Ṛk 7.65.1
Saṃhitā
प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षं ।
ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥
प्रति वां सूर उदिते सूक्तैर् मित्रं हुवे वरुणम् पूतदक्षम् |
ययोर् असुर्यम् अक्षितं ज्येष्ठं विश्वस्य यामन्न् आचिता जिगत्नु ||
práti vām sū́ra údite sūktáirmitrám huve váruṇam pūtádakṣam ǀ
yáyorasuryámákṣitam jyéṣṭham víśvasya yā́mannācítā jigatnú ǁ
prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam |
yayor asuryam akṣitaṃ jyeṣṭhaṃ viśvasya yāmann ācitā jigatnu ||
Padapāṭha
प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । सु॒ऽउ॒क्तैः । मि॒त्रम् । हु॒वे॒ । वरु॑णम् । पू॒तऽद॑क्षम् ।
ययोः॑ । अ॒सु॒र्य॑म् । अक्षि॑तम् । ज्येष्ठ॑म् । विश्व॑स्य । याम॑न् । आ॒ऽचिता॑ । जि॒ग॒त्नु ॥
प्रति । वाम् । सूरे । उत्ऽइते । सुऽउक्तैः । मित्रम् । हुवे । वरुणम् । पूतऽदक्षम् ।
ययोः । असुर्यम् । अक्षितम् । ज्येष्ठम् । विश्वस्य । यामन् । आऽचिता । जिगत्नु ॥
práti ǀ vām ǀ sū́re ǀ út-ite ǀ su-uktáiḥ ǀ mitrám ǀ huve ǀ váruṇam ǀ pūtá-dakṣam ǀ
yáyoḥ ǀ asuryám ǀ ákṣitam ǀ jyéṣṭham ǀ víśvasya ǀ yā́man ǀ ā-cítā ǀ jigatnú ǁ
prati ǀ vām ǀ sūre ǀ ut-ite ǀ su-uktaiḥ ǀ mitram ǀ huve ǀ varuṇam ǀ pūta-dakṣam ǀ
yayoḥ ǀ asuryam ǀ akṣitam ǀ jyeṣṭham ǀ viśvasya ǀ yāman ǀ ā-citā ǀ jigatnu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.065.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.07.01
- Maṇḍala · Anuvāka · Ṛk
- 07.04.087
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.