Ṛk 7.33.4
Saṃhitā
जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ ।
यच्छक्व॑रीषु बृह॒ता रवे॒णेंद्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥
जुष्टी नरो ब्रह्मणा वः पितॄणाम् अक्षम् अव्ययं न किला रिषाथ |
यच् छक्वरीषु बृहता रवेणेन्द्रे शुष्मम् अदधाता वसिष्ठाः ||
júṣṭī naro bráhmaṇā vaḥ pitṝṇā́mákṣamavyayam ná kílā riṣātha ǀ
yácchákvarīṣu bṛhatā́ ráveṇéndre śúṣmamádadhātā vasiṣṭhāḥ ǁ
juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha |
yac chakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ ||
Padapāṭha
जुष्टी॑ । न॒रः॒ । ब्रह्म॑णा । वः॒ । पि॒तॄ॒णाम् । अक्ष॑म् । अ॒व्य॒य॒म् । न । किल॑ । रि॒षा॒थ॒ ।
यत् । शक्व॑रीषु । बृ॒ह॒ता । रवे॑ण । इन्द्रे॑ । शुष्म॑म् । अद॑धात । व॒सि॒ष्ठाः॒ ॥
जुष्टी । नरः । ब्रह्मणा । वः । पितॄणाम् । अक्षम् । अव्ययम् । न । किल । रिषाथ ।
यत् । शक्वरीषु । बृहता । रवेण । इन्द्रे । शुष्मम् । अदधात । वसिष्ठाः ॥
júṣṭī ǀ naraḥ ǀ bráhmaṇā ǀ vaḥ ǀ pitṝṇā́m ǀ ákṣam ǀ avyayam ǀ ná ǀ kíla ǀ riṣātha ǀ
yát ǀ śákvarīṣu ǀ bṛhatā́ ǀ ráveṇa ǀ índre ǀ śúṣmam ǀ ádadhāta ǀ vasiṣṭhāḥ ǁ
juṣṭī ǀ naraḥ ǀ brahmaṇā ǀ vaḥ ǀ pitṝṇām ǀ akṣam ǀ avyayam ǀ na ǀ kila ǀ riṣātha ǀ
yat ǀ śakvarīṣu ǀ bṛhatā ǀ raveṇa ǀ indre ǀ śuṣmam ǀ adadhāta ǀ vasiṣṭhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.033.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.22.04
- Maṇḍala · Anuvāka · Ṛk
- 07.02.151
- Devatā देवता
- 1-9: Vasiṣṭha’s Sons; 10-14: Vasiṣṭha
- Ṛṣi ऋषि
- 1-9: Vasiṣṭha Maitrāvaruṇi; 10-14: Vasiṣṭha Maitrāvaruṇi’s Sons
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.