Ṛgveda · Maṇḍala 7

Sūkta 69

Aśvins · Vasiṣṭha Maitrāvaruṇi · 8 ṛks

Link
Devatā देवता
Aśvins
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 4, 6, 8); triṣṭup (2, 7); ārṣīsvarāḍtriṣṭup (3); virāṭtrisṭup (5)

2nd set of styles triṣṭubh

  1. Ṛk 1

    आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ ।
    घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥

    आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः |
    घृतवर्तनिः पविभी रुचान इषां वोऌहा नृपतिर् वाजिनीवान् ||

    ā́ vām rátho ródasī badbadhānó hiraṇyáyo vṛ́ṣabhiryātváśvaiḥ ǀ
    ghṛtávartaniḥ pavíbhī rucāná iṣā́m voḷhā́ nṛpátirvājínīvān ǁ

    ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ |
    ghṛtavartaniḥ pavibhī rucāna iṣāṃ voḷhā nṛpatir vājinīvān ||

    आ । वा॒म् । रथः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धा॒नः । हि॒र॒ण्ययः॑ । वृष॑ऽभिः । या॒तु॒ । अश्वैः॑ ।
    घृ॒तऽव॑र्तनिः । प॒विऽभिः॑ । रु॒चा॒नः । इ॒षाम् । वो॒ळ्हा । नृ॒ऽपतिः॑ । वा॒जिनी॑ऽवान् ॥

    आ । वाम् । रथः । रोदसी इति । बद्बधानः । हिरण्ययः । वृषऽभिः । यातु । अश्वैः ।
    घृतऽवर्तनिः । पविऽभिः । रुचानः । इषाम् । वोळ्हा । नृऽपतिः । वाजिनीऽवान् ॥

    ā́ ǀ vām ǀ ráthaḥ ǀ ródasī íti ǀ badbadhānáḥ ǀ hiraṇyáyaḥ ǀ vṛ́ṣa-bhiḥ ǀ yātu ǀ áśvaiḥ ǀ
    ghṛtá-vartaniḥ ǀ paví-bhiḥ ǀ rucānáḥ ǀ iṣā́m ǀ voḷhā́ ǀ nṛ-pátiḥ ǀ vājínī-vān ǁ

    ā ǀ vām ǀ rathaḥ ǀ rodasī iti ǀ badbadhānaḥ ǀ hiraṇyayaḥ ǀ vṛṣa-bhiḥ ǀ yātu ǀ aśvaiḥ ǀ
    ghṛta-vartaniḥ ǀ pavi-bhiḥ ǀ rucānaḥ ǀ iṣām ǀ voḷhā ǀ nṛ-patiḥ ǀ vājinī-vān ǁ

    7.69.1 Aṣṭaka 5.5.16.1Anuvāka 7.4.130

  2. Ṛk 2

    स प॑प्रथा॒नो अ॒भि पंच॒ भूमा॑ त्रिवंधु॒रो मन॒सा या॑तु यु॒क्तः ।
    विशो॒ येन॒ गच्छ॑थो देव॒यंतीः॒ कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥

    स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः |
    विशो येन गच्छथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना ||

    sá paprathānó abhí páñca bhū́mā trivandhuró mánasā́ yātu yuktáḥ ǀ
    víśo yéna gácchatho devayántīḥ kútrā cidyā́mamaśvinā dádhānā ǁ

    sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ |
    viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā ||

    सः । प॒प्र॒था॒नः । अ॒भि । पञ्च॑ । भूम॑ । त्रि॒ऽव॒न्धु॒रः । मन॑सा । आ । या॒तु॒ । यु॒क्तः ।
    विशः॑ । येन॑ । गच्छ॑थः । दे॒व॒ऽयन्तीः॑ । कुत्र॑ । चि॒त् । याम॑म् । अ॒श्वि॒ना॒ । दधा॑ना ॥

    सः । पप्रथानः । अभि । पञ्च । भूम । त्रिऽवन्धुरः । मनसा । आ । यातु । युक्तः ।
    विशः । येन । गच्छथः । देवऽयन्तीः । कुत्र । चित् । यामम् । अश्विना । दधाना ॥

    sáḥ ǀ paprathānáḥ ǀ abhí ǀ páñca ǀ bhū́ma ǀ tri-vandhuráḥ ǀ mánasā ǀ ā́ ǀ yātu ǀ yuktáḥ ǀ
    víśaḥ ǀ yéna ǀ gácchathaḥ ǀ deva-yántīḥ ǀ kútra ǀ cit ǀ yā́mam ǀ aśvinā ǀ dádhānā ǁ

    saḥ ǀ paprathānaḥ ǀ abhi ǀ pañca ǀ bhūma ǀ tri-vandhuraḥ ǀ manasā ǀ ā ǀ yātu ǀ yuktaḥ ǀ
    viśaḥ ǀ yena ǀ gacchathaḥ ǀ deva-yantīḥ ǀ kutra ǀ cit ǀ yāmam ǀ aśvinā ǀ dadhānā ǁ

    7.69.2 Aṣṭaka 5.5.16.2Anuvāka 7.4.131

  3. Ṛk 3

    स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मंतं पिबाथः ।
    वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽंतां॑दि॒वो बा॑धते वर्त॒निभ्यां॑ ॥

    स्वश्वा यशसा यातम् अर्वाग् दस्रा निधिम् मधुमन्तम् पिबाथः |
    वि वां रथो वध्वा यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् ||

    sváśvā yaśásā́ yātamarvā́gdásrā nidhím mádhumantam pibāthaḥ ǀ
    ví vām rátho vadhvā́ yā́damānó’ntāndivó bādhate vartaníbhyām ǁ

    svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ |
    vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām ||

    सु॒ऽअश्वा॑ । य॒शसा॑ । आ । या॒त॒म् । अ॒र्वाक् । दस्रा॑ । नि॒ऽधिम् । मधु॑ऽमन्तम् । पि॒बा॒थः॒ ।
    वि । वा॒म् । रथः॑ । व॒ध्वा॑ । याद॑मानः । अन्ता॑न् । दि॒वः । बा॒ध॒ते॒ । व॒र्त॒निऽभ्या॑म् ॥

    सुऽअश्वा । यशसा । आ । यातम् । अर्वाक् । दस्रा । निऽधिम् । मधुऽमन्तम् । पिबाथः ।
    वि । वाम् । रथः । वध्वा । यादमानः । अन्तान् । दिवः । बाधते । वर्तनिऽभ्याम् ॥

    su-áśvā ǀ yaśásā ǀ ā́ ǀ yātam ǀ arvā́k ǀ dásrā ǀ ni-dhím ǀ mádhu-mantam ǀ pibāthaḥ ǀ
    ví ǀ vām ǀ ráthaḥ ǀ vadhvā́ ǀ yā́damānaḥ ǀ ántān ǀ diváḥ ǀ bādhate ǀ vartaní-bhyām ǁ

    su-aśvā ǀ yaśasā ǀ ā ǀ yātam ǀ arvāk ǀ dasrā ǀ ni-dhim ǀ madhu-mantam ǀ pibāthaḥ ǀ
    vi ǀ vām ǀ rathaḥ ǀ vadhvā ǀ yādamānaḥ ǀ antān ǀ divaḥ ǀ bādhate ǀ vartani-bhyām ǁ

    7.69.3 Aṣṭaka 5.5.16.3Anuvāka 7.4.132

  4. Ṛk 4

    यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायां ।
    यद्दे॑व॒यंत॒मव॑थः॒ शची॑भिः॒ परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥

    युवोः श्रियम् परि योषावृणीत सूरो दुहिता परितक्म्यायाम् |
    यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां वयो गात् ||

    yuvóḥ śríyam pári yóṣāvṛṇīta sū́ro duhitā́ páritakmyāyām ǀ
    yáddevayántamávathaḥ śácībhiḥ pári ghraṃsámománā vām váyo gāt ǁ

    yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām |
    yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt ||

    यु॒वोः । श्रिय॑म् । परि॑ । योषा॑ । अ॒वृ॒णी॒त॒ । सूरः॑ । दु॒हि॒ता । परि॑ऽतक्म्यायाम् ।
    यत् । दे॒व॒ऽयन्त॑म् । अव॑थः । शची॑भिः । परि॑ । घ्रं॒सम् । ओ॒मना॑ । वा॒म् । वयः॑ । गा॒त् ॥

    युवोः । श्रियम् । परि । योषा । अवृणीत । सूरः । दुहिता । परिऽतक्म्यायाम् ।
    यत् । देवऽयन्तम् । अवथः । शचीभिः । परि । घ्रंसम् । ओमना । वाम् । वयः । गात् ॥

    yuvóḥ ǀ śríyam ǀ pári ǀ yóṣā ǀ avṛṇīta ǀ sū́raḥ ǀ duhitā́ ǀ pári-takmyāyām ǀ
    yát ǀ deva-yántam ǀ ávathaḥ ǀ śácībhiḥ ǀ pári ǀ ghraṃsám ǀ ománā ǀ vām ǀ váyaḥ ǀ gāt ǁ

    yuvoḥ ǀ śriyam ǀ pari ǀ yoṣā ǀ avṛṇīta ǀ sūraḥ ǀ duhitā ǀ pari-takmyāyām ǀ
    yat ǀ deva-yantam ǀ avathaḥ ǀ śacībhiḥ ǀ pari ǀ ghraṃsam ǀ omanā ǀ vām ǀ vayaḥ ǀ gāt ǁ

    7.69.4 Aṣṭaka 5.5.16.4Anuvāka 7.4.133

  5. Ṛk 5

    यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः ।
    तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥

    यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः |
    तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं यज्ञे अस्मिन् ||

    yó ha syá vām rathirā vásta usrā́ rátho yujānáḥ pariyā́ti vartíḥ ǀ
    téna naḥ śám yóruṣáso vyúṣṭau nyáśvinā vahatam yajñé asmín ǁ

    yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ |
    tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin ||

    यः । ह॒ । स्यः । वा॒म् । र॒थि॒रा॒ । वस्ते॑ । उ॒स्राः । रथः॑ । यु॒जा॒नः । प॒रि॒ऽयाति॑ । व॒र्तिः ।
    तेन॑ । नः॒ । शम् । योः । उ॒षसः॑ । विऽउ॑ष्टौ । नि । अ॒श्वि॒ना॒ । व॒ह॒त॒म् । य॒ज्ञे । अ॒स्मिन् ॥

    यः । ह । स्यः । वाम् । रथिरा । वस्ते । उस्राः । रथः । युजानः । परिऽयाति । वर्तिः ।
    तेन । नः । शम् । योः । उषसः । विऽउष्टौ । नि । अश्विना । वहतम् । यज्ञे । अस्मिन् ॥

    yáḥ ǀ ha ǀ syáḥ ǀ vām ǀ rathirā ǀ váste ǀ usrā́ḥ ǀ ráthaḥ ǀ yujānáḥ ǀ pari-yā́ti ǀ vartíḥ ǀ
    téna ǀ naḥ ǀ śám ǀ yóḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ ní ǀ aśvinā ǀ vahatam ǀ yajñé ǀ asmín ǁ

    yaḥ ǀ ha ǀ syaḥ ǀ vām ǀ rathirā ǀ vaste ǀ usrāḥ ǀ rathaḥ ǀ yujānaḥ ǀ pari-yāti ǀ vartiḥ ǀ
    tena ǀ naḥ ǀ śam ǀ yoḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ ni ǀ aśvinā ǀ vahatam ǀ yajñe ǀ asmin ǁ

    7.69.5 Aṣṭaka 5.5.16.5Anuvāka 7.4.134

  6. Ṛk 6

    नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातं ।
    पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हवं॑ते॒ मा वा॑म॒न्ये नि य॑मंदेव॒यंतः॑ ॥

    नरा गौरेव विद्युतं तृषाणास्माकम् अद्य सवनोप यातम् |
    पुरुत्रा हि वाम् मतिभिर् हवन्ते मा वाम् अन्ये नि यमन् देवयन्तः ||

    nárā gauréva vidyútam tṛṣāṇā́smā́kamadyá sávanópa yātam ǀ
    purutrā́ hí vām matíbhirhávante mā́ vāmanyé ní yamandevayántaḥ ǁ

    narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam |
    purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ ||

    नरा॑ । गौ॒राऽइ॑व । वि॒ऽद्युत॑म् । तृ॒षा॒णा । अ॒स्माक॑म् । अ॒द्य । सव॑ना । उप॑ । या॒त॒म् ।
    पु॒रु॒ऽत्रा । हि । वा॒म् । म॒तिऽभिः॑ । हव॑न्ते । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ ॥

    नरा । गौराऽइव । विऽद्युतम् । तृषाणा । अस्माकम् । अद्य । सवना । उप । यातम् ।
    पुरुऽत्रा । हि । वाम् । मतिऽभिः । हवन्ते । मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः ॥

    nárā ǀ gaurā́-iva ǀ vi-dyútam ǀ tṛṣāṇā́ ǀ asmā́kam ǀ adyá ǀ sávanā ǀ úpa ǀ yātam ǀ
    puru-trā́ ǀ hí ǀ vām ǀ matí-bhiḥ ǀ hávante ǀ mā́ ǀ vām ǀ anyé ǀ ní ǀ yaman ǀ deva-yántaḥ ǁ

    narā ǀ gaurā-iva ǀ vi-dyutam ǀ tṛṣāṇā ǀ asmākam ǀ adya ǀ savanā ǀ upa ǀ yātam ǀ
    puru-trā ǀ hi ǀ vām ǀ mati-bhiḥ ǀ havante ǀ mā ǀ vām ǀ anye ǀ ni ǀ yaman ǀ deva-yantaḥ ǁ

    7.69.6 Aṣṭaka 5.5.16.6Anuvāka 7.4.135

  7. Ṛk 7

    यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः ।
    प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रयं॑ता ॥

    युवम् भुज्युम् अवविद्धं समुद्र उद् ऊहथुर् अर्णसो अस्रिधानैः |
    पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना पारयन्ता ||

    yuvám bhujyúmávaviddham samudrá údūhathurárṇaso ásridhānaiḥ ǀ
    patatríbhiraśramáiravyathíbhirdaṃsánābhiraśvinā pāráyantā ǁ

    yuvam bhujyum avaviddhaṃ samudra ud ūhathur arṇaso asridhānaiḥ |
    patatribhir aśramair avyathibhir daṃsanābhir aśvinā pārayantā ||

    यु॒वम् । भु॒ज्युम् । अव॑ऽविद्धम् । स॒मु॒द्रे । उत् । ऊ॒ह॒थुः॒ । अर्ण॑सः । अस्रि॑धानैः ।
    प॒त॒त्रिऽभिः॑ । अ॒श्र॒मैः । अ॒व्य॒थिऽभिः॑ । दं॒सना॑भिः । अ॒श्वि॒ना॒ । पा॒रय॑न्ता ॥

    युवम् । भुज्युम् । अवऽविद्धम् । समुद्रे । उत् । ऊहथुः । अर्णसः । अस्रिधानैः ।
    पतत्रिऽभिः । अश्रमैः । अव्यथिऽभिः । दंसनाभिः । अश्विना । पारयन्ता ॥

    yuvám ǀ bhujyúm ǀ áva-viddham ǀ samudré ǀ út ǀ ūhathuḥ ǀ árṇasaḥ ǀ ásridhānaiḥ ǀ
    patatrí-bhiḥ ǀ aśramáiḥ ǀ avyathí-bhiḥ ǀ daṃsánābhiḥ ǀ aśvinā ǀ pāráyantā ǁ

    yuvam ǀ bhujyum ǀ ava-viddham ǀ samudre ǀ ut ǀ ūhathuḥ ǀ arṇasaḥ ǀ asridhānaiḥ ǀ
    patatri-bhiḥ ǀ aśramaiḥ ǀ avyathi-bhiḥ ǀ daṃsanābhiḥ ǀ aśvinā ǀ pārayantā ǁ

    7.69.7 Aṣṭaka 5.5.16.7Anuvāka 7.4.136

  8. Ṛk 8

    नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।
    ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    नू मे हवम् आ शृणुतं युवाना यासिष्टं वर्तिर् अश्विनाव् इरावत् |
    धत्तं रत्नानि जरतं च सूरीन् यूयम् पात स्वस्तिभिः सदा नः ||

    nū́ me hávamā́ śṛṇutam yuvānā yāsiṣṭám vartíraśvināvírāvat ǀ
    dhattám rátnāni járatam ca sūrī́nyūyám pāta svastíbhiḥ sádā naḥ ǁ

    nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat |
    dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ ||

    नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ।
    ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

    नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इराऽवत् ।
    धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

    nú ǀ me ǀ hávam ǀ ā́ ǀ śṛṇutam ǀ yuvānā ǀ yāsiṣṭám ǀ vartíḥ ǀ aśvinau ǀ írā-vat ǀ
    dhattám ǀ rátnāni ǀ járatam ǀ ca ǀ sūrī́n ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

    nu ǀ me ǀ havam ǀ ā ǀ śṛṇutam ǀ yuvānā ǀ yāsiṣṭam ǀ vartiḥ ǀ aśvinau ǀ irā-vat ǀ
    dhattam ǀ ratnāni ǀ jaratam ǀ ca ǀ sūrīn ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

    7.69.8 Aṣṭaka 5.5.16.8Anuvāka 7.4.137

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.69 · Aśvins

Interpretations

Ralph T. H. Griffith

Ṛk 1

MAY your gold chariot, drawn by vigorous horses, come to us, blocking up the earth and heaven, Bright with its fellies while its way drops fatness, food-laden, rich in coursers, man's protector.

Ṛk 2

Let it approach, yoked by thewill, three-seated, extending far and wide o’er fivefold beings, Whereon ye visit God-adoring races, bending your course whither ye will, O Aśvins.

Ṛk 3

Renowned, with noble horses, come ye hither: drink, Wondrous Pair, the cup that holds sweet juices. Your car whereon your Spouse is wont to travel marks with its track the farthest ends of heaven.

Ṛk 4

When night was turning to the grey of morning the Maiden, Sūrya's Daughter, chose your splendour. When with your power and might ye aid the pious he comes through heat to life by your assistance.

Ṛk 5

O Chariot-borne, this car of yours invested with rays of light comes harnessed to our dwelling. Herewith, O Aśvins, while the dawn is breaking, to this our sacrifice bring peace and blessing.

Ṛk 6

Like the wild cattle thirsty for the lightning, Heroes, come nigh this day to our libations. Men call on you with hymns in many places, but let not other worshippers detain you.

Ṛk 7

Bhujyu, abandoned in the midst of ocean, ye raised from out the water with your horses, Uninjured, winged, flagging not, undaunted, with deeds of wonder saving him, O Aśvins.