Ṛgveda · Maṇḍala 7

Sūkta 33

Vasiṣṭha’s Sons · Vasiṣṭha · 1-9: Vasiṣṭha Maitrāvaruṇi; 10-14: Vasiṣṭha Maitrāvaruṇi’s Sons · 14 ṛks

Link
Devatā देवता
1-9: Vasiṣṭha’s Sons; 10-14: Vasiṣṭha
Ṛṣi ऋषि
1-9: Vasiṣṭha Maitrāvaruṇi; 10-14: Vasiṣṭha Maitrāvaruṇi’s Sons
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (3-5, 7, 9, 14); triṣṭup (1, 2, 6, 12, 13); virāṭtrisṭup (8, 11); bhurikpaṅkti (10)

2nd set of styles triṣṭubh

  1. Ṛk 1

    श्वि॒त्यंचो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑मं॒दुः ।
    उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥

    श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियञ्जिन्वासो अभि हि प्रमन्दुः |
    उत्तिष्ठन् वोचे परि बर्हिषो नॄन् न मे दूराद् अवितवे वसिष्ठाः ||

    śvityáñco mā dakṣiṇatáskapardā dhiyaṃjinvā́so abhí hí pramandúḥ ǀ
    uttíṣṭhanvoce pári barhíṣo nṝ́nná me dūrā́dávitave vásiṣṭhāḥ ǁ

    śvityañco mā dakṣiṇataskapardā dhiyañjinvāso abhi hi pramanduḥ |
    uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ ||

    श्वि॒त्यञ्चः॑ । मा॒ । द॒क्षि॒ण॒तःऽक॑पर्दाः । धि॒य॒म्ऽजि॒न्वासः॑ । अ॒भि । हि । प्र॒ऽम॒न्दुः ।
    उ॒त्ऽतिष्ठ॑न् । वो॒चे॒ । परि॑ । ब॒र्हिषः॑ । नॄन् । न । मे॒ । दू॒रात् । अवि॑तवे । वसि॑ष्ठाः ॥

    श्वित्यञ्चः । मा । दक्षिणतःऽकपर्दाः । धियम्ऽजिन्वासः । अभि । हि । प्रऽमन्दुः ।
    उत्ऽतिष्ठन् । वोचे । परि । बर्हिषः । नॄन् । न । मे । दूरात् । अवितवे । वसिष्ठाः ॥

    śvityáñcaḥ ǀ mā ǀ dakṣiṇatáḥ-kapardāḥ ǀ dhiyam-jinvā́saḥ ǀ abhí ǀ hí ǀ pra-mandúḥ ǀ
    ut-tíṣṭhan ǀ voce ǀ pári ǀ barhíṣaḥ ǀ nṝ́n ǀ ná ǀ me ǀ dūrā́t ǀ ávitave ǀ vásiṣṭhāḥ ǁ

    śvityañcaḥ ǀ mā ǀ dakṣiṇataḥ-kapardāḥ ǀ dhiyam-jinvāsaḥ ǀ abhi ǀ hi ǀ pra-manduḥ ǀ
    ut-tiṣṭhan ǀ voce ǀ pari ǀ barhiṣaḥ ǀ nṝn ǀ na ǀ me ǀ dūrāt ǀ avitave ǀ vasiṣṭhāḥ ǁ

    7.33.1 Aṣṭaka 5.3.22.1Anuvāka 7.2.148

  2. Ṛk 2

    दू॒रादिंद्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑शं॒तमति॒ पांत॑मु॒ग्रं ।
    पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिंद्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥

    दूराद् इन्द्रम् अनयन्न् आ सुतेन तिरो वैशन्तम् अति पान्तम् उग्रम् |
    पाशद्युम्नस्य वायतस्य सोमात् सुताद् इन्द्रो ऽवृणीता वसिष्ठान् ||

    dūrā́díndramanayannā́ suténa tiró vaiśantámáti pā́ntamugrám ǀ
    pā́śadyumnasya vāyatásya sómātsutā́díndro’vṛṇītā vásiṣṭhān ǁ

    dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram |
    pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān ||

    दू॒रात् । इन्द्र॑म् । अ॒न॒य॒न् । आ । सु॒तेन॑ । ति॒रः । वै॒श॒न्तम् । अति॑ । पान्त॑म् । उ॒ग्रम् ।
    पाश॑ऽद्युम्नस्य । वा॒य॒तस्य॑ । सोमा॑त् । सु॒तात् । इन्द्रः॑ । अ॒वृ॒णी॒त॒ । वसि॑ष्ठान् ॥

    दूरात् । इन्द्रम् । अनयन् । आ । सुतेन । तिरः । वैशन्तम् । अति । पान्तम् । उग्रम् ।
    पाशऽद्युम्नस्य । वायतस्य । सोमात् । सुतात् । इन्द्रः । अवृणीत । वसिष्ठान् ॥

    dūrā́t ǀ índram ǀ anayan ǀ ā́ ǀ suténa ǀ tiráḥ ǀ vaiśantám ǀ áti ǀ pā́ntam ǀ ugrám ǀ
    pā́śa-dyumnasya ǀ vāyatásya ǀ sómāt ǀ sutā́t ǀ índraḥ ǀ avṛṇīta ǀ vásiṣṭhān ǁ

    dūrāt ǀ indram ǀ anayan ǀ ā ǀ sutena ǀ tiraḥ ǀ vaiśantam ǀ ati ǀ pāntam ǀ ugram ǀ
    pāśa-dyumnasya ǀ vāyatasya ǀ somāt ǀ sutāt ǀ indraḥ ǀ avṛṇīta ǀ vasiṣṭhān ǁ

    7.33.2 Aṣṭaka 5.3.22.2Anuvāka 7.2.149

  3. Ṛk 3

    ए॒वेन्नु कं॒ सिंधु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान ।
    ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिंद्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥

    एवेन् नु कं सिन्धुम् एभिस् ततारेवेन् नु कम् भेदम् एभिर् जघान |
    एवेन् नु कं दाशराज्ञे सुदासम् प्रावद् इन्द्रो ब्रह्मणा वो वसिष्ठाः ||

    evénnú kam síndhumebhistatārevénnú kam bhedámebhirjaghāna ǀ
    evénnú kam dāśarājñé sudā́sam prā́vadíndro bráhmaṇā vo vasiṣṭhāḥ ǁ

    even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna |
    even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ ||

    ए॒व । इत् । नु । क॒म् । सिन्धु॑म् । ए॒भिः॒ । त॒ता॒र॒ । ए॒व । इत् । नु । क॒म् । भे॒दम् । ए॒भिः॒ । ज॒घा॒न॒ ।
    ए॒व । इत् । नु । क॒म् । दा॒श॒ऽरा॒ज्ञे । सु॒ऽदास॑म् । प्र । आ॒व॒त् । इन्द्रः॑ । ब्रह्म॑णा । वः॒ । व॒सि॒ष्ठाः॒ ॥

    एव । इत् । नु । कम् । सिन्धुम् । एभिः । ततार । एव । इत् । नु । कम् । भेदम् । एभिः । जघान ।
    एव । इत् । नु । कम् । दाशऽराज्ञे । सुऽदासम् । प्र । आवत् । इन्द्रः । ब्रह्मणा । वः । वसिष्ठाः ॥

    evá ǀ ít ǀ nú ǀ kam ǀ síndhum ǀ ebhiḥ ǀ tatāra ǀ evá ǀ ít ǀ nú ǀ kam ǀ bhedám ǀ ebhiḥ ǀ jaghāna ǀ
    evá ǀ ít ǀ nú ǀ kam ǀ dāśa-rājñé ǀ su-dā́sam ǀ prá ǀ āvat ǀ índraḥ ǀ bráhmaṇā ǀ vaḥ ǀ vasiṣṭhāḥ ǁ

    eva ǀ it ǀ nu ǀ kam ǀ sindhum ǀ ebhiḥ ǀ tatāra ǀ eva ǀ it ǀ nu ǀ kam ǀ bhedam ǀ ebhiḥ ǀ jaghāna ǀ
    eva ǀ it ǀ nu ǀ kam ǀ dāśa-rājñe ǀ su-dāsam ǀ pra ǀ āvat ǀ indraḥ ǀ brahmaṇā ǀ vaḥ ǀ vasiṣṭhāḥ ǁ

    7.33.3 Aṣṭaka 5.3.22.3Anuvāka 7.2.150

  4. Ṛk 4

    जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ ।
    यच्छक्व॑रीषु बृह॒ता रवे॒णेंद्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥

    जुष्टी नरो ब्रह्मणा वः पितॄणाम् अक्षम् अव्ययं न किला रिषाथ |
    यच् छक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता वसिष्ठाः ||

    júṣṭī naro bráhmaṇā vaḥ pitṝṇā́mákṣamavyayam ná kílā riṣātha ǀ
    yácchákvarīṣu bṛhatā́ ráveṇéndre śúṣmamádadhātā vasiṣṭhāḥ ǁ

    juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha |
    yac chakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ ||

    जुष्टी॑ । न॒रः॒ । ब्रह्म॑णा । वः॒ । पि॒तॄ॒णाम् । अक्ष॑म् । अ॒व्य॒य॒म् । न । किल॑ । रि॒षा॒थ॒ ।
    यत् । शक्व॑रीषु । बृ॒ह॒ता । रवे॑ण । इन्द्रे॑ । शुष्म॑म् । अद॑धात । व॒सि॒ष्ठाः॒ ॥

    जुष्टी । नरः । ब्रह्मणा । वः । पितॄणाम् । अक्षम् । अव्ययम् । न । किल । रिषाथ ।
    यत् । शक्वरीषु । बृहता । रवेण । इन्द्रे । शुष्मम् । अदधात । वसिष्ठाः ॥

    júṣṭī ǀ naraḥ ǀ bráhmaṇā ǀ vaḥ ǀ pitṝṇā́m ǀ ákṣam ǀ avyayam ǀ ná ǀ kíla ǀ riṣātha ǀ
    yát ǀ śákvarīṣu ǀ bṛhatā́ ǀ ráveṇa ǀ índre ǀ śúṣmam ǀ ádadhāta ǀ vasiṣṭhāḥ ǁ

    juṣṭī ǀ naraḥ ǀ brahmaṇā ǀ vaḥ ǀ pitṝṇām ǀ akṣam ǀ avyayam ǀ na ǀ kila ǀ riṣātha ǀ
    yat ǀ śakvarīṣu ǀ bṛhatā ǀ raveṇa ǀ indre ǀ śuṣmam ǀ adadhāta ǀ vasiṣṭhāḥ ǁ

    7.33.4 Aṣṭaka 5.3.22.4Anuvāka 7.2.151

  5. Ṛk 5

    उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तासः॑ ।
    वसि॑ष्ठस्य स्तुव॒त इंद्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कं ॥

    उद् द्याम् इवेत् तृष्णजो नाथितासो ऽदीधयुर् दाशराज्ञे वृतासः |
    वसिष्ठस्य स्तुवत इन्द्रो अश्रोद् उरुं तृत्सुभ्यो अकृणोद् उ लोकम् ||

    úddyā́mivéttṛṣṇájo nāthitā́só’dīdhayurdāśarājñé vṛtā́saḥ ǀ
    vásiṣṭhasya stuvatá índro aśrodurúm tṛ́tsubhyo akṛṇodu lokám ǁ

    ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ |
    vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod u lokam ||

    उत् । द्याम्ऽइ॑व । इत् । तृ॒ष्णऽजः॑ । ना॒थि॒तासः॑ । अदी॑धयुः । दा॒श॒ऽरा॒ज्ञे । वृ॒तासः॑ ।
    वसि॑ष्ठस्य । स्तु॒व॒तः । इन्द्रः॑ । अ॒श्रो॒त् । उ॒रुम् । तृत्सु॑ऽभ्यः । अ॒कृ॒णो॒त् । ऊं॒ इति॑ । लो॒कम् ॥

    उत् । द्याम्ऽइव । इत् । तृष्णऽजः । नाथितासः । अदीधयुः । दाशऽराज्ञे । वृतासः ।
    वसिष्ठस्य । स्तुवतः । इन्द्रः । अश्रोत् । उरुम् । तृत्सुऽभ्यः । अकृणोत् । ऊं इति । लोकम् ॥

    út ǀ dyā́m-iva ǀ ít ǀ tṛṣṇá-jaḥ ǀ nāthitā́saḥ ǀ ádīdhayuḥ ǀ dāśa-rājñé ǀ vṛtā́saḥ ǀ
    vásiṣṭhasya ǀ stuvatáḥ ǀ índraḥ ǀ aśrot ǀ urúm ǀ tṛ́tsu-bhyaḥ ǀ akṛṇot ǀ ūṃ íti ǀ lokám ǁ

    ut ǀ dyām-iva ǀ it ǀ tṛṣṇa-jaḥ ǀ nāthitāsaḥ ǀ adīdhayuḥ ǀ dāśa-rājñe ǀ vṛtāsaḥ ǀ
    vasiṣṭhasya ǀ stuvataḥ ǀ indraḥ ǀ aśrot ǀ urum ǀ tṛtsu-bhyaḥ ǀ akṛṇot ǀ ūṃ iti ǀ lokam ǁ

    7.33.5 Aṣṭaka 5.3.22.5Anuvāka 7.2.152

  6. Ṛk 6

    दं॒डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑ ।
    अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथंत ॥

    दण्डा इवेद् गोअजनास आसन् परिच्छिन्ना भरता अर्भकासः |
    अभवच् च पुरएता वसिष्ठ आद् इत् तृत्सूनां विशो अप्रथन्त ||

    daṇḍā́ ivédgoájanāsa āsanpáricchinnā bharatā́ arbhakā́saḥ ǀ
    ábhavacca puraetā́ vásiṣṭha ā́díttṛ́tsūnām víśo aprathanta ǁ

    daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ |
    abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta ||

    द॒ण्डाःऽइ॑व । इत् । गो॒ऽअज॑नासः । आ॒स॒न् । परि॑ऽछिन्नाः । भ॒र॒ताः । अ॒र्भ॒कासः॑ ।
    अभ॑वत् । च॒ । पु॒रः॒ऽए॒ता । वसि॑ष्ठः । आत् । इत् । तृत्सू॑नाम् । विशः॑ । अ॒प्र॒थ॒न्त॒ ॥

    दण्डाःऽइव । इत् । गोऽअजनासः । आसन् । परिऽछिन्नाः । भरताः । अर्भकासः ।
    अभवत् । च । पुरःऽएता । वसिष्ठः । आत् । इत् । तृत्सूनाम् । विशः । अप्रथन्त ॥

    daṇḍā́ḥ-iva ǀ ít ǀ go-ájanāsaḥ ǀ āsan ǀ pári-chinnāḥ ǀ bharatā́ḥ ǀ arbhakā́saḥ ǀ
    ábhavat ǀ ca ǀ puraḥ-etā́ ǀ vásiṣṭhaḥ ǀ ā́t ǀ ít ǀ tṛ́tsūnām ǀ víśaḥ ǀ aprathanta ǁ

    daṇḍāḥ-iva ǀ it ǀ go-ajanāsaḥ ǀ āsan ǀ pari-chinnāḥ ǀ bharatāḥ ǀ arbhakāsaḥ ǀ
    abhavat ǀ ca ǀ puraḥ-etā ǀ vasiṣṭhaḥ ǀ āt ǀ it ǀ tṛtsūnām ǀ viśaḥ ǀ aprathanta ǁ

    7.33.6 Aṣṭaka 5.3.23.1Anuvāka 7.2.153

  7. Ṛk 7

    त्रयः॑ कृण्वंति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः ।
    त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचंते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥

    त्रयः कृण्वन्ति भुवनेषु रेतस् तिस्रः प्रजा आर्या ज्योतिरग्राः |
    त्रयो घर्मास उषसं सचन्ते सर्वां इत् तां अनु विदुर् वसिष्ठाः ||

    tráyaḥ kṛṇvanti bhúvaneṣu rétastisráḥ prajā́ ā́ryā jyótiragrāḥ ǀ
    tráyo gharmā́sa uṣásam sacante sárvām̐ íttā́m̐ ánu vidurvásiṣṭhāḥ ǁ

    trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ |
    trayo gharmāsa uṣasaṃ sacante sarvāṃ it tāṃ anu vidur vasiṣṭhāḥ ||

    त्रयः॑ । कृ॒ण्व॒न्ति॒ । भुव॑नेषु । रेतः॑ । ति॒स्रः । प्र॒ऽजाः । आर्याः॑ । ज्योतिः॑ऽअग्राः ।
    त्रयः॑ । घ॒र्मासः॑ । उ॒षस॑म् । स॒च॒न्ते॒ । सर्वा॑न् । इत् । तान् । अनु॑ । वि॒दुः॒ । वसि॑ष्ठाः ॥

    त्रयः । कृण्वन्ति । भुवनेषु । रेतः । तिस्रः । प्रऽजाः । आर्याः । ज्योतिःऽअग्राः ।
    त्रयः । घर्मासः । उषसम् । सचन्ते । सर्वान् । इत् । तान् । अनु । विदुः । वसिष्ठाः ॥

    tráyaḥ ǀ kṛṇvanti ǀ bhúvaneṣu ǀ rétaḥ ǀ tisráḥ ǀ pra-jā́ḥ ǀ ā́ryāḥ ǀ jyótiḥ-agrāḥ ǀ
    tráyaḥ ǀ gharmā́saḥ ǀ uṣásam ǀ sacante ǀ sárvān ǀ ít ǀ tā́n ǀ ánu ǀ viduḥ ǀ vásiṣṭhāḥ ǁ

    trayaḥ ǀ kṛṇvanti ǀ bhuvaneṣu ǀ retaḥ ǀ tisraḥ ǀ pra-jāḥ ǀ āryāḥ ǀ jyotiḥ-agrāḥ ǀ
    trayaḥ ǀ gharmāsaḥ ǀ uṣasam ǀ sacante ǀ sarvān ǀ it ǀ tān ǀ anu ǀ viduḥ ǀ vasiṣṭhāḥ ǁ

    7.33.7 Aṣṭaka 5.3.23.2Anuvāka 7.2.154

  8. Ṛk 8

    सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः ।
    वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥

    सूर्यस्येव वक्षथो ज्योतिर् एषां समुद्रस्येव महिमा गभीरः |
    वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ||

    sū́ryasyeva vakṣátho jyótireṣām samudrásyeva mahimā́ gabhīráḥ ǀ
    vā́tasyeva prajavó nā́nyéna stómo vasiṣṭhā ánvetave vaḥ ǁ

    sūryasyeva vakṣatho jyotir eṣāṃ samudrasyeva mahimā gabhīraḥ |
    vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ ||

    सूर्य॑स्यऽइव । व॒क्षथः॑ । ज्योतिः॑ । ए॒षा॒म् । स॒मु॒द्रस्य॑ऽइव । म॒हि॒मा । ग॒भी॒रः ।
    वात॑स्यऽइव । प्र॒ऽज॒वः । न । अ॒न्येन॑ । स्तोमः॑ । व॒सि॒ष्ठाः॒ । अनु॑ऽएतवे । वः॒ ॥

    सूर्यस्यऽइव । वक्षथः । ज्योतिः । एषाम् । समुद्रस्यऽइव । महिमा । गभीरः ।
    वातस्यऽइव । प्रऽजवः । न । अन्येन । स्तोमः । वसिष्ठाः । अनुऽएतवे । वः ॥

    sū́ryasya-iva ǀ vakṣáthaḥ ǀ jyótiḥ ǀ eṣām ǀ samudrásya-iva ǀ mahimā́ ǀ gabhīráḥ ǀ
    vā́tasya-iva ǀ pra-javáḥ ǀ ná ǀ anyéna ǀ stómaḥ ǀ vasiṣṭhāḥ ǀ ánu-etave ǀ vaḥ ǁ

    sūryasya-iva ǀ vakṣathaḥ ǀ jyotiḥ ǀ eṣām ǀ samudrasya-iva ǀ mahimā ǀ gabhīraḥ ǀ
    vātasya-iva ǀ pra-javaḥ ǀ na ǀ anyena ǀ stomaḥ ǀ vasiṣṭhāḥ ǀ anu-etave ǀ vaḥ ǁ

    7.33.8 Aṣṭaka 5.3.23.3Anuvāka 7.2.155

  9. Ṛk 9

    त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रंति ।
    य॒मेन॑ त॒तं प॑रि॒धिं वयं॑तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥

    त इन् निण्यं हृदयस्य प्रकेतैः सहस्रवल्शम् अभि सं चरन्ति |
    यमेन ततम् परिधिं वयन्तो ऽप्सरस उप सेदुर् वसिष्ठाः ||

    tá ínniṇyám hṛ́dayasya praketáiḥ sahásravalśamabhí sám caranti ǀ
    yaména tatám paridhím váyanto’psarása úpa sedurvásiṣṭhāḥ ǁ

    ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśam abhi saṃ caranti |
    yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ ||

    ते । इत् । नि॒ण्यम् । हृद॑यस्य । प्र॒ऽके॒तैः । स॒हस्र॑ऽवल्शम् । अ॒भि । सम् । च॒र॒न्ति॒ ।
    य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । वय॑न्तः । अ॒प्स॒रसः॑ । उप॑ । से॒दुः॒ । वसि॑ष्ठाः ॥

    ते । इत् । निण्यम् । हृदयस्य । प्रऽकेतैः । सहस्रऽवल्शम् । अभि । सम् । चरन्ति ।
    यमेन । ततम् । परिऽधिम् । वयन्तः । अप्सरसः । उप । सेदुः । वसिष्ठाः ॥

    té ǀ ít ǀ niṇyám ǀ hṛ́dayasya ǀ pra-ketáiḥ ǀ sahásra-valśam ǀ abhí ǀ sám ǀ caranti ǀ
    yaména ǀ tatám ǀ pari-dhím ǀ váyantaḥ ǀ apsarásaḥ ǀ úpa ǀ seduḥ ǀ vásiṣṭhāḥ ǁ

    te ǀ it ǀ niṇyam ǀ hṛdayasya ǀ pra-ketaiḥ ǀ sahasra-valśam ǀ abhi ǀ sam ǀ caranti ǀ
    yamena ǀ tatam ǀ pari-dhim ǀ vayantaḥ ǀ apsarasaḥ ǀ upa ǀ seduḥ ǀ vasiṣṭhāḥ ǁ

    7.33.9 Aṣṭaka 5.3.23.4Anuvāka 7.2.156

  10. Ṛk 10

    वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा ।
    तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥

    विद्युतो ज्योतिः परि संजिहानम् मित्रावरुणा यद् अपश्यतां त्वा |
    तत् ते जन्मोतैकं वसिष्ठागस्त्यो यत् त्वा विश आजभार ||

    vidyúto jyótiḥ pári saṃjíhānam mitrā́váruṇā yádápaśyatām tvā ǀ
    tátte jánmotáikam vasiṣṭhāgástyo yáttvā viśá ājabhā́ra ǁ

    vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā |
    tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra ||

    वि॒ऽद्युतः॑ । ज्योतिः॑ । परि॑ । स॒म्ऽजिहा॑नम् । मि॒त्रावरु॑णा । यत् । अप॑श्यताम् । त्वा॒ ।
    तत् । ते॒ । जन्म॑ । उ॒त । एक॑म् । व॒सि॒ष्ठ॒ । अ॒गस्त्यः॑ । यत् । त्वा॒ । वि॒शः । आ॒ऽज॒भार॑ ॥

    विऽद्युतः । ज्योतिः । परि । सम्ऽजिहानम् । मित्रावरुणा । यत् । अपश्यताम् । त्वा ।
    तत् । ते । जन्म । उत । एकम् । वसिष्ठ । अगस्त्यः । यत् । त्वा । विशः । आऽजभार ॥

    vi-dyútaḥ ǀ jyótiḥ ǀ pári ǀ sam-jíhānam ǀ mitrā́váruṇā ǀ yát ǀ ápaśyatām ǀ tvā ǀ
    tát ǀ te ǀ jánma ǀ utá ǀ ékam ǀ vasiṣṭha ǀ agástyaḥ ǀ yát ǀ tvā ǀ viśáḥ ǀ ā-jabhā́ra ǁ

    vi-dyutaḥ ǀ jyotiḥ ǀ pari ǀ sam-jihānam ǀ mitrāvaruṇā ǀ yat ǀ apaśyatām ǀ tvā ǀ
    tat ǀ te ǀ janma ǀ uta ǀ ekam ǀ vasiṣṭha ǀ agastyaḥ ǀ yat ǀ tvā ǀ viśaḥ ǀ ā-jabhāra ǁ

    7.33.10 Aṣṭaka 5.3.23.5Anuvāka 7.2.157

  11. Ṛk 11

    उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः ।
    द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददंत ॥

    उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन् मनसो ऽधि जातः |
    द्रप्सं स्कन्नम् ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ||

    utā́si maitrāvaruṇó vasiṣṭhorváśyā brahmanmánasó’dhi jātáḥ ǀ
    drapsám skannám bráhmaṇā dáivyena víśve devā́ḥ púṣkare tvādadanta ǁ

    utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ |
    drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta ||

    उ॒त । अ॒सि॒ । मै॒त्रा॒व॒रु॒णः । व॒सि॒ष्ठ॒ । उ॒र्वश्याः॑ । ब्र॒ह्म॒न् । मन॑सः । अधि॑ । जा॒तः ।
    द्र॒प्सम् । स्क॒न्नम् । ब्रह्म॑णा । दैव्ये॑न । विश्वे॑ । दे॒वाः । पुष्क॑रे । त्वा॒ । अ॒द॒द॒न्त॒ ॥

    उत । असि । मैत्रावरुणः । वसिष्ठ । उर्वश्याः । ब्रह्मन् । मनसः । अधि । जातः ।
    द्रप्सम् । स्कन्नम् । ब्रह्मणा । दैव्येन । विश्वे । देवाः । पुष्करे । त्वा । अददन्त ॥

    utá ǀ asi ǀ maitrāvaruṇáḥ ǀ vasiṣṭha ǀ urváśyāḥ ǀ brahman ǀ mánasaḥ ǀ ádhi ǀ jātáḥ ǀ
    drapsám ǀ skannám ǀ bráhmaṇā ǀ dáivyena ǀ víśve ǀ devā́ḥ ǀ púṣkare ǀ tvā ǀ adadanta ǁ

    uta ǀ asi ǀ maitrāvaruṇaḥ ǀ vasiṣṭha ǀ urvaśyāḥ ǀ brahman ǀ manasaḥ ǀ adhi ǀ jātaḥ ǀ
    drapsam ǀ skannam ǀ brahmaṇā ǀ daivyena ǀ viśve ǀ devāḥ ǀ puṣkare ǀ tvā ǀ adadanta ǁ

    7.33.11 Aṣṭaka 5.3.24.1Anuvāka 7.2.158

  12. Ṛk 12

    स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्त्स॒हस्र॑दान उ॒त वा॒ सदा॑नः ।
    य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ॥

    स प्रकेत उभयस्य प्रविद्वान् सहस्रदान उत वा सदानः |
    यमेन ततम् परिधिं वयिष्यन्न् अप्सरसः परि जज्ञे वसिष्ठः ||

    sá praketá ubháyasya pravidvā́ntsahásradāna utá vā sádānaḥ ǀ
    yaména tatám paridhím vayiṣyánnapsarásaḥ pári jajñe vásiṣṭhaḥ ǁ

    sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ |
    yamena tatam paridhiṃ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ ||

    सः । प्र॒ऽके॒तः । उ॒भय॑स्य । प्र॒ऽवि॒द्वान् । स॒हस्र॑ऽदानः । उ॒त । वा॒ । सऽदा॑नः ।
    य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । व॒यि॒ष्यन् । अ॒प्स॒रसः॑ । परि॑ । ज॒ज्ञे॒ । वसि॑ष्ठः ॥

    सः । प्रऽकेतः । उभयस्य । प्रऽविद्वान् । सहस्रऽदानः । उत । वा । सऽदानः ।
    यमेन । ततम् । परिऽधिम् । वयिष्यन् । अप्सरसः । परि । जज्ञे । वसिष्ठः ॥

    sáḥ ǀ pra-ketáḥ ǀ ubháyasya ǀ pra-vidvā́n ǀ sahásra-dānaḥ ǀ utá ǀ vā ǀ sá-dānaḥ ǀ
    yaména ǀ tatám ǀ pari-dhím ǀ vayiṣyán ǀ apsarásaḥ ǀ pári ǀ jajñe ǀ vásiṣṭhaḥ ǁ

    saḥ ǀ pra-ketaḥ ǀ ubhayasya ǀ pra-vidvān ǀ sahasra-dānaḥ ǀ uta ǀ vā ǀ sa-dānaḥ ǀ
    yamena ǀ tatam ǀ pari-dhim ǀ vayiṣyan ǀ apsarasaḥ ǀ pari ǀ jajñe ǀ vasiṣṭhaḥ ǁ

    7.33.12 Aṣṭaka 5.3.24.2Anuvāka 7.2.159

  13. Ṛk 13

    स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कुं॒भे रेतः॑ सिषिचतुः समा॒नं ।
    ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठं ॥

    सत्रे ह जाताव् इषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् |
    ततो ह मान उद् इयाय मध्यात् ततो जातम् ऋषिम् आहुर् वसिष्ठम् ||

    satré ha jātā́viṣitā́ námobhiḥ kumbhé rétaḥ siṣicatuḥ samānám ǀ
    táto ha mā́na údiyāya mádhyāttáto jātámṛ́ṣimāhurvásiṣṭham ǁ

    satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam |
    tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham ||

    स॒त्रे । ह॒ । जा॒तौ । इ॒षि॒ता । नमः॑ऽभिः । कु॒म्भे । रेतः॑ । सि॒सि॒च॒तुः॒ । स॒मा॒नम् ।
    ततः॑ । ह॒ । मानः॑ । उत् । इ॒या॒य॒ । मध्या॑त् । ततः॑ । जा॒तम् । ऋषि॑म् । आ॒हुः॒ । वसि॑ष्ठम् ॥

    सत्रे । ह । जातौ । इषिता । नमःऽभिः । कुम्भे । रेतः । सिसिचतुः । समानम् ।
    ततः । ह । मानः । उत् । इयाय । मध्यात् । ततः । जातम् । ऋषिम् । आहुः । वसिष्ठम् ॥

    satré ǀ ha ǀ jātáu ǀ iṣitā́ ǀ námaḥ-bhiḥ ǀ kumbhé ǀ rétaḥ ǀ sisicatuḥ ǀ samānám ǀ
    tátaḥ ǀ ha ǀ mā́naḥ ǀ út ǀ iyāya ǀ mádhyāt ǀ tátaḥ ǀ jātám ǀ ṛ́ṣim ǀ āhuḥ ǀ vásiṣṭham ǁ

    satre ǀ ha ǀ jātau ǀ iṣitā ǀ namaḥ-bhiḥ ǀ kumbhe ǀ retaḥ ǀ sisicatuḥ ǀ samānam ǀ
    tataḥ ǀ ha ǀ mānaḥ ǀ ut ǀ iyāya ǀ madhyāt ǀ tataḥ ǀ jātam ǀ ṛṣim ǀ āhuḥ ǀ vasiṣṭham ǁ

    7.33.13 Aṣṭaka 5.3.24.3Anuvāka 7.2.160

  14. Ṛk 14

    उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ ।
    उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥

    उक्थभृतं सामभृतम् बिभर्ति ग्रावाणम् बिभ्रत् प्र वदात्य् अग्रे |
    उपैनम् आध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ||

    ukthabhṛ́tam sāmabhṛ́tam bibharti grā́vāṇam bíbhratprá vadātyágre ǀ
    úpainamādhvam sumanasyámānā ā́ vo gacchāti pratṛdo vásiṣṭhaḥ ǁ

    ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre |
    upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ ||

    उ॒क्थ॒ऽभृत॑म् । सा॒म॒ऽभृत॑म् । बि॒भ॒र्ति॒ । ग्रावा॑णम् । बिभ्र॑त् । प्र । व॒दा॒ति॒ । अग्रे॑ ।
    उप॑ । ए॒न॒म् । आ॒ध्व॒म् । सु॒ऽम॒न॒स्यमा॑नाः । आ । वः॒ । ग॒च्छा॒ति॒ । प्र॒ऽतृ॒दः॒ । वसि॑ष्ठः ॥

    उक्थऽभृतम् । सामऽभृतम् । बिभर्ति । ग्रावाणम् । बिभ्रत् । प्र । वदाति । अग्रे ।
    उप । एनम् । आध्वम् । सुऽमनस्यमानाः । आ । वः । गच्छाति । प्रऽतृदः । वसिष्ठः ॥

    uktha-bhṛ́tam ǀ sāma-bhṛ́tam ǀ bibharti ǀ grā́vāṇam ǀ bíbhrat ǀ prá ǀ vadāti ǀ ágre ǀ
    úpa ǀ enam ǀ ādhvam ǀ su-manasyámānāḥ ǀ ā́ ǀ vaḥ ǀ gacchāti ǀ pra-tṛdaḥ ǀ vásiṣṭhaḥ ǁ

    uktha-bhṛtam ǀ sāma-bhṛtam ǀ bibharti ǀ grāvāṇam ǀ bibhrat ǀ pra ǀ vadāti ǀ agre ǀ
    upa ǀ enam ǀ ādhvam ǀ su-manasyamānāḥ ǀ ā ǀ vaḥ ǀ gacchāti ǀ pra-tṛdaḥ ǀ vasiṣṭhaḥ ǁ

    7.33.14 Aṣṭaka 5.3.24.4Anuvāka 7.2.161

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.33 · Vasiṣṭha’s Sons · Vasiṣṭha

Interpretations

Ralph T. H. Griffith

Ṛk 1

THESE who wear hair-knots on the right, the movers of holy thought, white-robed, have won me over. I warned the men, when from the grass I raised me, Not from afar can my Vasisthas help you.

Ṛk 2

With Soma they brought Indra from a distance, Over Vaisanta, from the strong libation. Indra preferred Vasisthas to the Soma pressed by the son of Vayata, Pasadyumna.

Ṛk 3

So, verily, with these he crossed the river, in company with these he slaughtered Bheda. So in the fight with the Ten Kings, Vasisthas! did Indra help Sudās through your devotions.

Ṛk 4

I gladly, men I with prayer prayed by our fathers have fixed your axle: ye shall not be injured: Since, when ye sang aloud the Sakvari verses, Vasisthas! ye invigorated Indra.

Ṛk 5

Like thirsty men they looked to heaven, in battle with the Ten Kings, surrounded and imploring. Then Indra heard Vasiṣṭha as he praised him, and gave the Trtsus ample room and freedom.

Ṛk 6

Like sticks and staves wherewith they drive the cattle, Stripped bare, the Bharatas were found defenceless: Vasiṣṭha then became their chief and leader: then widely. were the Trtsus' clans extended.

Ṛk 7

Three fertilize the worlds with genial moisture: three noble Creatures cast a light before them. Three that give warmth to all attend the morning. All these have they discovered, these Vasisthas.

Ṛk 8

Like the Sun's growing glory is their splendour, and like the sea's is their unflathomed greatness. Their course is like the wind's. Your laud, Vasisthas, can never be attained by any other.

Ṛk 9

They with perceptions of the heart in secret resort to that which spreads a thousand branches. The Apsaras brought hither the Vasisthas wearing the vesture spun for them by Yama.

Ṛk 10

A form of lustre springing from the lightning wast thou, when Varuṇa and Mitra saw thee. Tliy one and only birth was then, Vasiṣṭha, when from thy stock Agastya brought thee hither.

Ṛk 11

Born of their love for Urvasi, Vasiṣṭha thou, priest, art son of Varuṇa and Mitra; And as a fallen drop, in heavenly fervour, all the Gods laid thee on a lotus-blossorn.

Ṛk 12

He thinker, knower both of earth and heaven, endowed with many a gift, bestowing thousands, Destined to wear the vesture spun by Yama, sprang from the Apsaras to life, Vasiṣṭha.

Ṛk 13

Born at the sacrifice, urged by adorations, both with a common flow bedewed the pitcher. Then from the midst thereof there rose up Māna, and thence they say was born the sage Vasiṣṭha.