Sūkta 98
- Devatā देवता
- 1-6: Indra; 7: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2, 6, 7); triṣṭup (4, 5); virāṭtrisṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नां ।
गौ॒राद्वेदी॑याँ अव॒पान॒मिंद्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥अध्वर्यवो ऽरुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् |
गौराद् वेदीयां अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इच्छन् ||ádhvaryavo’ruṇám dugdhámaṃśúm juhótana vṛṣabhā́ya kṣitīnā́m ǀ
gaurā́dvédīyām̐ avapā́namíndro viśvā́hédyāti sutásomamicchán ǁadhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām |
gaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam icchan ||अध्व॑र्यवः । अ॒रु॒णम् । दु॒ग्धम् । अं॒शुम् । जु॒होत॑न । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ।
गौ॒रात् । वेदी॑यान् । अ॒व॒ऽपान॑म् । इन्द्रः॑ । वि॒श्वाहा॑ । इत् । या॒ति॒ । सु॒तऽसो॑मम् । इ॒च्छन् ॥अध्वर्यवः । अरुणम् । दुग्धम् । अंशुम् । जुहोतन । वृषभाय । क्षितीनाम् ।
गौरात् । वेदीयान् । अवऽपानम् । इन्द्रः । विश्वाहा । इत् । याति । सुतऽसोमम् । इच्छन् ॥ádhvaryavaḥ ǀ aruṇám ǀ dugdhám ǀ aṃśúm ǀ juhótana ǀ vṛṣabhā́ya ǀ kṣitīnā́m ǀ
gaurā́t ǀ védīyān ǀ ava-pā́nam ǀ índraḥ ǀ viśvā́hā ǀ ít ǀ yāti ǀ sutá-somam ǀ icchán ǁadhvaryavaḥ ǀ aruṇam ǀ dugdham ǀ aṃśum ǀ juhotana ǀ vṛṣabhāya ǀ kṣitīnām ǀ
gaurāt ǀ vedīyān ǀ ava-pānam ǀ indraḥ ǀ viśvāhā ǀ it ǀ yāti ǀ suta-somam ǀ icchan ǁ7.98.1 Aṣṭaka 5.6.23.1Anuvāka 7.6.62
-
Ṛk 2
यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि ।
उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्निं॑द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य वक्षि |
उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ||yáddadhiṣé pradívi cā́rvánnam divédive pītímídasya vakṣi ǀ
utá hṛdótá mánasā juṣāṇá uśánnindra prásthitānpāhi sómān ǁyad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi |
uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān ||यत् । द॒धि॒षे । प्र॒ऽदिवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒क्षि॒ ।
उ॒त । हृ॒दा । उ॒त । मन॑सा । जु॒षा॒णः । उ॒शन् । इ॒न्द्र॒ । प्रऽस्थि॑तान् । पा॒हि॒ । सोमा॑न् ॥यत् । दधिषे । प्रऽदिवि । चारु । अन्नम् । दिवेऽदिवे । पीतिम् । इत् । अस्य । वक्षि ।
उत । हृदा । उत । मनसा । जुषाणः । उशन् । इन्द्र । प्रऽस्थितान् । पाहि । सोमान् ॥yát ǀ dadhiṣé ǀ pra-dívi ǀ cā́ru ǀ ánnam ǀ divé-dive ǀ pītím ǀ ít ǀ asya ǀ vakṣi ǀ
utá ǀ hṛdā́ ǀ utá ǀ mánasā ǀ juṣāṇáḥ ǀ uśán ǀ indra ǀ prá-sthitān ǀ pāhi ǀ sómān ǁyat ǀ dadhiṣe ǀ pra-divi ǀ cāru ǀ annam ǀ dive-dive ǀ pītim ǀ it ǀ asya ǀ vakṣi ǀ
uta ǀ hṛdā ǀ uta ǀ manasā ǀ juṣāṇaḥ ǀ uśan ǀ indra ǀ pra-sthitān ǀ pāhi ǀ somān ǁ7.98.2 Aṣṭaka 5.6.23.2Anuvāka 7.6.63
-
Ṛk 3
ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच ।
एंद्र॑ पप्राथो॒र्वं१॒॑तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच |
एन्द्र पप्राथोर्व् अन्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ ||jajñānáḥ sómam sáhase papātha prá te mātā́ mahimā́namuvāca ǀ
éndra paprāthorvántárikṣam yudhā́ devébhyo várivaścakartha ǁjajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca |
endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha ||ज॒ज्ञा॒नः । सोम॑म् । सह॑से । प॒पा॒थ॒ । प्र । ते॒ । मा॒ता । म॒हि॒मान॑म् । उ॒वा॒च॒ ।
आ । इ॒न्द्र॒ । प॒प्रा॒थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । यु॒धा । दे॒वेभ्यः॑ । वरि॑वः । च॒क॒र्थ॒ ॥जज्ञानः । सोमम् । सहसे । पपाथ । प्र । ते । माता । महिमानम् । उवाच ।
आ । इन्द्र । पप्राथ । उरु । अन्तरिक्षम् । युधा । देवेभ्यः । वरिवः । चकर्थ ॥jajñānáḥ ǀ sómam ǀ sáhase ǀ papātha ǀ prá ǀ te ǀ mātā́ ǀ mahimā́nam ǀ uvāca ǀ
ā́ ǀ indra ǀ paprātha ǀ urú ǀ antárikṣam ǀ yudhā́ ǀ devébhyaḥ ǀ várivaḥ ǀ cakartha ǁjajñānaḥ ǀ somam ǀ sahase ǀ papātha ǀ pra ǀ te ǀ mātā ǀ mahimānam ǀ uvāca ǀ
ā ǀ indra ǀ paprātha ǀ uru ǀ antarikṣam ǀ yudhā ǀ devebhyaḥ ǀ varivaḥ ǀ cakartha ǁ7.98.3 Aṣṭaka 5.6.23.3Anuvāka 7.6.64
-
Ṛk 4
यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्त्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान् ।
यद्वा॒ नृभि॒र्वृत॑ इंद्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् |
यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ||yádyodháyā maható mányamānāntsā́kṣāma tā́nbāhúbhiḥ śā́śadānān ǀ
yádvā nṛ́bhirvṛ́ta indrābhiyúdhyāstám tváyājím sauśravasám jayema ǁyad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān |
yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema ||यत् । यो॒धयाः॑ । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुऽभिः॑ । शाश॑दानान् ।
यत् । वा॒ । नृऽभिः॑ । वृतः॑ । इ॒न्द्र॒ । अ॒भि॒ऽयुध्याः॑ । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥यत् । योधयाः । महतः । मन्यमानान् । साक्षाम । तान् । बाहुऽभिः । शाशदानान् ।
यत् । वा । नृऽभिः । वृतः । इन्द्र । अभिऽयुध्याः । तम् । त्वया । आजिम् । सौश्रवसम् । जयेम ॥yát ǀ yodháyāḥ ǀ mahatáḥ ǀ mányamānān ǀ sā́kṣāma ǀ tā́n ǀ bāhú-bhiḥ ǀ śā́śadānān ǀ
yát ǀ vā ǀ nṛ́-bhiḥ ǀ vṛ́taḥ ǀ indra ǀ abhi-yúdhyāḥ ǀ tám ǀ tváyā ǀ ājím ǀ sauśravasám ǀ jayema ǁyat ǀ yodhayāḥ ǀ mahataḥ ǀ manyamānān ǀ sākṣāma ǀ tān ǀ bāhu-bhiḥ ǀ śāśadānān ǀ
yat ǀ vā ǀ nṛ-bhiḥ ǀ vṛtaḥ ǀ indra ǀ abhi-yudhyāḥ ǀ tam ǀ tvayā ǀ ājim ǀ sauśravasam ǀ jayema ǁ7.98.4 Aṣṭaka 5.6.23.4Anuvāka 7.6.65
-
Ṛk 5
प्रेंद्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ ।
य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑लः॒ सोमो॑ अस्य ॥प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार |
यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य ||préndrasya vocam prathamā́ kṛtā́ni prá nū́tanā maghávā yā́ cakā́ra ǀ
yadédádevīrásahiṣṭa māyā́ áthābhavatkévalaḥ sómo asya ǁprendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra |
yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya ||प्र । इन्द्र॑स्य । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ । प्र । नूत॑ना । म॒घऽवा॑ । या । च॒कार॑ ।
य॒दा । इत् । अदे॑वीः । अस॑हिष्ट । मा॒याः । अथ॑ । अ॒भ॒व॒त् । केव॑लः । सोमः॑ । अ॒स्य॒ ॥प्र । इन्द्रस्य । वोचम् । प्रथमा । कृतानि । प्र । नूतना । मघऽवा । या । चकार ।
यदा । इत् । अदेवीः । असहिष्ट । मायाः । अथ । अभवत् । केवलः । सोमः । अस्य ॥prá ǀ índrasya ǀ vocam ǀ prathamā́ ǀ kṛtā́ni ǀ prá ǀ nū́tanā ǀ maghá-vā ǀ yā́ ǀ cakā́ra ǀ
yadā́ ǀ ít ǀ ádevīḥ ǀ ásahiṣṭa ǀ māyā́ḥ ǀ átha ǀ abhavat ǀ kévalaḥ ǀ sómaḥ ǀ asya ǁpra ǀ indrasya ǀ vocam ǀ prathamā ǀ kṛtāni ǀ pra ǀ nūtanā ǀ magha-vā ǀ yā ǀ cakāra ǀ
yadā ǀ it ǀ adevīḥ ǀ asahiṣṭa ǀ māyāḥ ǀ atha ǀ abhavat ǀ kevalaḥ ǀ somaḥ ǀ asya ǁ7.98.5 Aṣṭaka 5.6.23.5Anuvāka 7.6.66
-
Ṛk 6
तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।
गवा॑मसि॒ गोप॑ति॒रेक॑ इंद्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य |
गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ||távedám víśvamabhítaḥ paśavyám yátpáśyasi cákṣasā sū́ryasya ǀ
gávāmasi gópatiréka indra bhakṣīmáhi te práyatasya vásvaḥ ǁtavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya |
gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ ||तव॑ । इ॒दम् । विश्व॑म् । अ॒भितः॑ । प॒श॒व्य॑म् । यत् । पश्य॑सि । चक्ष॑सा । सूर्य॑स्य ।
गवा॑म् । अ॒सि॒ । गोऽप॑तिः । एकः॑ । इ॒न्द्र॒ । भ॒क्षी॒महि॑ । ते॒ । प्रऽय॑तस्य । वस्वः॑ ॥तव । इदम् । विश्वम् । अभितः । पशव्यम् । यत् । पश्यसि । चक्षसा । सूर्यस्य ।
गवाम् । असि । गोऽपतिः । एकः । इन्द्र । भक्षीमहि । ते । प्रऽयतस्य । वस्वः ॥táva ǀ idám ǀ víśvam ǀ abhítaḥ ǀ paśavyám ǀ yát ǀ páśyasi ǀ cákṣasā ǀ sū́ryasya ǀ
gávām ǀ asi ǀ gó-patiḥ ǀ ékaḥ ǀ indra ǀ bhakṣīmáhi ǀ te ǀ prá-yatasya ǀ vásvaḥ ǁtava ǀ idam ǀ viśvam ǀ abhitaḥ ǀ paśavyam ǀ yat ǀ paśyasi ǀ cakṣasā ǀ sūryasya ǀ
gavām ǀ asi ǀ go-patiḥ ǀ ekaḥ ǀ indra ǀ bhakṣīmahi ǀ te ǀ pra-yatasya ǀ vasvaḥ ǁ7.98.6 Aṣṭaka 5.6.23.6Anuvāka 7.6.67
-
Ṛk 7
बृह॑स्पते यु॒वमिंद्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य |
धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ||bṛ́haspate yuvámíndraśca vásvo divyásyeśāthe utá pā́rthivasya ǀ
dhattám rayím stuvaté kīráye cidyūyám pāta svastíbhiḥ sádā naḥ ǁbṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ ||बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ।
ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ।
धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥bṛ́haspate ǀ yuvám ǀ índraḥ ǀ ca ǀ vásvaḥ ǀ divyásya ǀ īśāthe íti ǀ utá ǀ pā́rthivasya ǀ
dhattám ǀ rayím ǀ stuvaté ǀ kīráye ǀ cit ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁbṛhaspate ǀ yuvam ǀ indraḥ ǀ ca ǀ vasvaḥ ǀ divyasya ǀ īśāthe iti ǀ uta ǀ pārthivasya ǀ
dhattam ǀ rayim ǀ stuvate ǀ kīraye ǀ cit ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.98.7 Aṣṭaka 5.6.23.7Anuvāka 7.6.68
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.