātu ǀ pṛthivī ǀ uta ǀ dyauḥ ǀ vaiśvānara ǀ vratam ǀ agne ǀ sacanta ǀ
tvam ǀ bhāsā ǀ rodasī iti ǀ ā ǀ tatantha ǀ ajasreṇa ǀ śociṣā ǀ śośucānaḥ ǁ7.5.4 Aṣṭaka 5.2.7.4Anuvāka 7.1.60
-
Ṛk 5
त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचंते॒ धुन॑यो घृ॒ताचीः॑ ।
पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्नां॑ ॥त्वाम् अग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः |
पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरम् उषसां केतुम् अह्नाम् ||tvā́magne haríto vāvaśānā́ gíraḥ sacante dhúnayo ghṛtā́cīḥ ǀ
pátim kṛṣṭīnā́m rathyám rayīṇā́m vaiśvānarámuṣásām ketúmáhnām ǁtvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ |
patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām ||त्वाम् । अ॒ग्ने॒ । ह॒रितः॑ । वा॒व॒शा॒नाः । गिरः॑ । स॒च॒न्ते॒ । धुन॑यः । घृ॒ताचीः॑ ।
पति॑म् । कृ॒ष्टी॒नाम् । र॒थ्य॑म् । र॒यी॒णाम् । वै॒श्वा॒न॒रम् । उ॒षसा॑म् । के॒तुम् । अह्ना॑म् ॥त्वाम् । अग्ने । हरितः । वावशानाः । गिरः । सचन्ते । धुनयः । घृताचीः ।
पतिम् । कृष्टीनाम् । रथ्यम् । रयीणाम् । वैश्वानरम् । उषसाम् । केतुम् । अह्नाम् ॥tvā́m ǀ agne ǀ harítaḥ ǀ vāvaśānā́ḥ ǀ gíraḥ ǀ sacante ǀ dhúnayaḥ ǀ ghṛtā́cīḥ ǀ
pátim ǀ kṛṣṭīnā́m ǀ rathyám ǀ rayīṇā́m ǀ vaiśvānarám ǀ uṣásām ǀ ketúm ǀ áhnām ǁtvām ǀ agne ǀ haritaḥ ǀ vāvaśānāḥ ǀ giraḥ ǀ sacante ǀ dhunayaḥ ǀ ghṛtācīḥ ǀ
patim ǀ kṛṣṭīnām ǀ rathyam ǀ rayīṇām ǀ vaiśvānaram ǀ uṣasām ǀ ketum ǀ ahnām ǁ7.5.5 Aṣṭaka 5.2.7.5Anuvāka 7.1.61
-
Ṛk 6
त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षंत॑ ।
त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥त्वे असुर्यं वसवो न्य् ऋण्वन् क्रतुं हि ते मित्रमहो जुषन्त |
त्वं दस्यूंर् ओकसो अग्न आज उरु ज्योतिर् जनयन्न् आर्याय ||tvé asuryám vásavo nyṛ́ṇvankrátum hí te mitramaho juṣánta ǀ
tvám dásyūm̐rókaso agna āja urú jyótirjanáyannā́ryāya ǁtve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta |
tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya ||त्वे इति॑ । अ॒सु॒र्य॑म् । वस॑वः । नि । ऋ॒ण्व॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽम॒हः॒ । जु॒षन्त॑ ।
त्वम् । दस्यू॑न् । ओक॑सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः॑ । ज॒नय॑न् । आर्या॑य ॥त्वे इति । असुर्यम् । वसवः । नि । ऋण्वन् । क्रतुम् । हि । ते । मित्रऽमहः । जुषन्त ।
त्वम् । दस्यून् । ओकसः । अग्ने । आजः । उरु । ज्योतिः । जनयन् । आर्याय ॥tvé íti ǀ asuryám ǀ vásavaḥ ǀ ní ǀ ṛṇvan ǀ krátum ǀ hí ǀ te ǀ mitra-mahaḥ ǀ juṣánta ǀ
tvám ǀ dásyūn ǀ ókasaḥ ǀ agne ǀ ājaḥ ǀ urú ǀ jyótiḥ ǀ janáyan ǀ ā́ryāya ǁtve iti ǀ asuryam ǀ vasavaḥ ǀ ni ǀ ṛṇvan ǀ kratum ǀ hi ǀ te ǀ mitra-mahaḥ ǀ juṣanta ǀ
tvam ǀ dasyūn ǀ okasaḥ ǀ agne ǀ ājaḥ ǀ uru ǀ jyotiḥ ǀ janayan ǀ āryāya ǁ7.5.6 Aṣṭaka 5.2.8.1Anuvāka 7.1.62
-
Ṛk 7
स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः ।
त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥स जायमानः परमे व्योमन् वायुर् न पाथः परि पासि सद्यः |
त्वम् भुवना जनयन्न् अभि क्रन्न् अपत्याय जातवेदो दशस्यन् ||sá jā́yamānaḥ paramé vyomanvāyúrná pā́thaḥ pári pāsi sadyáḥ ǀ
tvám bhúvanā janáyannabhí krannápatyāya jātavedo daśasyán ǁsa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ |
tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan ||सः । जाय॑मानः । प॒र॒मे । विऽओ॑मन् । वा॒युः । न । पाथः॑ । परि॑ । पा॒सि॒ । स॒द्यः ।
त्वम् । भुव॑ना । ज॒नय॑न् । अ॒भि । क्र॒न् । अप॑त्याय । जा॒त॒ऽवे॒दः॒ । द॒श॒स्यन् ॥सः । जायमानः । परमे । विऽओमन् । वायुः । न । पाथः । परि । पासि । सद्यः ।
त्वम् । भुवना । जनयन् । अभि । क्रन् । अपत्याय । जातऽवेदः । दशस्यन् ॥sáḥ ǀ jā́yamānaḥ ǀ paramé ǀ ví-oman ǀ vāyúḥ ǀ ná ǀ pā́thaḥ ǀ pári ǀ pāsi ǀ sadyáḥ ǀ
tvám ǀ bhúvanā ǀ janáyan ǀ abhí ǀ kran ǀ ápatyāya ǀ jāta-vedaḥ ǀ daśasyán ǁsaḥ ǀ jāyamānaḥ ǀ parame ǀ vi-oman ǀ vāyuḥ ǀ na ǀ pāthaḥ ǀ pari ǀ pāsi ǀ sadyaḥ ǀ
tvam ǀ bhuvanā ǀ janayan ǀ abhi ǀ kran ǀ apatyāya ǀ jāta-vedaḥ ǀ daśasyan ǁ7.5.7 Aṣṭaka 5.2.8.2Anuvāka 7.1.63
-
Ṛk 8
ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः ।
यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥ताम् अग्ने अस्मे इषम् एरयस्व वैश्वानर द्युमतीं जातवेदः |
यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ||tā́magne asmé íṣamérayasva váiśvānara dyumátīm jātavedaḥ ǀ
yáyā rā́dhaḥ pínvasi viśvavāra pṛthú śrávo dāśúṣe mártyāya ǁtām agne asme iṣam erayasva vaiśvānara dyumatīṃ jātavedaḥ |
yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya ||ताम् । अ॒ग्ने॒ । अ॒स्मे इति॑ । इष॑म् । आ । ई॒र॒य॒स्व॒ । वैश्वा॑नर । द्यु॒ऽमती॑म् । जा॒त॒ऽवे॒दः॒ ।
यया॑ । राधः॑ । पिन्व॑सि । वि॒श्व॒ऽवा॒र॒ । पृ॒थु । श्रवः॑ । दा॒शुषे॑ । मर्त्या॑य ॥ताम् । अग्ने । अस्मे इति । इषम् । आ । ईरयस्व । वैश्वानर । द्युऽमतीम् । जातऽवेदः ।
यया । राधः । पिन्वसि । विश्वऽवार । पृथु । श्रवः । दाशुषे । मर्त्याय ॥tā́m ǀ agne ǀ asmé íti ǀ íṣam ǀ ā́ ǀ īrayasva ǀ váiśvānara ǀ dyu-mátīm ǀ jāta-vedaḥ ǀ
yáyā ǀ rā́dhaḥ ǀ pínvasi ǀ viśva-vāra ǀ pṛthú ǀ śrávaḥ ǀ dāśúṣe ǀ mártyāya ǁtām ǀ agne ǀ asme iti ǀ iṣam ǀ ā ǀ īrayasva ǀ vaiśvānara ǀ dyu-matīm ǀ jāta-vedaḥ ǀ
yayā ǀ rādhaḥ ǀ pinvasi ǀ viśva-vāra ǀ pṛthu ǀ śravaḥ ǀ dāśuṣe ǀ martyāya ǁ7.5.8 Aṣṭaka 5.2.8.3Anuvāka 7.1.64
-
Ṛk 9
तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व ।
वैश्वा॑नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः॑ ॥तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व |
वैश्वानर महि नः शर्म यच्छ रुद्रेभिर् अग्ने वसुभिः सजोषाः ||tám no agne maghávadbhyaḥ purukṣúm rayím ní vā́jam śrútyam yuvasva ǀ
váiśvānara máhi naḥ śárma yaccha rudrébhiragne vásubhiḥ sajóṣāḥ ǁtaṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva |
vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ ||तम् । नः॒ । अ॒ग्ने॒ । म॒घव॑त्ऽभ्यः । पु॒रु॒ऽक्षुम् । र॒यिम् । नि । वाज॑म् । श्रुत्य॑म् । यु॒व॒स्व॒ ।
वैश्वा॑नर । महि॑ । नः॒ । शर्म॑ । य॒च्छ॒ । रु॒द्रेभिः॑ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ॥तम् । नः । अग्ने । मघवत्ऽभ्यः । पुरुऽक्षुम् । रयिम् । नि । वाजम् । श्रुत्यम् । युवस्व ।
वैश्वानर । महि । नः । शर्म । यच्छ । रुद्रेभिः । अग्ने । वसुऽभिः । सऽजोषाः ॥tám ǀ naḥ ǀ agne ǀ maghávat-bhyaḥ ǀ puru-kṣúm ǀ rayím ǀ ní ǀ vā́jam ǀ śrútyam ǀ yuvasva ǀ
váiśvānara ǀ máhi ǀ naḥ ǀ śárma ǀ yaccha ǀ rudrébhiḥ ǀ agne ǀ vásu-bhiḥ ǀ sa-jóṣāḥ ǁtam ǀ naḥ ǀ agne ǀ maghavat-bhyaḥ ǀ puru-kṣum ǀ rayim ǀ ni ǀ vājam ǀ śrutyam ǀ yuvasva ǀ
vaiśvānara ǀ mahi ǀ naḥ ǀ śarma ǀ yaccha ǀ rudrebhiḥ ǀ agne ǀ vasu-bhiḥ ǀ sa-joṣāḥ ǁ7.5.9 Aṣṭaka 5.2.8.4Anuvāka 7.1.65
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.