Sūkta 34
- Devatā देवता
- 1-9, 12-15, 18-25: Viśvedevās; 10, 11: Varuṇa, Viśvedevās; 16: Ahi; 17: Ahirbudhnya (A); Viśve Devās (C)
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Dvipadā, Triṣṭubh
Metres by ṛk
1st set of styles bhurigārcīgāyatrī (1, 2, 5, 12-14, 16, 19, 20); nicṛttripādgāyatrī (6-11, 15, 18, 21); ārcīgāyatrī (3, 4, 17); nicṛdārṣītriṣṭup (22, 24); ārṣītriṣṭup (23); virāḍārṣītriṣṭup (25)
2nd set of styles dvipadā (1-21); triṣṭubh (22-25)
-
Ṛk 1
प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ॥
प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाजी ||
prá śukráitu devī́ manīṣā́ asmátsútaṣṭo rátho ná vājī́ ǁ
pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī ||
प्र । शु॒क्रा । ए॒तु॒ । दे॒वी । म॒नी॒षा । अ॒स्मत् । सुऽत॑ष्टः । रथः॑ । न । वा॒जी ॥
प्र । शुक्रा । एतु । देवी । मनीषा । अस्मत् । सुऽतष्टः । रथः । न । वाजी ॥
prá ǀ śukrā́ ǀ etu ǀ devī́ ǀ manīṣā́ ǀ asmát ǀ sú-taṣṭaḥ ǀ ráthaḥ ǀ ná ǀ vājī́ ǁ
pra ǀ śukrā ǀ etu ǀ devī ǀ manīṣā ǀ asmat ǀ su-taṣṭaḥ ǀ rathaḥ ǀ na ǀ vājī ǁ
7.34.1 Aṣṭaka 5.3.25.1Anuvāka 7.3.1
-
Ṛk 2
वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं॑ शृ॒ण्वंत्यापो॒ अध॒ क्षरं॑तीः ॥
विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्य् आपो अध क्षरन्तीः ||
vidúḥ pṛthivyā́ divó janítram śṛṇvántyā́po ádha kṣárantīḥ ǁ
viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ ||
वि॒दुः । पृ॒थि॒व्याः । दि॒वः । ज॒नित्र॑म् । शृ॒ण्वन्ति॑ । आपः॑ । अध॑ । क्षर॑न्तीः ॥
विदुः । पृथिव्याः । दिवः । जनित्रम् । शृण्वन्ति । आपः । अध । क्षरन्तीः ॥
vidúḥ ǀ pṛthivyā́ḥ ǀ diváḥ ǀ janítram ǀ śṛṇvánti ǀ ā́paḥ ǀ ádha ǀ kṣárantīḥ ǁ
viduḥ ǀ pṛthivyāḥ ǀ divaḥ ǀ janitram ǀ śṛṇvanti ǀ āpaḥ ǀ adha ǀ kṣarantīḥ ǁ
7.34.2 Aṣṭaka 5.3.25.2Anuvāka 7.3.2
-
Ṛk 3
आप॑श्चिदस्मै॒ पिन्वं॑त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंसं॑त उ॒ग्राः ॥
आपश् चिद् अस्मै पिन्वन्त पृथ्वीर् वृत्रेषु शूरा मंसन्त उग्राः ||
ā́paścidasmai pínvanta pṛthvī́rvṛtréṣu śū́rā máṃsanta ugrā́ḥ ǁ
āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṃsanta ugrāḥ ||
आपः॑ । चि॒त् । अ॒स्मै॒ । पिन्व॑न्त । पृ॒थ्वीः । वृ॒त्रेषु॑ । शूराः॑ । मंस॑न्ते । उ॒ग्राः ॥
आपः । चित् । अस्मै । पिन्वन्त । पृथ्वीः । वृत्रेषु । शूराः । मंसन्ते । उग्राः ॥
ā́paḥ ǀ cit ǀ asmai ǀ pínvanta ǀ pṛthvī́ḥ ǀ vṛtréṣu ǀ śū́rāḥ ǀ máṃsante ǀ ugrā́ḥ ǁ
āpaḥ ǀ cit ǀ asmai ǀ pinvanta ǀ pṛthvīḥ ǀ vṛtreṣu ǀ śūrāḥ ǀ maṃsante ǀ ugrāḥ ǁ
7.34.3 Aṣṭaka 5.3.25.3Anuvāka 7.3.3
-
Ṛk 4
आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निंद्रो॒ न व॒ज्री हिर॑ण्यबाहुः ॥
आ धूर्ष्व् अस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः ||
ā́ dhūrṣvásmai dádhātā́śvāníndro ná vajrī́ híraṇyabāhuḥ ǁ
ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ ||
आ । धूः॒ऽसु । अ॒स्मै॒ । दधा॑त । अश्वा॑न् । इन्द्रः॑ । न । व॒ज्री । हिर॑ण्यऽबाहुः ॥
आ । धूःऽसु । अस्मै । दधात । अश्वान् । इन्द्रः । न । वज्री । हिरण्यऽबाहुः ॥
ā́ ǀ dhūḥ-sú ǀ asmai ǀ dádhāta ǀ áśvān ǀ índraḥ ǀ ná ǀ vajrī́ ǀ híraṇya-bāhuḥ ǁ
ā ǀ dhūḥ-su ǀ asmai ǀ dadhāta ǀ aśvān ǀ indraḥ ǀ na ǀ vajrī ǀ hiraṇya-bāhuḥ ǁ
7.34.4 Aṣṭaka 5.3.25.4Anuvāka 7.3.4
-
Ṛk 5
अ॒भि प्र स्था॒ताहे॑व य॒ज्ञं याते॑व॒ पत्मं॒त्मना॑ हिनोत ॥
अभि प्र स्थाताहेव यज्ञं यातेव पत्मन् त्मना हिनोत ||
abhí prá sthātā́heva yajñám yā́teva pátmantmánā hinota ǁ
abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota ||
अ॒भि । प्र । स्था॒त॒ । अह॑ऽइव । य॒ज्ञम् । याता॑ऽइव । पत्म॑न् । त्मना॑ । हि॒नो॒त॒ ॥
अभि । प्र । स्थात । अहऽइव । यज्ञम् । याताऽइव । पत्मन् । त्मना । हिनोत ॥
abhí ǀ prá ǀ sthāta ǀ áha-iva ǀ yajñám ǀ yā́tā-iva ǀ pátman ǀ tmánā ǀ hinota ǁ
abhi ǀ pra ǀ sthāta ǀ aha-iva ǀ yajñam ǀ yātā-iva ǀ patman ǀ tmanā ǀ hinota ǁ
7.34.5 Aṣṭaka 5.3.25.5Anuvāka 7.3.5
-
Ṛk 6
त्मना॑ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा॑त के॒तुं जना॑य वी॒रं ॥
त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ||
tmánā samátsu hinóta yajñám dádhāta ketúm jánāya vīrám ǁ
tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram ||
त्मना॑ । स॒मत्ऽसु॑ । हि॒नोत॑ । य॒ज्ञम् । दधा॑त । के॒तुम् । जना॑य । वी॒रम् ॥
त्मना । समत्ऽसु । हिनोत । यज्ञम् । दधात । केतुम् । जनाय । वीरम् ॥
tmánā ǀ samát-su ǀ hinóta ǀ yajñám ǀ dádhāta ǀ ketúm ǀ jánāya ǀ vīrám ǁ
tmanā ǀ samat-su ǀ hinota ǀ yajñam ǀ dadhāta ǀ ketum ǀ janāya ǀ vīram ǁ
7.34.6 Aṣṭaka 5.3.25.6Anuvāka 7.3.6
-
Ṛk 7
उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ॥
उद् अस्य शुष्माद् भानुर् नार्त बिभर्ति भारम् पृथिवी न भूम ||
údasya śúṣmādbhānúrnā́rta bíbharti bhārám pṛthivī́ ná bhū́ma ǁ
ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma ||
उत् । अ॒स्य॒ । शुष्मा॑त् । भा॒नुः । न । आ॒र्त॒ । बिभ॑र्ति । भा॒रम् । पृ॒थि॒वी । न । भूम॑ ॥
उत् । अस्य । शुष्मात् । भानुः । न । आर्त । बिभर्ति । भारम् । पृथिवी । न । भूम ॥
út ǀ asya ǀ śúṣmāt ǀ bhānúḥ ǀ ná ǀ ārta ǀ bíbharti ǀ bhārám ǀ pṛthivī́ ǀ ná ǀ bhū́ma ǁ
ut ǀ asya ǀ śuṣmāt ǀ bhānuḥ ǀ na ǀ ārta ǀ bibharti ǀ bhāram ǀ pṛthivī ǀ na ǀ bhūma ǁ
7.34.7 Aṣṭaka 5.3.25.7Anuvāka 7.3.7
-
Ṛk 8
ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥
ह्वयामि देवां अयातुर् अग्ने साधन्न् ऋतेन धियं दधामि ||
hváyāmi devā́m̐ áyāturagne sā́dhannṛténa dhíyam dadhāmi ǁ
hvayāmi devāṃ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi ||
ह्वया॑मि । दे॒वान् । अया॑तुः । अ॒ग्ने॒ । साध॑न् । ऋ॒तेन॑ । धिय॑म् । द॒धा॒मि॒ ॥
ह्वयामि । देवान् । अयातुः । अग्ने । साधन् । ऋतेन । धियम् । दधामि ॥
hváyāmi ǀ devā́n ǀ áyātuḥ ǀ agne ǀ sā́dhan ǀ ṛténa ǀ dhíyam ǀ dadhāmi ǁ
hvayāmi ǀ devān ǀ ayātuḥ ǀ agne ǀ sādhan ǀ ṛtena ǀ dhiyam ǀ dadhāmi ǁ
7.34.8 Aṣṭaka 5.3.25.8Anuvāka 7.3.8
-
Ṛk 9
अ॒भि वो॑ दे॒वीं धियं॑ दधिध्वं॒ प्र वो॑ देव॒त्रा वाचं॑ कृणुध्वं ॥
अभि वो देवीं धियं दधिध्वम् प्र वो देवत्रा वाचं कृणुध्वम् ||
abhí vo devī́m dhíyam dadhidhvam prá vo devatrā́ vā́cam kṛṇudhvam ǁ
abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam ||
अ॒भि । वः॒ । दे॒वीम् । धिय॑म् । द॒धि॒ध्व॒म् । प्र । वः॒ । दे॒व॒ऽत्रा । वाच॑म् । कृ॒णु॒ध्व॒म् ॥
अभि । वः । देवीम् । धियम् । दधिध्वम् । प्र । वः । देवऽत्रा । वाचम् । कृणुध्वम् ॥
abhí ǀ vaḥ ǀ devī́m ǀ dhíyam ǀ dadhidhvam ǀ prá ǀ vaḥ ǀ deva-trā́ ǀ vā́cam ǀ kṛṇudhvam ǁ
abhi ǀ vaḥ ǀ devīm ǀ dhiyam ǀ dadhidhvam ǀ pra ǀ vaḥ ǀ deva-trā ǀ vācam ǀ kṛṇudhvam ǁ
7.34.9 Aṣṭaka 5.3.25.9Anuvāka 7.3.9
-
Ṛk 10
आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥
आ चष्ट आसाम् पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ||
ā́ caṣṭa āsām pā́tho nadī́nām váruṇa ugráḥ sahásracakṣāḥ ǁ
ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ ||
आ । च॒ष्टे॒ । आ॒सा॒म् । पाथः॑ । न॒दीना॑म् । वरु॑णः । उ॒ग्रः । स॒हस्र॑ऽचक्षाः ॥
आ । चष्टे । आसाम् । पाथः । नदीनाम् । वरुणः । उग्रः । सहस्रऽचक्षाः ॥
ā́ ǀ caṣṭe ǀ āsām ǀ pā́thaḥ ǀ nadī́nām ǀ váruṇaḥ ǀ ugráḥ ǀ sahásra-cakṣāḥ ǁ
ā ǀ caṣṭe ǀ āsām ǀ pāthaḥ ǀ nadīnām ǀ varuṇaḥ ǀ ugraḥ ǀ sahasra-cakṣāḥ ǁ
7.34.10 Aṣṭaka 5.3.25.10Anuvāka 7.3.10
-
Ṛk 11
राजा॑ रा॒ष्ट्रानां॒ पेशो॑ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ॥
राजा राष्ट्रानाम् पेशो नदीनाम् अनुत्तम् अस्मै क्षत्रं विश्वायु ||
rā́jā rāṣṭrā́nām péśo nadī́nāmánuttamasmai kṣatrám viśvā́yu ǁ
rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu ||
राजा॑ । रा॒ष्ट्राना॑म् । पेशः॑ । न॒दीना॑म् । अनु॑त्तम् । अ॒स्मै॒ । क्ष॒त्रम् । वि॒श्वऽआ॑यु ॥
राजा । राष्ट्रानाम् । पेशः । नदीनाम् । अनुत्तम् । अस्मै । क्षत्रम् । विश्वऽआयु ॥
rā́jā ǀ rāṣṭrā́nām ǀ péśaḥ ǀ nadī́nām ǀ ánuttam ǀ asmai ǀ kṣatrám ǀ viśvá-āyu ǁ
rājā ǀ rāṣṭrānām ǀ peśaḥ ǀ nadīnām ǀ anuttam ǀ asmai ǀ kṣatram ǀ viśva-āyu ǁ
7.34.11 Aṣṭaka 5.3.26.1Anuvāka 7.3.11
-
Ṛk 12
अवि॑ष्टो अ॒स्मान्विश्वा॑सु वि॒क्ष्वद्युं॑ कृणोत॒ शंसं॑ निनि॒त्सोः ॥
अविष्टो अस्मान् विश्वासु विक्ष्व् अद्युं कृणोत शंसं निनित्सोः ||
áviṣṭo asmā́nvíśvāsu vikṣvádyum kṛṇota śáṃsam ninitsóḥ ǁ
aviṣṭo asmān viśvāsu vikṣv adyuṃ kṛṇota śaṃsaṃ ninitsoḥ ||
अवि॑ष्टो॒ इति॑ । अ॒स्मान् । विश्वा॑सु । वि॒क्षु । अद्यु॑म् । कृ॒णो॒त॒ । शंस॑म् । नि॒नि॒त्सोः ॥
अविष्टो इति । अस्मान् । विश्वासु । विक्षु । अद्युम् । कृणोत । शंसम् । निनित्सोः ॥
áviṣṭo íti ǀ asmā́n ǀ víśvāsu ǀ vikṣú ǀ ádyum ǀ kṛṇota ǀ śáṃsam ǀ ninitsóḥ ǁ
aviṣṭo iti ǀ asmān ǀ viśvāsu ǀ vikṣu ǀ adyum ǀ kṛṇota ǀ śaṃsam ǀ ninitsoḥ ǁ
7.34.12 Aṣṭaka 5.3.26.2Anuvāka 7.3.12
-
Ṛk 13
व्ये॑तु दि॒द्युद्द्वि॒षामशे॑वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूनां॑ ॥
व्य् एतु दिद्युद् द्विषाम् अशेवा युयोत विष्वग् रपस् तनूनाम् ||
vyétu didyúddviṣā́máśevā yuyóta víṣvagrápastanū́nām ǁ
vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām ||
वि । ए॒तु॒ । दि॒द्युत् । द्वि॒षाम् । अशे॑वा । यु॒योत॑ । विष्व॑क् । रपः॑ । त॒नूना॑म् ॥
वि । एतु । दिद्युत् । द्विषाम् । अशेवा । युयोत । विष्वक् । रपः । तनूनाम् ॥
ví ǀ etu ǀ didyút ǀ dviṣā́m ǀ áśevā ǀ yuyóta ǀ víṣvak ǀ rápaḥ ǀ tanū́nām ǁ
vi ǀ etu ǀ didyut ǀ dviṣām ǀ aśevā ǀ yuyota ǀ viṣvak ǀ rapaḥ ǀ tanūnām ǁ
7.34.13 Aṣṭaka 5.3.26.3Anuvāka 7.3.13
-
Ṛk 14
अवी॑न्नो अ॒ग्निर्ह॒व्यान्नमो॑भिः॒ प्रेष्ठो॑ अस्मा अधायि॒ स्तोमः॑ ॥
अवीन् नो अग्निर् हव्यान् नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ||
ávīnno agnírhavyā́nnámobhiḥ préṣṭho asmā adhāyi stómaḥ ǁ
avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ ||
अवी॑त् । नः॒ । अ॒ग्निः । ह॒व्य॒ऽअत् । नमः॑ऽभिः । प्रेष्ठः॑ । अ॒स्मै॒ । अ॒धा॒यि॒ । स्तोमः॑ ॥
अवीत् । नः । अग्निः । हव्यऽअत् । नमःऽभिः । प्रेष्ठः । अस्मै । अधायि । स्तोमः ॥
ávīt ǀ naḥ ǀ agníḥ ǀ havya-át ǀ námaḥ-bhiḥ ǀ préṣṭhaḥ ǀ asmai ǀ adhāyi ǀ stómaḥ ǁ
avīt ǀ naḥ ǀ agniḥ ǀ havya-at ǀ namaḥ-bhiḥ ǀ preṣṭhaḥ ǀ asmai ǀ adhāyi ǀ stomaḥ ǁ
7.34.14 Aṣṭaka 5.3.26.4Anuvāka 7.3.14
-
Ṛk 15
स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृध्वं शि॒वो नो॑ अस्तु ॥
सजूर् देवेभिर् अपां नपातं सखायं कृध्वं शिवो नो अस्तु ||
sajū́rdevébhirapā́m nápātam sákhāyam kṛdhvam śivó no astu ǁ
sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu ||
स॒ऽजूः । दे॒वेभिः॑ । अ॒पाम् । नपा॑तम् । सखा॑यम् । कृ॒ध्व॒म् । शि॒वः । नः॒ । अ॒स्तु॒ ॥
सऽजूः । देवेभिः । अपाम् । नपातम् । सखायम् । कृध्वम् । शिवः । नः । अस्तु ॥
sa-jū́ḥ ǀ devébhiḥ ǀ apā́m ǀ nápātam ǀ sákhāyam ǀ kṛdhvam ǀ śiváḥ ǀ naḥ ǀ astu ǁ
sa-jūḥ ǀ devebhiḥ ǀ apām ǀ napātam ǀ sakhāyam ǀ kṛdhvam ǀ śivaḥ ǀ naḥ ǀ astu ǁ
7.34.15 Aṣṭaka 5.3.26.5Anuvāka 7.3.15
-
Ṛk 16
अ॒ब्जामु॒क्थैरहिं॑ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद॑न् ॥
अब्जाम् उक्थैर् अहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ||
abjā́muktháiráhim gṛṇīṣe budhné nadī́nām rájassu ṣī́dan ǁ
abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan ||
अ॒प्ऽजाम् । उ॒क्थैः । अहि॑म् । गृ॒णी॒षे॒ । बु॒ध्ने । न॒दीना॑म् । रजः॑ऽसु । सीद॑न् ॥
अप्ऽजाम् । उक्थैः । अहिम् । गृणीषे । बुध्ने । नदीनाम् । रजःऽसु । सीदन् ॥
ap-jā́m ǀ uktháiḥ ǀ áhim ǀ gṛṇīṣe ǀ budhné ǀ nadī́nām ǀ rájaḥ-su ǀ sī́dan ǁ
ap-jām ǀ ukthaiḥ ǀ ahim ǀ gṛṇīṣe ǀ budhne ǀ nadīnām ǀ rajaḥ-su ǀ sīdan ǁ
7.34.16 Aṣṭaka 5.3.26.6Anuvāka 7.3.16
-
Ṛk 17
मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॒न्मा य॒ज्ञो अ॑स्य स्रिधदृता॒योः ॥
मा नो ऽहिर् बुध्न्यो रिषे धान् मा यज्ञो अस्य स्रिधद् ऋतायोः ||
mā́ nó’hirbudhnyo riṣé dhānmā́ yajñó asya sridhadṛtāyóḥ ǁ
mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ ||
मा । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । रि॒षे । धा॒त् । मा । य॒ज्ञः । अ॒स्य॒ । स्रि॒ध॒त् । ऋ॒त॒ऽयोः ॥
मा । नः । अहिः । बुध्न्यः । रिषे । धात् । मा । यज्ञः । अस्य । स्रिधत् । ऋतऽयोः ॥
mā́ ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ riṣé ǀ dhāt ǀ mā́ ǀ yajñáḥ ǀ asya ǀ sridhat ǀ ṛta-yóḥ ǁ
mā ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ riṣe ǀ dhāt ǀ mā ǀ yajñaḥ ǀ asya ǀ sridhat ǀ ṛta-yoḥ ǁ
7.34.17 Aṣṭaka 5.3.26.7Anuvāka 7.3.17
-
Ṛk 18
उ॒त न॑ ए॒षु नृषु॒ श्रवो॑ धुः॒ प्र रा॒ये यं॑तु॒ शर्धं॑तो अ॒र्यः ॥
उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ||
utá na eṣú nṛ́ṣu śrávo dhuḥ prá rāyé yantu śárdhanto aryáḥ ǁ
uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ ||
उ॒त । नः॒ । ए॒षु । नृषु॑ । श्रवः॑ । धुः॒ । प्र । रा॒ये । य॒न्तु॒ । शर्ध॑न्तः । अ॒र्यः ॥
उत । नः । एषु । नृषु । श्रवः । धुः । प्र । राये । यन्तु । शर्धन्तः । अर्यः ॥
utá ǀ naḥ ǀ eṣú ǀ nṛ́ṣu ǀ śrávaḥ ǀ dhuḥ ǀ prá ǀ rāyé ǀ yantu ǀ śárdhantaḥ ǀ aryáḥ ǁ
uta ǀ naḥ ǀ eṣu ǀ nṛṣu ǀ śravaḥ ǀ dhuḥ ǀ pra ǀ rāye ǀ yantu ǀ śardhantaḥ ǀ aryaḥ ǁ
7.34.18 Aṣṭaka 5.3.26.8Anuvāka 7.3.18
-
Ṛk 19
तपं॑ति॒ शत्रुं॒ स्व१॒॑र्ण भूमा॑ म॒हासे॑नासो॒ अमे॑भिरेषां ॥
तपन्ति शत्रुं स्वर् ण भूमा महासेनासो अमेभिर् एषाम् ||
tápanti śátrum svárṇá bhū́mā mahā́senāso ámebhireṣām ǁ
tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām ||
तप॑न्ति । शत्रु॑म् । स्वः॑ । न । भूम॑ । म॒हाऽसे॑नासः । अमे॑भिः । ए॒षा॒म् ॥
तपन्ति । शत्रुम् । स्वः । न । भूम । महाऽसेनासः । अमेभिः । एषाम् ॥
tápanti ǀ śátrum ǀ sváḥ ǀ ná ǀ bhū́ma ǀ mahā́-senāsaḥ ǀ ámebhiḥ ǀ eṣām ǁ
tapanti ǀ śatrum ǀ svaḥ ǀ na ǀ bhūma ǀ mahā-senāsaḥ ǀ amebhiḥ ǀ eṣām ǁ
7.34.19 Aṣṭaka 5.3.26.9Anuvāka 7.3.19
-
Ṛk 20
आ यन्नः॒ पत्नी॒र्गमं॒त्यच्छा॒ त्वष्टा॑ सुपा॒णिर्दधा॑तु वी॒रान् ॥
आ यन् नः पत्नीर् गमन्त्य् अच्छा त्वष्टा सुपाणिर् दधातु वीरान् ||
ā́ yánnaḥ pátnīrgámantyácchā tváṣṭā supāṇírdádhātu vīrā́n ǁ
ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān ||
आ । यत् । नः॒ । पत्नीः॑ । गम॑न्ति । अच्छ॑ । त्वष्टा॑ । सु॒ऽपा॒णिः । दधा॑तु । वी॒रान् ॥
आ । यत् । नः । पत्नीः । गमन्ति । अच्छ । त्वष्टा । सुऽपाणिः । दधातु । वीरान् ॥
ā́ ǀ yát ǀ naḥ ǀ pátnīḥ ǀ gámanti ǀ áccha ǀ tváṣṭā ǀ su-pāṇíḥ ǀ dádhātu ǀ vīrā́n ǁ
ā ǀ yat ǀ naḥ ǀ patnīḥ ǀ gamanti ǀ accha ǀ tvaṣṭā ǀ su-pāṇiḥ ǀ dadhātu ǀ vīrān ǁ
7.34.20 Aṣṭaka 5.3.26.10Anuvāka 7.3.20
-
Ṛk 21
प्रति॑ नः॒ स्तोमं॒ त्वष्टा॑ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ॥
प्रति न स्तोमं त्वष्टा जुषेत स्याद् अस्मे अरमतिर् वसूयुः ||
práti naḥ stómam tváṣṭā juṣeta syā́dasmé arámatirvasūyúḥ ǁ
prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ ||
प्रति॑ । नः॒ । स्तोम॑म् । त्वष्टा॑ । जु॒षे॒त॒ । स्यात् । अ॒स्मे इति॑ । अ॒रम॑तिः । व॒सु॒ऽयुः ॥
प्रति । नः । स्तोमम् । त्वष्टा । जुषेत । स्यात् । अस्मे इति । अरमतिः । वसुऽयुः ॥
práti ǀ naḥ ǀ stómam ǀ tváṣṭā ǀ juṣeta ǀ syā́t ǀ asmé íti ǀ arámatiḥ ǀ vasu-yúḥ ǁ
prati ǀ naḥ ǀ stomam ǀ tvaṣṭā ǀ juṣeta ǀ syāt ǀ asme iti ǀ aramatiḥ ǀ vasu-yuḥ ǁ
7.34.21 Aṣṭaka 5.3.27.1Anuvāka 7.3.21
-
Ṛk 22
ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु ।
वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ॥ता नो रासन् रातिषाचो वसून्य् आ रोदसी वरुणानी शृणोतु |
वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ||tā́ no rāsanrātiṣā́co vásūnyā́ ródasī varuṇānī́ śṛṇotu ǀ
várūtrībhiḥ suśaraṇó no astu tváṣṭā sudátro ví dadhātu rā́yaḥ ǁtā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu |
varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ ||ता । नः॒ । रा॒स॒न् । रा॒ति॒ऽसाचः॑ । वसू॑नि । आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ ।
वरू॑त्रीभिः । सु॒ऽश॒र॒णः । नः॒ । अ॒स्तु॒ । त्वष्टा॑ । सु॒ऽदत्रः॑ । वि । द॒धा॒तु॒ । रायः॑ ॥ता । नः । रासन् । रातिऽसाचः । वसूनि । आ । रोदसी इति । वरुणानी । शृणोतु ।
वरूत्रीभिः । सुऽशरणः । नः । अस्तु । त्वष्टा । सुऽदत्रः । वि । दधातु । रायः ॥tā́ ǀ naḥ ǀ rāsan ǀ rāti-sā́caḥ ǀ vásūni ǀ ā́ ǀ ródasī íti ǀ varuṇānī́ ǀ śṛṇotu ǀ
várūtrībhiḥ ǀ su-śaraṇáḥ ǀ naḥ ǀ astu ǀ tváṣṭā ǀ su-dátraḥ ǀ ví ǀ dadhātu ǀ rā́yaḥ ǁtā ǀ naḥ ǀ rāsan ǀ rāti-sācaḥ ǀ vasūni ǀ ā ǀ rodasī iti ǀ varuṇānī ǀ śṛṇotu ǀ
varūtrībhiḥ ǀ su-śaraṇaḥ ǀ naḥ ǀ astu ǀ tvaṣṭā ǀ su-datraḥ ǀ vi ǀ dadhātu ǀ rāyaḥ ǁ7.34.22 Aṣṭaka 5.3.27.2Anuvāka 7.3.22
-
Ṛk 23
तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः ।
वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥तन् नो रायः पर्वतास् तन् न आपस् तद् रातिषाच ओषधीर् उत द्यौः |
वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ||tánno rā́yaḥ párvatāstánna ā́pastádrātiṣā́ca óṣadhīrutá dyáuḥ ǀ
vánaspátibhiḥ pṛthivī́ sajóṣā ubhé ródasī pári pāsato naḥ ǁtan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ |
vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ ||तत् । नः॒ । रायः॑ । पर्व॑ताः । तत् । नः॒ । आपः॑ । तत् । रा॒ति॒ऽसाचः॑ । ओष॑धीः । उ॒त । द्यौः ।
वन॒स्पति॑ऽभिः । पृ॒थि॒वी । स॒ऽजोषाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । परि॑ । पा॒स॒तः॒ । नः॒ ॥तत् । नः । रायः । पर्वताः । तत् । नः । आपः । तत् । रातिऽसाचः । ओषधीः । उत । द्यौः ।
वनस्पतिऽभिः । पृथिवी । सऽजोषाः । उभे इति । रोदसी इति । परि । पासतः । नः ॥tát ǀ naḥ ǀ rā́yaḥ ǀ párvatāḥ ǀ tát ǀ naḥ ǀ ā́paḥ ǀ tát ǀ rāti-sā́caḥ ǀ óṣadhīḥ ǀ utá ǀ dyáuḥ ǀ
vánaspáti-bhiḥ ǀ pṛthivī́ ǀ sa-jóṣāḥ ǀ ubhé íti ǀ ródasī íti ǀ pári ǀ pāsataḥ ǀ naḥ ǁtat ǀ naḥ ǀ rāyaḥ ǀ parvatāḥ ǀ tat ǀ naḥ ǀ āpaḥ ǀ tat ǀ rāti-sācaḥ ǀ oṣadhīḥ ǀ uta ǀ dyauḥ ǀ
vanaspati-bhiḥ ǀ pṛthivī ǀ sa-joṣāḥ ǀ ubhe iti ǀ rodasī iti ǀ pari ǀ pāsataḥ ǀ naḥ ǁ7.34.23 Aṣṭaka 5.3.27.3Anuvāka 7.3.23
-
Ṛk 24
अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इंद्र॑सखा ।
अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥अनु तद् उर्वी रोदसी जिहाताम् अनु द्युक्षो वरुण इन्द्रसखा |
अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ||ánu tádurvī́ ródasī jihātāmánu dyukṣó váruṇa índrasakhā ǀ
ánu víśve marúto yé sahā́so rāyáḥ syāma dharúṇam dhiyádhyai ǁanu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā |
anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai ||अनु॑ । तत् । उ॒र्वी इति॑ । रोद॑सी॒ इति॑ । जि॒हा॒ता॒म् । अनु॑ । द्यु॒क्षः । वरु॑णः । इन्द्र॑ऽसखा ।
अनु॑ । विश्वे॑ । म॒रुतः॑ । ये । स॒हासः॑ । रा॒यः । स्या॒म॒ । ध॒रुण॑म् । धि॒यध्यै॑ ॥अनु । तत् । उर्वी इति । रोदसी इति । जिहाताम् । अनु । द्युक्षः । वरुणः । इन्द्रऽसखा ।
अनु । विश्वे । मरुतः । ये । सहासः । रायः । स्याम । धरुणम् । धियध्यै ॥ánu ǀ tát ǀ urvī́ íti ǀ ródasī íti ǀ jihātām ǀ ánu ǀ dyukṣáḥ ǀ váruṇaḥ ǀ índra-sakhā ǀ
ánu ǀ víśve ǀ marútaḥ ǀ yé ǀ sahā́saḥ ǀ rāyáḥ ǀ syāma ǀ dharúṇam ǀ dhiyádhyai ǁanu ǀ tat ǀ urvī iti ǀ rodasī iti ǀ jihātām ǀ anu ǀ dyukṣaḥ ǀ varuṇaḥ ǀ indra-sakhā ǀ
anu ǀ viśve ǀ marutaḥ ǀ ye ǀ sahāsaḥ ǀ rāyaḥ ǀ syāma ǀ dharuṇam ǀ dhiyadhyai ǁ7.34.24 Aṣṭaka 5.3.27.4Anuvāka 7.3.24
-
Ṛk 25
तन्न॒ इंद्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषंत ।
शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥तन् न इन्द्रो वरुणो मित्रो अग्निर् आप ओषधीर् वनिनो जुषन्त |
शर्मन् स्याम मरुताम् उपस्थे यूयम् पात स्वस्तिभिः सदा नः ||tánna índro váruṇo mitró agnírā́pa óṣadhīrvaníno juṣanta ǀ
śármantsyāma marútāmupásthe yūyám pāta svastíbhiḥ sádā naḥ ǁtan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta |
śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ ||तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ ।
शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त ।
शर्मन् । स्याम । मरुताम् । उपऽस्थे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥tát ǀ naḥ ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ ā́paḥ ǀ óṣadhīḥ ǀ vanínaḥ ǀ juṣanta ǀ
śárman ǀ syāma ǀ marútām ǀ upá-sthe ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁtat ǀ naḥ ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ āpaḥ ǀ oṣadhīḥ ǀ vaninaḥ ǀ juṣanta ǀ
śarman ǀ syāma ǀ marutām ǀ upa-sthe ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.34.25 Aṣṭaka 5.3.27.5Anuvāka 7.3.25
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.