Sūkta 65
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 5); nicṛttriṣṭup (3, 4); triṣṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षं ।
ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥प्रति वां सूर उदिते सूक्तैर् मित्रं हुवे वरुणम् पूतदक्षम् |
ययोर् असुर्यम् अक्षितं ज्येष्ठं विश्वस्य यामन्न् आचिता जिगत्नु ||práti vām sū́ra údite sūktáirmitrám huve váruṇam pūtádakṣam ǀ
yáyorasuryámákṣitam jyéṣṭham víśvasya yā́mannācítā jigatnú ǁprati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam |
yayor asuryam akṣitaṃ jyeṣṭhaṃ viśvasya yāmann ācitā jigatnu ||प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । सु॒ऽउ॒क्तैः । मि॒त्रम् । हु॒वे॒ । वरु॑णम् । पू॒तऽद॑क्षम् ।
ययोः॑ । अ॒सु॒र्य॑म् । अक्षि॑तम् । ज्येष्ठ॑म् । विश्व॑स्य । याम॑न् । आ॒ऽचिता॑ । जि॒ग॒त्नु ॥प्रति । वाम् । सूरे । उत्ऽइते । सुऽउक्तैः । मित्रम् । हुवे । वरुणम् । पूतऽदक्षम् ।
ययोः । असुर्यम् । अक्षितम् । ज्येष्ठम् । विश्वस्य । यामन् । आऽचिता । जिगत्नु ॥práti ǀ vām ǀ sū́re ǀ út-ite ǀ su-uktáiḥ ǀ mitrám ǀ huve ǀ váruṇam ǀ pūtá-dakṣam ǀ
yáyoḥ ǀ asuryám ǀ ákṣitam ǀ jyéṣṭham ǀ víśvasya ǀ yā́man ǀ ā-cítā ǀ jigatnú ǁprati ǀ vām ǀ sūre ǀ ut-ite ǀ su-uktaiḥ ǀ mitram ǀ huve ǀ varuṇam ǀ pūta-dakṣam ǀ
yayoḥ ǀ asuryam ǀ akṣitam ǀ jyeṣṭham ǀ viśvasya ǀ yāman ǀ ā-citā ǀ jigatnu ǁ7.65.1 Aṣṭaka 5.5.7.1Anuvāka 7.4.87
-
Ṛk 2
ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑ क्षि॒तीः क॑रतमू॒र्जयं॑तीः ।
अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥ता हि देवानाम् असुरा ताव् अर्या ता नः क्षितीः करतम् ऊर्जयन्तीः |
अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्न् अहा च ||tā́ hí devā́nāmásurā tā́varyā́ tā́ naḥ kṣitī́ḥ karatamūrjáyantīḥ ǀ
aśyā́ma mitrāvaruṇā vayám vām dyā́vā ca yátra pīpáyannáhā ca ǁtā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ |
aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca ||ता । हि । दे॒वाना॑म् । असु॑रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय॑न्तीः ।
अ॒श्याम॑ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा॑ । च॒ । यत्र॑ । पी॒पय॑न् । अहा॑ । च॒ ॥ता । हि । देवानाम् । असुरा । तौ । अर्या । ता । नः । क्षितीः । करतम् । ऊर्जयन्तीः ।
अश्याम । मित्रावरुणा । वयम् । वाम् । द्यावा । च । यत्र । पीपयन् । अहा । च ॥tā́ ǀ hí ǀ devā́nām ǀ ásurā ǀ táu ǀ aryā́ ǀ tā́ ǀ naḥ ǀ kṣitī́ḥ ǀ karatam ǀ ūrjáyantīḥ ǀ
aśyā́ma ǀ mitrāvaruṇā ǀ vayám ǀ vām ǀ dyā́vā ǀ ca ǀ yátra ǀ pīpáyan ǀ áhā ǀ ca ǁtā ǀ hi ǀ devānām ǀ asurā ǀ tau ǀ aryā ǀ tā ǀ naḥ ǀ kṣitīḥ ǀ karatam ǀ ūrjayantīḥ ǀ
aśyāma ǀ mitrāvaruṇā ǀ vayam ǀ vām ǀ dyāvā ǀ ca ǀ yatra ǀ pīpayan ǀ ahā ǀ ca ǁ7.65.2 Aṣṭaka 5.5.7.2Anuvāka 7.4.88
-
Ṛk 3
ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य ।
ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥ता भूरिपाशाव् अनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय |
ऋतस्य मित्रावरुणा पथा वाम् अपो न नावा दुरिता तरेम ||tā́ bhū́ripāśāvánṛtasya sétū duratyétū ripáve mártyāya ǀ
ṛtásya mitrāvaruṇā pathā́ vāmapó ná nāvā́ duritā́ tarema ǁtā bhūripāśāv anṛtasya setū duratyetū ripave martyāya |
ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema ||ता । भूरि॑ऽपाशौ । अनृ॑तस्य । सेतू॒ इति॑ । दु॒र॒त्येतू॒ इति॑ दुः॒ऽअ॒त्येतू॑ । रि॒पवे॑ । मर्त्या॑य ।
ऋ॒तस्य॑ । मि॒त्रा॒व॒रु॒णा॒ । प॒था । वा॒म् । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥ता । भूरिऽपाशौ । अनृतस्य । सेतू इति । दुरत्येतू इति दुःऽअत्येतू । रिपवे । मर्त्याय ।
ऋतस्य । मित्रावरुणा । पथा । वाम् । अपः । न । नावा । दुःऽइता । तरेम ॥tā́ ǀ bhū́ri-pāśau ǀ ánṛtasya ǀ sétū íti ǀ duratyétū íti duḥ-atyétū ǀ ripáve ǀ mártyāya ǀ
ṛtásya ǀ mitrāvaruṇā ǀ pathā́ ǀ vām ǀ apáḥ ǀ ná ǀ nāvā́ ǀ duḥ-itā́ ǀ tarema ǁtā ǀ bhūri-pāśau ǀ anṛtasya ǀ setū iti ǀ duratyetū iti duḥ-atyetū ǀ ripave ǀ martyāya ǀ
ṛtasya ǀ mitrāvaruṇā ǀ pathā ǀ vām ǀ apaḥ ǀ na ǀ nāvā ǀ duḥ-itā ǀ tarema ǁ7.65.3 Aṣṭaka 5.5.7.3Anuvāka 7.4.89
-
Ṛk 4
आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः ।
प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ ॥आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम् इऌआभिः |
प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः ||ā́ no mitrāvaruṇā havyájuṣṭim ghṛtáirgávyūtimukṣatamíḷābhiḥ ǀ
práti vāmátra váramā́ jánāya pṛṇītámudnó divyásya cā́roḥ ǁā no mitrāvaruṇā havyajuṣṭiṃ ghṛtair gavyūtim ukṣatam iḷābhiḥ |
prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ ||आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् । इळा॑भिः ।
प्रति॑ । वा॒म् । अत्र॑ । वर॑म् । आ । जना॑य । पृ॒णी॒तम् । उ॒द्नः । दि॒व्यस्य॑ । चारोः॑ ॥आ । नः । मित्रावरुणा । हव्यऽजुष्टिम् । घृतैः । गव्यूतिम् । उक्षतम् । इळाभिः ।
प्रति । वाम् । अत्र । वरम् । आ । जनाय । पृणीतम् । उद्नः । दिव्यस्य । चारोः ॥ā́ ǀ naḥ ǀ mitrāvaruṇā ǀ havyá-juṣṭim ǀ ghṛtáiḥ ǀ gávyūtim ǀ ukṣatam ǀ íḷābhiḥ ǀ
práti ǀ vām ǀ átra ǀ váram ǀ ā́ ǀ jánāya ǀ pṛṇītám ǀ udnáḥ ǀ divyásya ǀ cā́roḥ ǁā ǀ naḥ ǀ mitrāvaruṇā ǀ havya-juṣṭim ǀ ghṛtaiḥ ǀ gavyūtim ǀ ukṣatam ǀ iḷābhiḥ ǀ
prati ǀ vām ǀ atra ǀ varam ǀ ā ǀ janāya ǀ pṛṇītam ǀ udnaḥ ǀ divyasya ǀ cāroḥ ǁ7.65.4 Aṣṭaka 5.5.7.4Anuvāka 7.4.90
-
Ṛk 5
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि ।
अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे ऽयामि |
अविष्टं धियो जिगृतम् पुरन्धीर् यूयम् पात स्वस्तिभिः सदा नः ||eṣá stómo varuṇa mitra túbhyam sómaḥ śukró ná vāyáve’yāmi ǀ
aviṣṭám dhíyo jigṛtám púraṃdhīryūyám pāta svastíbhiḥ sádā naḥ ǁeṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi |
aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ ||ए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ ।
अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि ।
अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥eṣáḥ ǀ stómaḥ ǀ varuṇa ǀ mitra ǀ túbhyam ǀ sómaḥ ǀ śukráḥ ǀ ná ǀ vāyáve ǀ ayāmi ǀ
aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁeṣaḥ ǀ stomaḥ ǀ varuṇa ǀ mitra ǀ tubhyam ǀ somaḥ ǀ śukraḥ ǀ na ǀ vāyave ǀ ayāmi ǀ
aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.65.5 Aṣṭaka 5.5.7.5Anuvāka 7.4.91
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.