Ṛk 7.98.4
Saṃhitā
यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्त्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान् ।
यद्वा॒ नृभि॒र्वृत॑ इंद्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥
यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् |
यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ||
yádyodháyā maható mányamānāntsā́kṣāma tā́nbāhúbhiḥ śā́śadānān ǀ
yádvā nṛ́bhirvṛ́ta indrābhiyúdhyāstám tváyājím sauśravasám jayema ǁ
yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān |
yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema ||
Padapāṭha
यत् । यो॒धयाः॑ । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुऽभिः॑ । शाश॑दानान् ।
यत् । वा॒ । नृऽभिः॑ । वृतः॑ । इ॒न्द्र॒ । अ॒भि॒ऽयुध्याः॑ । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥
यत् । योधयाः । महतः । मन्यमानान् । साक्षाम । तान् । बाहुऽभिः । शाशदानान् ।
यत् । वा । नृऽभिः । वृतः । इन्द्र । अभिऽयुध्याः । तम् । त्वया । आजिम् । सौश्रवसम् । जयेम ॥
yát ǀ yodháyāḥ ǀ mahatáḥ ǀ mányamānān ǀ sā́kṣāma ǀ tā́n ǀ bāhú-bhiḥ ǀ śā́śadānān ǀ
yát ǀ vā ǀ nṛ́-bhiḥ ǀ vṛ́taḥ ǀ indra ǀ abhi-yúdhyāḥ ǀ tám ǀ tváyā ǀ ājím ǀ sauśravasám ǀ jayema ǁ
yat ǀ yodhayāḥ ǀ mahataḥ ǀ manyamānān ǀ sākṣāma ǀ tān ǀ bāhu-bhiḥ ǀ śāśadānān ǀ
yat ǀ vā ǀ nṛ-bhiḥ ǀ vṛtaḥ ǀ indra ǀ abhi-yudhyāḥ ǀ tam ǀ tvayā ǀ ājim ǀ sauśravasam ǀ jayema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.098.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.23.04
- Maṇḍala · Anuvāka · Ṛk
- 07.06.065
- Devatā देवता
- 1-6: Indra; 7: Indra, Bṛhaspati
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.