Sūkta 30
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles svarāṭpaṅkti (4, 5); virāṭtrisṭup (1); nicṛttriṣṭup (2); nicṛtpaṅkti (3)
2nd set of styles triṣṭubh
-
Ṛk 1
आ नो॑ देव॒ शव॑सा याहि शुष्मि॒न्भवा॑ वृ॒ध इं॑द्र रा॒यो अ॒स्य ।
म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या॑य शूर ॥आ नो देव शवसा याहि शुष्मिन् भवा वृध इन्द्र रायो अस्य |
महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ||ā́ no deva śávasā yāhi śuṣminbhávā vṛdhá indra rāyó asyá ǀ
mahé nṛmṇā́ya nṛpate suvajra máhi kṣatrā́ya páuṃsyāya śūra ǁā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya |
mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra ||आ । नः॒ । दे॒व॒ । शव॑सा । या॒हि॒ । शु॒ष्मि॒न् । भव॑ । वृ॒धः । इ॒न्द्र॒ । रा॒यः । अ॒स्य ।
म॒हे । नृ॒म्णाय॑ । नृ॒ऽप॒ते॒ । सु॒ऽव॒ज्र॒ । महि॑ । क्ष॒त्राय॑ । पौंस्या॑य । शू॒र॒ ॥आ । नः । देव । शवसा । याहि । शुष्मिन् । भव । वृधः । इन्द्र । रायः । अस्य ।
महे । नृम्णाय । नृऽपते । सुऽवज्र । महि । क्षत्राय । पौंस्याय । शूर ॥ā́ ǀ naḥ ǀ deva ǀ śávasā ǀ yāhi ǀ śuṣmin ǀ bháva ǀ vṛdháḥ ǀ indra ǀ rāyáḥ ǀ asyá ǀ
mahé ǀ nṛmṇā́ya ǀ nṛ-pate ǀ su-vajra ǀ máhi ǀ kṣatrā́ya ǀ páuṃsyāya ǀ śūra ǁā ǀ naḥ ǀ deva ǀ śavasā ǀ yāhi ǀ śuṣmin ǀ bhava ǀ vṛdhaḥ ǀ indra ǀ rāyaḥ ǀ asya ǀ
mahe ǀ nṛmṇāya ǀ nṛ-pate ǀ su-vajra ǀ mahi ǀ kṣatrāya ǀ pauṃsyāya ǀ śūra ǁ7.30.1 Aṣṭaka 5.3.14.1Anuvāka 7.2.104
-
Ṛk 2
हवं॑त उ त्वा॒ हव्यं॒ विवा॑चि त॒नूषु॒ शूराः॒ सूर्य॑स्य सा॒तौ ।
त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणि॑ रंधया सु॒हंतु॑ ॥हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ |
त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ||hávanta u tvā hávyam vívāci tanū́ṣu śū́rāḥ sū́ryasya sātáu ǀ
tvám víśveṣu sényo jáneṣu tvám vṛtrā́ṇi randhayā suhántu ǁhavanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau |
tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu ||हव॑न्ते । ऊं॒ इति॑ । त्वा॒ । हव्य॑म् । विऽवा॑चि । त॒नूषु॑ । शूराः॑ । सूर्य॑स्य । सा॒तौ ।
त्वम् । विश्वे॑षु । सेन्यः॑ । जने॑षु । त्वम् । वृ॒त्राणि॑ । र॒न्ध॒य॒ । सु॒ऽहन्तु॑ ॥हवन्ते । ऊं इति । त्वा । हव्यम् । विऽवाचि । तनूषु । शूराः । सूर्यस्य । सातौ ।
त्वम् । विश्वेषु । सेन्यः । जनेषु । त्वम् । वृत्राणि । रन्धय । सुऽहन्तु ॥hávante ǀ ūṃ íti ǀ tvā ǀ hávyam ǀ ví-vāci ǀ tanū́ṣu ǀ śū́rāḥ ǀ sū́ryasya ǀ sātáu ǀ
tvám ǀ víśveṣu ǀ sényaḥ ǀ jáneṣu ǀ tvám ǀ vṛtrā́ṇi ǀ randhaya ǀ su-hántu ǁhavante ǀ ūṃ iti ǀ tvā ǀ havyam ǀ vi-vāci ǀ tanūṣu ǀ śūrāḥ ǀ sūryasya ǀ sātau ǀ
tvam ǀ viśveṣu ǀ senyaḥ ǀ janeṣu ǀ tvam ǀ vṛtrāṇi ǀ randhaya ǀ su-hantu ǁ7.30.2 Aṣṭaka 5.3.14.2Anuvāka 7.2.105
-
Ṛk 3
अहा॒ यदिं॑द्र सु॒दिना॑ व्यु॒च्छांदधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ ।
न्य१॒॑ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अत्र॑ सु॒भगा॑य दे॒वान् ॥अहा यद् इन्द्र सुदिना व्युच्छान् दधो यत् केतुम् उपमं समत्सु |
न्य् अग्निः सीदद् असुरो न होता हुवानो अत्र सुभगाय देवान् ||áhā yádindra sudínā vyucchā́ndádho yátketúmupamám samátsu ǀ
nyágníḥ sīdadásuro ná hótā huvānó átra subhágāya devā́n ǁahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu |
ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān ||अहा॑ । यत् । इ॒न्द्र॒ । सु॒ऽदिना॑ । वि॒ऽउ॒च्छान् । दधः॑ । यत् । के॒तुम् । उ॒प॒ऽमम् । स॒मत्ऽसु॑ ।
नि । अ॒ग्निः । सी॒द॒त् । असु॑रः । न । होता॑ । हु॒वा॒नः । अत्र॑ । सु॒ऽभगा॑य । दे॒वान् ॥अहा । यत् । इन्द्र । सुऽदिना । विऽउच्छान् । दधः । यत् । केतुम् । उपऽमम् । समत्ऽसु ।
नि । अग्निः । सीदत् । असुरः । न । होता । हुवानः । अत्र । सुऽभगाय । देवान् ॥áhā ǀ yát ǀ indra ǀ su-dínā ǀ vi-ucchā́n ǀ dádhaḥ ǀ yát ǀ ketúm ǀ upa-mám ǀ samát-su ǀ
ní ǀ agníḥ ǀ sīdat ǀ ásuraḥ ǀ ná ǀ hótā ǀ huvānáḥ ǀ átra ǀ su-bhágāya ǀ devā́n ǁahā ǀ yat ǀ indra ǀ su-dinā ǀ vi-ucchān ǀ dadhaḥ ǀ yat ǀ ketum ǀ upa-mam ǀ samat-su ǀ
ni ǀ agniḥ ǀ sīdat ǀ asuraḥ ǀ na ǀ hotā ǀ huvānaḥ ǀ atra ǀ su-bhagāya ǀ devān ǁ7.30.3 Aṣṭaka 5.3.14.3Anuvāka 7.2.106
-
Ṛk 4
व॒यं ते त॑ इंद्र॒ ये च॑ देव॒ स्तवं॑त शूर॒ दद॑तो म॒घानि॑ ।
यच्छा॑ सू॒रिभ्य॑ उप॒मं वरू॑थं स्वा॒भुवो॑ जर॒णाम॑श्नवंत ॥वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि |
यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणाम् अश्नवन्त ||vayám té ta indra yé ca deva stávanta śūra dádato maghā́ni ǀ
yácchā sūríbhya upamám várūtham svābhúvo jaraṇā́maśnavanta ǁvayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni |
yacchā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇām aśnavanta ||व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । दे॒व॒ । स्तव॑न्त । शू॒र॒ । दद॑तः । म॒घानि॑ ।
यच्छ॑ । सू॒रिऽभ्यः॑ । उ॒प॒ऽमम् । वरू॑थम् । सु॒ऽआ॒भुवः॑ । ज॒र॒णाम् । अ॒श्न॒व॒न्त॒ ॥वयम् । ते । ते । इन्द्र । ये । च । देव । स्तवन्त । शूर । ददतः । मघानि ।
यच्छ । सूरिऽभ्यः । उपऽमम् । वरूथम् । सुऽआभुवः । जरणाम् । अश्नवन्त ॥vayám ǀ té ǀ te ǀ indra ǀ yé ǀ ca ǀ deva ǀ stávanta ǀ śūra ǀ dádataḥ ǀ maghā́ni ǀ
yáccha ǀ sūrí-bhyaḥ ǀ upa-mám ǀ várūtham ǀ su-ābhúvaḥ ǀ jaraṇā́m ǀ aśnavanta ǁvayam ǀ te ǀ te ǀ indra ǀ ye ǀ ca ǀ deva ǀ stavanta ǀ śūra ǀ dadataḥ ǀ maghāni ǀ
yaccha ǀ sūri-bhyaḥ ǀ upa-mam ǀ varūtham ǀ su-ābhuvaḥ ǀ jaraṇām ǀ aśnavanta ǁ7.30.4 Aṣṭaka 5.3.14.4Anuvāka 7.2.107
-
Ṛk 5
वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥वोचेमेद् इन्द्रम् मघवानम् एनम् महो रायो राधसो यद् ददन् नः |
यो अर्चतो ब्रह्मकृतिम् अविष्ठो यूयम् पात स्वस्तिभिः सदा नः ||vocémédíndram maghávānamenam mahó rāyó rā́dhaso yáddádannaḥ ǀ
yó árcato bráhmakṛtimáviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ǁvocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ |
yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ ||वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।
यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।
यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥vocéma ǀ ít ǀ índram ǀ maghá-vānam ǀ enam ǀ maháḥ ǀ rāyáḥ ǀ rā́dhasaḥ ǀ yát ǀ dádat ǀ naḥ ǀ
yáḥ ǀ árcataḥ ǀ bráhma-kṛtim ǀ áviṣṭhaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁvocema ǀ it ǀ indram ǀ magha-vānam ǀ enam ǀ mahaḥ ǀ rāyaḥ ǀ rādhasaḥ ǀ yat ǀ dadat ǀ naḥ ǀ
yaḥ ǀ arcataḥ ǀ brahma-kṛtim ǀ aviṣṭhaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.30.5 Aṣṭaka 5.3.14.5Anuvāka 7.2.108
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.